________________
पञ्चमोऽध्यायः
५१०-११ ]
विकल्पाभावात् संसाराभावः तदभावान्मोक्षश्च न स्यात् । तथा अतीतानागतकालयोरन्तवत्त्वे प्राक् पश्चाच्च कालव्यवहाराभावः स्यात् । न चासौ युक्तः, असतः प्रादुर्भावाभावात् सतश्चात्यन्तविनाशानुपपत्तेरिति । तथा आकाशस्यान्तवत्त्वाभ्युपगमे ततो बहिर्घनत्वप्रसङ्गः । नास्ति चेद्धनत्वम् ; आकाशेनापि भवितव्यमित्यंन्तवत्त्वाभावः ।
उक्तममूर्तानां प्रदेशपरिमाणम्, इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं निर्ज्ञातव्यमित्यत आह- ५ संख्येयाऽसंख्येयाच पुद्गलानाम् ॥ १० ॥
चशब्दोऽनन्तसमुच्चयार्थः |१| अनन्ताः प्रकृतास्तेषां समुच्चयार्थश्वशब्दः क्रियते - संख्येया असंख्येया अनन्ताश्चेति । के पुनस्ते ? 'प्रदेशा:' इत्यनुवर्तते । कस्यचित्पुद्गलद्रव्यस्य द्वणुकादेः संख्येयाः प्रदेशाः कस्यचिदसंख्येयाः अनन्ताश्च ।
४५३
अनन्तानन्तोपसंख्यानमिति चेत्; न; अनन्तसामान्यात् |२| स्यादेतत्-अनन्तानन्तप्रदे- १० शाश्च पुद्गलाः सन्ति तदुपसंग्रहार्थं तदुपसंख्यानं कर्तव्यमिति; तन्न; किं कारणम् ? अनन्तसामान्यात् । अनन्तप्रमाणं त्रिविधमुक्तम्- परीतानान्तं युक्तानन्तम् अनन्तानन्तं चेति । तत्सर्वमनन्तसामान्येऽन्तर्भावात् अनन्तग्रहणेन गृह्यत इति नोपसंख्यातव्यम् ।
अधिकरणविरोधादानन्त्याभाव इति चेत्; न; सूक्ष्मपरिणामावगाहन सामर्थ्यात् |३| स्यान्मतम्-असंख्यातप्रदेशो लोकः, अनन्तप्रदेशस्य अनन्तानन्तप्रदेशस्य च स्कन्धस्याधिकरणमिति १५ विरोधः, ततो नानन्त्यमिति; तन्न; किं कारणम् ? सूक्ष्मपरिणामावगाहनसामर्थ्यात् । परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशे अनन्तानन्ता अवतिष्ठन्ते । अवगाहनसामर्थ्य - मप्येषामव्याहतमस्ति येन एकैकस्मिन्नपि प्रदेशे अनन्ताऽनन्तानामवस्थानं न विरुध्यते । किन
अनेकान्तात् |४| नायमेकान्तः - 'अल्पेऽधिकरणे महद्रव्यं नावतिष्ठते इति । कुतः ?
प्रचयविशेषात्' |५| प्रचयविशेषः संघातविशेषः इत्यर्थः । पुद्गलानां हि प्रचयविशेषात् २० अल्पे क्षेत्रे बहूनामवस्थानं दृष्टम् । कथम् ?
संहृतविसर्पितचम्पकादि गन्धादिवत् । ६ । यथाऽल्पे कुड्मलावस्थे चम्पके सूक्ष्मप्रचयपरिणामात् संहृताश्चम्पकपुष्पगन्धावयवाः तद्व्यापिनो बहवोऽवतिष्ठमाना दृष्टाः । तस्मिन्नेव विसर्पिते स्थूलप्रचयपरिणामाद्विनिर्गताश्चम्पकगन्धावयवाः सर्वदिव्यापिनो दृष्टाः । यथा वालपे करीषपटले दारुपिण्डे च प्रचयविशेषावगाढाः सन्तः पुद्गला अग्निना दह्यमानाः प्रचयविशेषेण २५ धूमभावेन दिङ्मण्डलव्यापिनो दृष्टाः, तथाऽल्पेऽपि लोकाकाशे अनन्तानामनन्तानन्तानां च जीवपुगलानामवस्थानमिति नास्ति विरोधः ।
पुद्गलानामित्यविशेषवचनात् परमाणोरपि प्रदेशवत्त्वप्रसङ्गे तत्प्रतिषेधार्थमाहनाणोः ॥। ११ ॥
अणोः प्रदेशाः न, सन्तीति वाक्यशेषः । कुतो न सन्तीति चेत् ? उच्यते
प्रदेशमात्रत्वात् । १। यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावात् अप्रदेशवत्त्वम्, एवमणोरपि प्रदेशमात्रत्वात् प्रदेशभेदाभावः । किञ्च,
१- स्यनन्तवत्वा-श्र०, मु०, द० । २ पुद्गलाः ते - मु०, द० । ३ - र्थमुप - ता०, मु०, मू०, ब०, द० । ४ अल्पाधि - मु०, ब० । ५- षात् संघातविशेषः संघातविशेष इत्यर्थ- मु०, ५०, ब० । ६ आदिशब्देन काष्टादिकं गृह्यते । ७- शबन्धम- मु०, अ०, ता०, ब०, द० - शबन्धमेव श्र०, ता० ।
३०