________________
४७६ तत्त्वार्थचार्तिके
[२२१-२२ आह-अजीवद्रव्यचतुष्टयस्य यथा परानुग्रहः सान्ततिकः किमेवमात्मनामपि, उतान्यो विधिरस्तीति ? अत्रोच्यते
परस्परोपग्रहो जीवानाम् ॥ २१ ॥ कर्मव्यतिहारविषयः परस्परशब्दः ।१। कर्मव्यतिहारः क्रियाव्यतिहार इत्यर्थः । तद्विष५ योऽयं परस्परशब्दः । परस्परस्योपग्रहः परस्परोपग्रहः । कः पुनरसौ ?
स्वामिभृत्यादिभावन' वृत्तिः परस्परोपग्रहः ।। स्वामी भृत्य आचार्यः शिष्य इत्येवमादिभावेन वृत्तिः परस्परोपग्रह इत्युच्यते। स्वामी तावत् वित्तत्यागादिना भृत्यादीनामुपग्रहे वर्तते, भृत्याश्च हितप्रतिपादनेन अहितप्रतिषेधेन च। आचार्य उभयलोकफलप्रदोपदेशदर्शनेन तदुपदेशविहितक्रियानुष्ठापनेन च शिष्याणामनुग्रहे वर्तते । शिष्या अपि तदानुकूल्यवृत्त्या।
प्रकृतत्वादुपग्रहावचनमिति चेत् ; न; अनन्तरचतुष्टयप्रतिनिर्देशार्थत्वात् ।३। स्यादेतत्प्रकृतमुपग्रहवचनमस्ति तदभिसंबन्धात् पुनरुपग्रहवचनमनर्थकमिति; तन्नः किं कारणम् ? अन
रचतुष्टयप्रतिनिर्देशार्थत्वात् । नाऽपूर्वः कश्चित् परस्परोपग्रहो जीवानामस्ति, अनन्तरसूत्रे निर्दिष्टः सुखादिचतुष्टयोपग्रह एवेति प्रदर्शनार्थं पुनरुपग्रहवचनम् ।
स्त्रोपुंसरतिवदनियमप्रदर्शनार्थ च ।। यथा स्त्रीपुंसौ यौगपद्येन रतिक्रियायां परस्परस्योप१५ कुरुतः न तथा सुखाद्युपग्रहे नियम इति प्रदर्शनार्थ च पुनरुपग्रहवचनं क्रियते । 'जीवो हि
कश्चित् स्वस्य सुखं कुर्वन् परस्यैकस्य सुखं करोति कश्चिद् द्वयोः कश्चिद्वहूनाम् । कश्चिद् दुःखमात्मनः कुर्वन् परस्यैकस्य द्वयोः बहूनां वा[दुःखं]करोति । कदाचिद् द्वौ बहवो वाऽऽत्मानः सुखं दुःखं वा कुर्वन्तः परस्यैकस्य द्वयोर्बहूनां वा सुखं दुःखं वा]उत्पादयन्ति । एवमितरत्रापि योज्यम् ।
आह-यदि अवश्यं सतोपकारिणा भवितव्यम् , संश्च कालोऽभिमतः स किमुपकारः इति ? २० अत्रोच्यते- तस्य खलु वक्ष्यमाणस्वतत्त्वस्याऽमूर्तेः
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥ २२ ॥
अथवा, यथा धर्मादीनामस्तित्वस्याऽऽविर्भावक उपकार उक्तो गत्यादिः, तथा कालस्यापि प्रतिनियत उपकारोऽस्तित्वसंसूचकोऽस्ति, उत नास्ति ? अस्त्युपकारः । यद्येवं स उच्यतामिति ? अत आह- वर्तनादीनि ।
करणाधिकरणयोर्वर्त्तनेति चेत्; युटि सति ङीप्रसङ्गः ।१। स्यादेतत्-वर्ततेऽनया अस्यां वेति विगृह्य वर्तनाशब्दो निष्पाद्यत इति । एवं सति परत्वाद्युटि सति टित्त्वात् डी प्राप्नोति"कथं तर्हि सिद्धिः?
णिजन्ताधुचि वर्तना ।। स्त्रीलिङ्गे कर्मणि भावे वा णिजन्ताधुचि सति वर्तनेति भवति । वय॑ते वर्तनमात्रं वा वर्तनेति ।
------
श्र. प्रतौ वार्तिकचिह्न नास्ति, मुद्रिते च । २ तदुपदेशाहित-श्र०। ३ तदनुकूल-मु०, ब०। अनर्थकानि वचनानि किञ्चिदिष्टं सूचयन्त्याचार्यस्य । ५ उक्तार्थमेव विवृणोति । ६ सुखमु-ता०, १०, मू०। ७ अनेन पातनिकाभिप्रायेण कालस्य साध्यत्वमुक्तं भवति । ८-दीनीति-मु०,.द०, ब०, श्र०। ६ तटस्थ आचार्यमतं परिपृच्छति आचार्यः। १० स्यादेवेति चेत् । ११ न प्राप्नोतीत्युक्त तटस्थ आह । १२ प्रयोक्त्रा अनेन ।