________________
५
तत्त्वार्थवार्तिके
[ ५१६
कस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । तथा द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ सर्वलोकादवगाहः प्रत्येतव्यः । नानाजीवानां तु सर्वलोक एव ।
२०
४५८
असंख्येयत्वाविशेषादवगाहाविशेष इति चेत्; न; असंख्येयस्याऽसंख्ये यविकल्पत्वात् ॥४॥ स्यान्मतम्-एकस्मिन्नप्यसंख्येयभागे प्रदेशा असंख्येयाः, द्वित्रिचतुरादिष्वपि असंख्येया एव ततो नास्ति जीवानामवगाह विशेष इति; तन्न; किं कारणम् ? असंख्येयस्यासंख्येय विकल्पत्वात् । अजघन्योत्कृष्टासंख्येयस्य हि असंख्येया विकल्पाः । अतोऽवगाहविकल्पो जीवानां सिद्धः ।
प्रमाणविरोधादवगाहा युक्तिरिति चेत्; न; जीवद्वैविध्यात् |५| स्यादेतत्-यदैकस्मिन् लोकस्यासंख्येयभागे एको जीवोऽवतिष्ठते द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः लोकाकाशे प्रमाणविरोधान्न स्थातुमर्हति इति; तन्न; किं कारणम् ? जीवद्वैविध्यात् । द्विविधा जीवाः बादराः १० सूक्ष्माश्चेति । तत्र बादराः स प्रतिघातशरीराः । सूक्ष्मा जीवाः सूक्ष्मपरिणामादेव सशरीरत्वेऽपि परस्परेण बादरैश्च न प्रतिहन्यन्त इत्यप्रतिघातशरीराः । ततो यत्रैकसूक्ष्मनिगोतजीवस्तिष्ठति तत्रानन्तानन्ताः साधारणशरीराः वसन्ति । बादराणां च मनुष्यादीनां शरीरेषु संस्वेदजसंमूर्च्छनजादीनां जीवानां प्रतिशरीरं बहूनामवस्थानमिति नास्त्यवगाहविरोधः । यदि बादरा एव जीवा अभविष्यन्नपि तर्हि अवगा हविरोधोऽजनिष्यत । कथं सशरीरस्यात्मनोऽप्रतिघातत्वमिति चेत् ? १५ दृष्टत्वात् । दृश्यते हि वालामकोटिमात्र छिद्ररहिते घनबहलायस भित्तितले वज्रमयकपाटे बहिः समन्तात् वज्रलेपलिप्ते अपवरके देवदत्तस्य मृतस्य मूर्तिमज्ज्ञानावरणादिकर्मतैजसकार्मणशरीरसंबन्धित्वेऽपि गृहमभित्त्वैव निर्गमनम्, तथा सूक्ष्मनिगोतानामप्यप्रतिघातित्वं वेदितव्यम् ।
अत्राह - लोकाकाशतुल्यप्रदेश: एको जीव इत्युक्तम्, तस्य कथं लोकस्यासंख्येयभागादिषु वृत्ति: ? ननु सर्वलोकव्याप्त्यैव भवितव्यमित्यत्रोच्यते
प्रदेश संहार विसर्पा प्रदीपवत् ॥ १६ ॥
कार्मणशरीरवशात् उपात्तसूक्ष्मवादरशरीरानुवर्तनं प्रदेशसंहारविसर्पः | १| अमूर्तस्वभावस्याप्यात्मनः अनादिसंबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः लोकाकाशतुल्यप्रदे शस्यापि कार्मणशरीरवशात् उपात्तसूक्ष्मशरीरमधितिष्ठतः शुष्कचर्मवत् संकोचनं प्रदेशसंहारः । बादरशरमधितिष्ठतो जले तैलवत् विसर्पणं विसर्पः ।
२५
ताभ्यामसंख्येयभागादिषु वृत्तिः प्रदीपवत् |२| यथा निरावरणव्योमप्रदेशावधृतप्रकाश" परिमाणः प्रदीपः शरावमानिकापवरकाद्यावरणवशात् तत्परिमाणप्रकाश उपलभ्यते, तथा ताभ्यां प्रदेशसंहारविसर्पाभ्याम् असंख्येयभागादिषु परिच्छिन्ना वृत्तिरात्मनोऽवगन्तव्या ।
तद्वदनित्यत्वप्रसङ्ग इति चेत्; न; इष्टत्वात् |३| स्यादेतत्-यदि संहारविसर्पणस्वभाव आत्मा प्रदीपादिवदेवास्यानित्यत्वं प्रसजतीति; तन्न; किं कारणम् ? इष्टत्वात् । इष्टमेवैतत् - आत्मनः ३० कार्मणशरीरापादितप्रदेश संहारविसर्पपर्यायादेशादनित्यत्वम् । अथवा इष्टत्वात् इष्टमेवैतत् संकोविकासस्वभावत्वेऽपि रूपिद्रव्यसामान्यादेशान्नित्यत्वं तथात्मनोऽपीति न वाधाकरो दृष्टान्तः ।
सावयवत्वात् प्रदेशविशरणप्रसङ्ग इति चेत्; न; अमूर्तस्वभावापरित्यागात् |४| स्यान्मतम्-प्रदीपादिवत् यदि प्रदेशसंहार विसर्पवानात्मा, अतः संसारिणः घटादिवत् छेदभेदा
१ मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघातः अनवगाहनमित्यर्थः । २- गाह्यविरो-मु० । ३ स्याम्मश्र० । ४ निश्चित । ५- परिणामः ता० श्र० ६ रूपद्रव्य - श्र०, मू० । ७ यथा वा शिवक छत्रकस्थासकोशकुशूलादिपर्यायेषु मृद्रव्यम् । ८-वत्वाद्विश-मु०, श्र० द० ।