________________
१०
श ]
पञ्चमोऽध्यायः हि प्रदेशा ग्रीवादय आञ्जसाः स्वत एव प्रदिश्यन्ते न द्रव्यान्तरतः, न त्वेवं धर्मादीनां प्रदेशाः स्वतः प्रदिश्यन्ते परमाण्ववगाहपरिच्छेद्यत्वात् , अंतो न मुख्या इति; तन्न; किं कारणम् ? अत्यन्तपरोक्षत्वात् । युज्यते घटादीनां प्रत्यक्षत्वात् स्वत एव प्रदेशावधारणम् । अत्यन्तपरोक्षास्तु धर्मादयः, तत एषां मुख्या अपि प्रदेशा न शक्याः स्वात्मन्येवावधारयितुं न गौणप्रदेशत्वात् ।।
अर्हदागमप्रामाण्यात् ।१५। युगपत् सकलपदार्थत्वावभासनज्ञानातिशयेनार्हता आविष्कृत ५ आगमः गणधरैरनुस्मृतवचनरचनः श्रुताख्यः, तच्छिष्यप्रशिष्यप्रज्ञावीचिपरम्परासमुपनीतोऽस्ति । तस्य प्रामाण्याद्धर्मादीनां क्षेत्रप्रदेशाः मुख्याः इत्येतदभ्युपगन्तव्यम् । तद्यथा, एकैकस्मिन्नात्मप्रदेशे अनन्तानन्ता ज्ञानावरणादिकर्मप्रदेशा अवतिष्ठन्ते, एकैकस्मिन् कर्मप्रदेशे अनन्तानन्ता औदारिकादिशरीरप्रदेशाः, एकैकस्मिन् शरीरप्रदेशे अनन्तानन्ता वैनसोपचयप्रदेशाः क्लिन्नगुडरेण्वाधुपचयवदवतिष्ठन्ते, तथा धर्मादिप्रदेशेष्वपि । किश्च,
स्थितास्थितवचनात् ।१६। भावान्तर(भवान्तर)परिणामे सुखदुःखानुभवने क्रोधादिपरिणामे वा जीवप्रदेशानाम् उद्धवनिधवपरिस्पन्दस्याप्रवृत्तिः स्थितिः, प्रवृत्तिरस्थितिरित्युच्यते । तत्र "सर्वकालं जीवाष्टमध्य प्रदेशा निरपवादाः सर्वजीवानां स्थिता एव, केवलिनामपि अयोगिनां सिद्धानां च सर्वे प्रदेशाः स्थिता एव, व्यायामदुःखपरितापोद्रेकपरिणतानां जीवानां यथोक्ताष्टमध्यप्रदेशवर्जितानाम् इतरे (ता इतरे) प्रदेशाः अस्थिता एव, शेषाणां प्राणिनां स्थिताश्चाऽस्थिताश्च"[ ] इति वचनान्मुख्या एव प्रदेशाः। किञ्च,
__ इन्द्रियपरिणामवचनात् ।१७। इह वीर्यान्तरायमतिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभोपष्टम्भात् उत्सेधागुलस्यासंख्येयभागप्रमितानां विशुद्धानाम् आत्मप्रदेशानां चक्षुरादीन्द्रियपर्यायपरिणाम उक्तः प्रतिविशिष्टप्रदेशत्वात् परस्परस्थानासंक्रमेण साक्षाच्च दृश्यते तस्मान्मुख्या एवाऽऽत्मप्रदेशाः । किञ्च,
___ द्रव्याणां प्रतिनियतप्रदेशावस्थानात् ।१८। इहान्येषु आकाशप्रदेशेषु पाटलिपुत्रं स्थितम् , अन्येषु च मथुरा, अतो नाना आकाशप्रदेशाः । यस्यकान्तेन अप्रदेशमाकाशं तस्य यद्देशं पाटलिपुत्रं तहेशभाविन्येव मथुरापि स्यात् । किञ्च,
उभयदोषप्रसङ्गात् ।१६। संसरतोऽप्यस्य पिण्डस्य कर्णशष्कुल्यन्तरे अदृष्टविशेषसंस्कृतमाकाशं श्रोत्रमिति यदाख्यायते; तत्कृत्स्नं वा आकाशं स्यात् , न वा? यदि कृत्स्नम्, ननूर्वाधस्तिर्यग- १ वस्थितस्पर्शवद्व्याभिघातोत्पन्नाः सर्वे शब्दाः सदा सर्वैः जीवैरुपलभ्या इत्यासक्तम् । अथैष दोषो मा प्रापत् इति प्रतिनियताकाशप्रदेशाः श्रोत्रमितीष्यते; नन्वाकाशप्रदेशानां बहुत्वात् यत्प्रतिझातम्-'न सन्त्याकाशप्रदेशा मुख्याः ' इति तद्धीनम् । अथवा, परमाणुराकाशेन कृत्स्रन वा संयुज्येत, न वा ? यदि कृत्स्नेन; नन्वेवमणुमात्रमाकाशम् आकाशमात्रो वाऽणुः प्राप्नोति । अथ एकप्रदेशेन संयुज्यते; ननु निरपवादमेतत् सिद्धं मुख्या एवाऽऽकाशप्रदेशा इति । किञ्च,
कर्माभावप्रसङगात् ।२०। इहोत्पन्नं कर्म स्वाश्रयम' "आश्रयान्तराद्वियोज्य आश्रयान्लरेण संयोजयति इत्येषः कर्मणः स्वभावः, सत्येवं प्रदेशवत्त्वमाकाशस्य सिद्धम् , इतरथा हि कर्माभावप्रसङ्गः प्रदेशान्तरसङ्क्रमाभावात् । किश्च,
ततो ० । २ उद्भवनिधनप-मु०, द०, ता०, ब० । ३ मध्यमप्र-मु० । ४ निर्दोषाः स्पन्दरहितत्वात् । ५ मदुरा आ०, ता०, श्र०। ६ गच्छतोऽपि । ७ शरीरस्य । ८ वैशेपिकैः । “श्रोत्रं पुनः श्रवणविवरसम्झको नभोदेशः शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः ।"-प्रश० भा० पृ. २६ । . व्यापारः। १० क्रियाया आश्रयभूतं श्यनम् । ११ स्थाणोः । १२ वृक्षाद्यन्यतमेन ।