________________
तत्त्वार्थवार्तिके
[५१३-१४ मस्य हीयते, 'न चैतदिष्टम् , तस्माल्लोकत्वप्रसङ्ग इति; तन्न; किं कारणम् ? उक्तत्वात्-रूढिविशेषबललाभात् विशेषे वृत्तिरिति।
उभयविशेषणभावाद्वा ।१६। अथवा, उभयविशेषणमिहोपादीयते । यत्रस्थेन सर्वज्ञन लोक्यते यः स लोक इति । न चाऽलोकस्थेनाऽलोको लोक्यते ततो नालोकस्य लोकत्वप्रसङगः।
__ तस्याऽऽकाशं लोकाकाशं जलाशयवत् ।१७। यथा जलस्य आशय(यः)स्थानं जलाशय इत्युच्यते, तथा लोकस्याकाशं लोकाकाशमिति स्थानापेक्षः संबन्धोऽवसेयः ।
__ धर्माधर्मपुद्गलकालजीवा यत्र लोक्यन्ते स लोक इति वा ।१८। अथवा, धर्माधर्मपुद्गलकालजीवा यत्र लोक्यन्ते स लोक इत्यधिकरणसाधनो घञ् । किं पुनरधिकरणम् ? आकाशम् । लोक
एवाकाशं लोकाकाशमिति समानाधिकरणलक्षणा वृत्तिः, तस्मिन्नवस्थानं धर्मादीनां द्रव्याणाम् । अत १० आकाशं परप्रत्ययवशात् द्वधा विभज्यते-लोकाकाशमलोकाकाशं चेति । लोकाकाशं धर्माधर्मतुल्याऽसंख्येयप्रदेशम् । बहिः समन्तादनन्तमलोकाकाशम् । तत्रावध्रियमाणानामवस्थानभेदसंभवात् विशेषप्रतिपत्त्यर्थमाह
धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ निरवशेषव्याप्तिप्रदर्शनार्थ कृत्स्नवचनम् ।१॥ यथा अगारैकदेशे घटस्यावस्थानं न तथा १५ धर्माधर्मयोः लोकाकाशेऽवगाहः । किं तर्हि ? तिलेपु तैलवदिति निरवशेषव्याप्तिप्रदर्शनार्थ कृत्स्न
वचनं क्रियते । धर्माधौं हि लोकाकाशमशेषं नैरन्तर्येण व्याप्य स्थितौ। कथमेषां परस्परप्रदेशाविरोधः ?
आमूर्तित्वात् त्रयाणां परस्परप्रदेशाविरोधः ।। मूर्तिमन्तोऽपि केचित् जलभस्मसिकतादयः एकत्र अविरोधेनाऽवतिष्ठन्ते किमुताऽमूर्तीनि धर्माधर्माकाशानि । तस्मादमूर्तित्वादेषां परस्पर२० प्रदेशाविरोधो वेदितव्यः ।
अनादिसंबन्धपरिणामाच्च ।। भेदसंघातगतिपरिणामपूर्वकादिमत्संबन्धानां स्थविष्ठानां स्कन्धानां 'केपाश्चित् 'प्रदेशविरोधः स्यात् न तु धर्मादीनां तद्वत् आदिमान संबन्धः, पारिणामिकाऽनादिसंबन्धात्तेपाम् , ततश्च अन्योऽन्यप्रदेशाविरोधः सिद्धः।।
ततो विपरीतानां मूर्तिमताम प्रदेशसंख्येयाऽनन्तप्रदेशानां पुद्गलानामवगाहनविशेषप्रति२५ पत्त्यर्थमाह
एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥१४॥ एकप्रदशादिष्पित्यवयन विग्रहः समुदायो वृत्त्यर्थः ।१। एकश्चासौ प्रदेशश्चैकप्रदेशः, एकप्रदश आदिउँपां त इमे एकप्रदेशादयः । के पुनस्ते ? प्रदेशाः । कुत एतत् ? तुल्यजातीयत्वात् उपलक्ष्योपलक्षणयोः सामशर्मादिवत् । प्रदेशग्रहणानुवृत्तेर्वा, ते प्वेकप्रदेशादिपु इति विग्रहे समुदायो वृत्त्यर्थः सर्वादिवत् । तेनैक प्रदेश उपलक्षणभूतोऽप्यन्तर्भवति ।
भाज्या विकल्प्यः ।। भजनीयो भाज्यः पृथक्कर्तव्यः विकल्प्यो विभाज्य इत्यनर्थान्तरम् । कः पुनरसौ ? अवगाह इत्यनुवर्तते । तद्यथा-एकस्य परमाणोरेकत्रैव आकाशप्रदेशेऽवगाहः,
१ न चतदृष्टं मु०, व० । २ स्थूलानाम् । ३ समुद्रीच्यादीनाम् । ४ शिलादिषु। ५ परमाणु । ६ "भययवेन विग्रहः समुदायः समासार्थः"-पात महा० २।२।२४ । ७ सोमशर्मवत् श्र० सोम इति (इव) शर्म श्रेयो यस्य स तथोक्तः । ८ मध्ये । -कदेश-श्र० । १० विभाष्य इ-ता०, मू०, श्र० ।