________________
५।१२]
पञ्चमोऽध्यायः
व्यवहारनयवक्तव्यबललाभादेशात् सिद्ध्यति । व्यावहारिकमेतत् - आकाशे वातादीनामवगाह इति । आधारान्तरकल्पनायामनवस्थाप्रसङग इति । परमार्थतस्तु आकाशवत् वातादीन्यपि स्वात्माधिष्ठानानि । तत्कथमिति चेत् ? उच्यते
४५५
'क्रियाविष्टकर्तृकर्माधारवत् |७| क्रिया द्विविधा - कर्तृसमवायिनी कर्मसमवायिनी चेति । तत्र कर्तृसमवायिनी आस्ते गच्छतीति । कर्मसमवायिनी ओदनं पचति, कुशूलं भिनत्तीति । तदा विष्टस्य कर्तुः कर्मणश्चाधार आसनादिः स्थाल्यादिश्च । तत्र व्यवहारनयवशात् क्रियायाः द्रव्यमधिकरणम्, "तदाविष्टस्य द्रव्यस्य द्रव्यान्तरम् । परमार्थतस्तु एवंभूतनयवशात् क्रिया क्रियात्मन्येव, द्रव्यमपि स्वात्मन्येव । तथा लोकाकाशेऽवगाहो धर्मादीनामिति व्यवहारनयादेशादुक्तम्, परमार्थतस्तु सर्वद्रव्याणि स्वात्माधिकरणानि ।
५
आकाशधर्मादीनामाधाराधेयत्वात् कुण्डबदरवत् प्रसङ्ग इति चेत्; न; अयुतसिद्धेऽपि १० तद्दर्शनात् शरीरे हस्तवत् || स्यादेतत्-यथा कुण्डे बदराणि इत्याधारः कुण्डम्, आधेयानि बदराणीति पूर्वापरकालत्वं युतसिद्धिश्च तेषाम्, तथा आधारत्वात् पूर्वमाकाशं पश्चाद्धर्मादीन्याधेयत्वादिति युतसिद्धि; अतोऽनादित्वव्याघात इति; तन्न; किं कारणम् ? अयुतसिद्धेऽपि तद्दर्शनात् । कथम् ? शरीरे हस्तवत् । यथा हस्तशरीरयोर्युगपदुत्पत्तौ पूर्वापरत्वेऽसति अयुतसिद्धस्य हस्तस्य शरीरमाधारः, तथा आकाशधर्मादीनामनादिपारिणामिक यौगपद्यसिद्धौ असति पूर्वापरीभावे १५ भवत्याधाराधेयत्वम् । किश्श्र्च,
अनेकान्तात् ।। नैतदैकान्तिकम् - युतसिद्धस्यैवाधाराधेयत्वं नायुतसिद्धस्येति । स्तम्भसारादिषु कुण्डबदरादिषु च दर्शनात् । तस्मादनेकान्तान्नायमुपालम्भः ।
अथ लोकाकाश इत्युच्यते, को लोको नाम ?
यत्र पुण्यपापफललोकनं स लोकः | १०| पुण्यपापयोः कर्मणोः फलं सुखतुः खलक्षणं यत्रा - २० ( यत्र ) लोक्यते स लोकः । कः पुनरसौ ? आत्मा ।
लोकतीति वा लोकः | ११ | लोकति पश्यत्युपलभते अर्थानिति लोकः ।
इतरद्द्रव्यालोकप्रसङ्ग इति चेत्; न; रूढौ क्रियाया व्युत्पत्तिमात्रनिमित्तत्वात् |१२| त्यादेतत्-द्विधाप्युक्तेन क्रमेण जीवस्यैव लोकत्वं प्राप्तम् इतरेषां द्रव्याणामलोकत्वं ततश्च "षड्द्रभ्यसमूहो लोकः " [ ] इत्यार्षस्य विरोध इति; तन्नः किं कारणम् ? रूढौ क्रियाया व्युत्प- २५ त्तिमात्रनिमित्तत्वात् । यथा गच्छतीति गौरिति व्युत्पत्तौ स्थितादीनां न गोत्वनिवृत्तिः, तथा लोकनाल्लोक इति व्युत्पत्तावपि धर्मादीनामपि न लोकत्वं हीयते ।
लोक्यत इति वा लोकः | १३ | सर्वज्ञेनाऽनन्ताऽप्रतिहत केवलदर्शनेन लोक्यते यः स लोकः । तेन धर्मादीनामपि लोकत्वं सिद्धम् ।
आत्मनोऽलोकत्वप्रसङ्ग इति चेत्; न; स्वात्मलोकनात् | १४| यो लोकते आत्मा तस्याऽ- ३० लोकत्वं प्राप्नोति लोक्यत्वाभावादिति; तन्न; किं कारणम् ? स्वात्मलोकनात् । योऽसौ सर्वज्ञो बाह्यं लोकमानः स आत्मानमपि लोकते इति लोकत्वमस्य सिद्धम्, इतरथा हि तस्य सर्वदर्शित्वाभावः आत्मानवलोकनात् । आत्मानमनवलोकमानस्य बाह्यलोकनासंभवश्च घटादिवत् । यथा घटादिरात्मानमपश्यन्नपरान् न पश्यति ।
३५
अलोकस्यापि लोकत्वप्रसङ्ग इति चेत्; न; उक्तत्वात् । १५ स्यान्मतम् - यदि लोक्यत इति 'लोकः, अलोकस्यापि लोकत्वं प्राप्नोति सर्वदर्शिना लोक्यत्वात् । अथालोकं न लोकते; सर्वदर्शित्व१ क्रियाधिष्ठक- ता०, ४०, द० । २ तदाधिष्टस्य ता० ३ श्र० । ३ स्तम्भे सारः इति । ४ आत्मा । ५ क्रियान्यु- ता०, श्र०, मू० द० ।