________________
२५१ ]
पञ्चमोऽध्यायः 'योरेकत्रोभयत्र च वद्धयोरबद्धयोश्च, त्रयाणामेकत्र द्वयोरुिप च बद्धानामबद्धानां च । एवं संख्येयासंख्येयाऽनन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशे अवस्थानं प्रत्येतव्यम् ।
एकप्रदेशे नैकस्यावस्थानमयुक्तमिति चेत् ; न; उक्तत्वात् ।३। स्यान्मतम-भवतु तावद्धमादीनां एकप्रदेशेऽवस्थानम् अमूर्तिस्वभावत्वात् , मूर्तिमतां तु पुद्गलानाम् एकप्रदेशेऽवस्थानमयुक्तम् । भवति चेत् । प्रदेशस्य विभागवत्त्वं प्रसक्तम , अवगाहिनां चैकत्वमिति; तन्न; किं ५ कारणम् ? उक्तत्वात् । उक्तमेतत्-प्रचयविशेपा दिभिरै (रे) कत्रावस्थानमिति । किञ्च,
___एकापवरकेऽनेकप्रकाशावस्थानदर्शनादविरोधः ।४। यथैकस्मिन्नपवरके बहवः प्रकाशाः वर्तन्ते न च क्षेत्रविभागः, नापि एकक्षेत्रावगाहित्वात् तेपां प्रकाशानामेकत्वम् , तथैकस्मिन् प्रदेश अनन्ता अपि स्कन्धाः सूक्ष्मपरिणामात् असकरेण व्यवतिष्ठन्त इति नास्ति विरोधः । किञ्च,
व्यस्वभावस्याऽचोदनाहत्वात ।दव्याणां हि स्वभावाः प्रतिनियताः सन्ति, न ते चोद- १० नार्हाः-एवं भवतु मैवं भूदिति । यथा अग्न्यादीनां दहनादयः तृणादीनां च दाह्यत्वादयस्तथा मूर्तिमत्त्वेऽपि अवगाहनस्वभावत्वादेकम्मिन्नपि प्रदेशे वहूनां स्कन्धानामवरोधी न विरोधाय कल्प्यते । किञ्च,
___ आर्पोक्तत्वात् सूक्ष्मनिगोतावस्थानवत् ।६। सर्वज्ञज्ञानद्योतितार्थसारं गणधरानुस्मृतवचनरचनं शिप्य शिप्यप्रवन्धाऽव्युपरमादव्युच्छिन्नसन्तानम् आर्पमवितथमस्ति
१५ "भोगाढगाढणिचिदो पोग्गलकाएहि सव्वदो लोगो।
मुहुमेहिं बादरेहिं अणंताणंतेहि विविधेहिं ॥" [ पञ्चास्ति० गा० ६४] इत्येवमादि । अतस्तत्प्रामाण्यादपि उक्तोऽवगाहोऽवसेयः। यथैकनिगोतजीवशरीरेऽनन्ता निगोतजीवाः तिष्ठन्ति साधारणाऽऽहारप्राणापानजीवितमरणत्वात् साधारणा इत्यन्वर्थसंज्ञा इत्येतदागमप्रामाण्यादवसीयते तथैवेदमपीति । अथ जीवानामवगाहः कथमित्यत इदमुच्यते
असंख्येयभागादिषु जीवानाम् ॥ १५॥ असंख्येयभागादिप्विति चोक्तम । किमुक्तम् ?
अवयवेन विग्रहः समुदायो वृत्त्यर्थ इति ।१। असंख्येयानां भागानामेको भागोऽसंख्येयभागः, असंख्येयभाग आदिउँपां ते असंख्येयभागादयः तेषु असंख्येयभागादिषु । किं भाज्यः ? २५ अवगाह इत्यनुवर्तते । अत्राह-कस्याऽसंख्येयभागादिप्विति ?
लोकाकाशप्रकरणात्तदभिसंवन्धः ।। लोकाकाश इत्यनुवर्तते, अतस्तदभिसंबन्धोऽत्र वेदितव्यः । ननु च असावधिकरणनिर्देशः, संवन्धनिर्देशेन चेहार्थः।
___ अर्थवशाद्विभक्तिपरिणामः । यथा 'उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्वैनम देवदत्तमा इति गम्यते , एवमसंख्येयभागादिपु इत्यनेनाभिसंबन्धात् लोकाकाश इत्येष निर्देशः । लोकाका- ३० शस्येत्यर्थवशात् विभक्तिः परिणम्यते । तद्यथा-लोकरय प्रदेशाः असंख्येया भागाः कृताः, तत्रै
द्वयोः परमावोबद्धयोरबद्वयोश्च एकस्मिन् द्वयोश्च आकाशप्रदेशयोरवगाह इत्यर्थः। २ संहतविसर्पितादिवार्तिकव्याख्यानावसरे। ३-दिति चैकत्रा-मु०, द०, ब०, ता०, श्र०। ४ लल्लुब्तृङ्यमानाडित्यत्र अमाहिति निषेधान्नाट् । ५ विकल्प्यते-श्र०, मू० । ६ प्रतिशि-मु०, ९०, ब०। ७-धानुपमु०, १०, ब० । ८-शाद्विपरि-श्र० ।-शाद्विपरि-मू० ।