________________
१०
४५२ तत्त्वार्थवार्तिके
[शक्ष एकानेकप्रदेशत्वं प्रत्यनेकान्तात् पुरुषवत् ।२१॥ यथा पुंसः सामान्यपौरुषेयशरीरद्रव्यार्थादेशात् स्यांदेकत्वम् , तस्यैव शिरःपृष्ठोरूदरपाणिपादाङ्गलिपर्वाद्यङ्गोपाङ्गपर्यायार्थादेशात् स्यादनेकत्वम् । अथवा, पुरुषद्रव्यार्थादेशात्स्यादेकत्वम् , स्वजात्यपरित्यागेन 'पावकलावकादिपर्यायार्थादेशात् स्यादनेकत्वम् , पितृपुत्रभ्रातृभागिनेयभ्रातृव्यमातुलादिपर्यायार्थादेशात् वा स्यादनेकत्वम् , पञ्चेद्रियारोग्यमेधाविपटुकुशलसुशीलत्वादिपर्यायार्थादेशाद्वा स्यादनेकत्वम् , तथा धर्माधर्माकाशजीवानाम् आत्मीयद्रव्यार्थादेशात् स्यादेकप्रदेशत्वं प्रतिनियतप्रदेशपर्यायार्थादेशात् स्यान्नानात्वम् इत्यनेकान्तः ।
संसारिणश्च व्यवहारतः साधयवत्वात् ।२२। व्यवहारा व्यवहारतः व्यवहारनयापणादित्यर्थः । कः पुनर्व्यवहारः ? अनादिकर्मबन्धनबद्धत्वम् , अतस्तदावेशात् तदनुविधायित्वे सति सावयवत्वोपपत्तेः संसारिणो जीवस्य प्रदेशवत्त्वम् । शुद्धनयादेशात्तपयोगस्वभावस्याऽऽत्मनोऽप्रदेशत्वम् । अथाकाशस्य कति प्रदेशा इति ? अत आह
आकाशस्यानन्ताः ॥९॥ अनन्ता इत्यन्यपदार्थनिर्देशः ।। अन्तोऽवसानमित्यर्थः, अविद्यमानोऽन्तो येषां त १५ इमेऽनन्ताः । अन्यपदार्थनिर्देशोऽयम् । के पुनस्ते ? प्रदेशाः। कुतः ? प्रत्यासत्तेस्तदभिसंबन्धोपपत्तेः।
असंख्येयानन्तयोरविशेष इति चेत् ; न; उक्तत्वात् ।। स्यान्मतम्-असंख्येयानन्तयोर्नास्ति विशेषः । कुतः? इयत्तापरिच्छेदाभावतुल्यत्वादिति; तन्न; किं कारणम ? उक्तत्वात् । उक्तोऽनयो
भेंदः "नृस्थिती परावरे" [त. सू० ३।३८] इत्यत्र । २० अनन्तत्वादपरिज्ञानमिति चेतन: अतिशयज्ञानदृष्टत्वात् ।। स्यादेतत्-सर्वज्ञेनानन्तं
परिच्छिन्नं वा, अपरिच्छिन्नं वा? यदि परिच्छिन्नम् ; उपलब्धावसानत्वात् अनन्तत्वमस्य हीयते । अथापरिच्छिन्नम् ; तत्स्वरूपानवबोधात् असर्वज्ञत्वं स्यादिति । तन्न; किं कारणम् ? अतिशयज्ञानदृष्टत्वात् । यत्तत्केवलिनां ज्ञानं क्षायिकम् अतिशयवत् अनन्तानन्तपरिमाणं तेन तदनन्तमवबुध्यते
साक्षात् । तदुपदेशादितरैरनुमानेनेति न सर्वज्ञत्वहानिः । न च तेन परिच्छिन्नमित्यतः सान्तम् २५ अनन्तेनाऽनन्तमिति ज्ञातत्वात् । किश्च,
। सर्वेषामविप्रतिपत्तेः ।४। नात्र सर्वे प्रवादिनो विप्रतिपद्यन्ते । 'केचित्तावदाहुः-“अनन्त लोकधातवः" इति । अपरे मन्यन्ते दिक्कालात्माकाशानां सर्वगतत्वात् अनन्तत्वमिति । इतरे वते-प्रकृतिपुरुषयोरनन्तत्वं सर्वगतत्वादिति । न चैतेषामनन्तत्वादपरिज्ञानम , नापि
त्वमात्राव तपामन्तवत्त्वम् । तस्मात् नैतद्युक्तम् अनन्तत्वादपरिज्ञानमिति ।।
सर्वज्ञाभाषप्रसङ्गाच्च ।५॥ यस्य अर्थानामानन्त्यमपरिज्ञानकारणं तस्य सर्वज्ञाभावः प्रसजति । अनन्तो हि ज्ञेयः, तस्यानन्त्यादेव न च कश्चित् परिच्छेत्ताऽस्तीति । अथान्तवत्त्वं स्यात् ; संसारो मोक्षश्च नोपपद्यते । कथमिति चेत् ; उच्यते-जीवाश्चेत्सान्ताः; सर्वेषां हि मोक्षप्राप्तौ संसारोच्छेदः प्राप्नोति । तद्भयात् मुक्तानां पुनरावृत्त्यभ्युपगमे स मोक्ष एव न स्यात् "अनात्यन्तिकत्वात् । एकैकस्मिन्नपि जीवे कर्मादिभावेन व्यवस्थिताः पुद्गला अनन्ताः, तेषामन्तवत्त्वे सति कर्मनोकर्मविषय
१ पङ पवने । लङ छेदने । २ व्यवहाराङ्गीकारात् । ३ अनन्तप्रमाणेन । ४ सामयिकान् प्रत्युत्तरं दत्वेदानी वादिनः प्रत्याह । ५ बौद्धाः। ६ वैशेषिका:-स०। ७ सांख्याः-स०। ८ परिज्ञानमा-ता। ६ ज्ञाता । १० अथान्तत्वम् श्र०।११ आत्यन्तिकत्याभावात् ।