________________
४५६
५।१६ ]
पञ्चमोऽध्यायः
दिभिः प्रदेशविशरणप्रसङ्गः, ततश्च शून्यता प्राप्नोति इति; तन्न; किं कारणम् ? अमूर्तस्वभावापरित्यागात् । बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादन्यत्वमापद्यमानः नामूर्तस्वभावं जहातीति घटादिवत् न प्रदेशविशरणमस्ति । किञ्च,
अनेकान्तात् |५| यो लेकान्तेन संहारविसर्पवानेवात्मा सावयवश्चेति वा ब्रूयात् तं प्रत्ययमुपालम्भो घटामुपेयात् । यस्य त्वनादिपारिणामिकचैतन्यजीवद्रव्योपयोगादिद्रव्यार्थादेशात् स्यान्न प्रदेशसंहारविसर्पवान, द्रव्यार्थादेशाच स्यान्निरवयवः, प्रतिनियतसूक्ष्मबादरशरीरापेक्षनिर्माणनामोदयपर्यायार्थादेशात् स्यात् प्रदेशसंहारविसर्पवान्, अनादिकर्मबन्धपर्यायार्थादेशाश्च स्यात् सावयवः, तं प्रत्यनुपालम्भः । किञ्च,
तत्प्रदेशानामकारणपूर्वकत्वादणुवत् |६| येस्यावयवाः कारणपूर्वका भवन्ति तस्यावयवविशरणं भवति, अवयूयन्ते इत्यवयवाः । यथा पढादेरनेकतन्त्वादिसंघातकारणत्वात् तन्त्वादिवि- १० श्लेषे विशरणं भवति न तथा आत्मनः अन्यद्रव्यसंघातपूर्वकाः प्रदेशाः । कुतः ? तत्प्रदेशानामकारणपूर्वकत्वात् । यथा अणोः प्रदेशः नान्यद्रव्यसंघातपूर्वकः ततो नासाववयवविश्लेषपूर्वक मनित्यत्वमास्कन्दति किन्तु संघातेनाऽनित्यः, तथा आत्मप्रदेशानामपि नान्यद्रव्यसंघातपूर्वकत्वमतः प्रदेशवत्त्वात् आत्मा सावयवोऽपि नावयवविश्लेषादनित्यः, किन्तु गत्यादिपर्यायादेशादनित्यः ।
2
तत एव प्रतिप्रदेशं गुणविशेषाभावो घटषत् |७| कुत एव ? प्रदेशानामकारणपूर्वकत्वादेव । १५ यथा घटस्य प्रदेशा अन्यद्रव्यसंघातपूर्वका इति तेषु प्रतिप्रदेशं रूपादिगुणविशेषो दृष्टः, न तथा आत्मप्रदेशा अन्यद्रव्यसंघातपूर्वका इति न तेषु प्रतिप्रदेशं सुखादिगुणविशेषो भवति । यदि अन्यद्रव्यसंघातपूर्वकाः स्युरात्मप्रदेशाः तेषु घटवत् सुखादिविशेषवृत्तिः स्यात् ततश्चात्मनो बहुत्वं प्रसज्येत । यथाऽणौ निरवयवे एकजातीयो गुणः शुक्लादिरेककाले भवति एक एव न भिन्नजातीयस्तथा आत्मनि निरवयवे एकजातीयो गुणः सुखादिरेककाले भवति एक एव । अत्र कश्चिदाह"वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । धर्मोपमश्चेत् सोऽनित्यः खतुल्यश्वेदसत्फलम् ॥" [
] इति ।
अत्रोच्यते — पिष्टपेषणमेतत् मूर्ताऽमूर्तत्वं प्रति नित्यानित्यत्वं च प्रत्यनैकान्तिकत्वात् उपालम्भाभाव इति ।
"
५
२०
पुद्गलवदेकप्रदेशादिषु वृत्तिप्रसङ्ग इति चेत्; न; शरीरप्रमाणानुविधानात् । स्या- २५ न्मतम्-प्रदेशसंहारविर्संर्पाभ्यामेव पुद्गलवदेकप्रदेशादिषु जीवस्य वृत्तिः प्राप्नोतीति; तन्न; किं कारणम् ? शरीरप्रमाणानुविधानात् । कार्मणशरीरवशादुपात्तं महदल्पं वा शरीरमधितिष्ठति संसारी जीव इत्युक्तम् । न चैकप्रदेशादिकं शरीरमस्ति 'जघन्येनाऽङ्गलस्याऽसंख्येयभागप्रमा- णत्वात् । अतो नास्यैकप्रदेशादिषु वृत्तिरस्ति ।
१ घटपटादेः । २ नान्यद्रव्यपूर्व - मु०, ५०, ब० । ३ एतत् प्र- न०, मू०, ता० । ४ एकस्मिन्नेव घटे एकस्मिन् प्रदेशे श्यामत्वम् एकस्मिन् रक्तत्वमिति । ५ एकस्मिन् प्रदेशे सुखमन्यस्मिन् दुःखमित्यादि । ६ - सर्पणाभ्या मु०, मू०, द०, ब०, ७- प्नोति तन्न श्र० । ८ उत्सेध ।
५
मुक्तानां तत्प्रसङ्ग इति चेत्; न; देशोनान्त्यविग्रहप्रमाणावस्थानात् । स्यादेतत्-यदि ३० शरीरप्रमाणानुविधानात् आत्मनो नैकप्रदेशा दिषु वृत्तिः, मुक्तानां तर्हि तदभावात्तत्प्रसङ्ग इति; तन्न; किं कारणम् ? देशोनान्त्यविग्रहप्रमाणावस्थानात् । येन शरीरेण मुक्तिमवाप्तवान् जीवस्तत्प्रमाणमेव देशोनमवलम्ब्यावतिष्ठते, न ततो वृद्धिर्नापि हानिः पुनः प्रदेशसंहारविसर्पकारणाभावात् । अत्राह