________________
५
४५०
तत्त्वार्थवातिके
अधितिस्तावदवगाह्य वर्तते । यदा तु लोकपूरणं भवति तदा मन्दरस्याधचित्रवज्रपटलयोर्मध्ये जीवस्याष्टौ मध्यप्रदेशाः व्यवतिष्ठत्ते, इतरे प्रदेशाः ऊर्ध्वमधस्तिर्यक् च कृत्स्नं लोकाकाशं व्यश्नुवते ।
[
एकद्रव्यस्य प्रदेशकल्पनोपचारं इति चेत्; न; मुख्य क्षेत्रविभागात् ॥५॥ स्यान्मतम्, एकद्रव्यस्य प्रदेशकल्पना उपचारतः स्यात् । उपचारश्च मिथ्योक्तिर्न तत्त्वपरीक्षायामधिक्रियते प्रयोजनाभावात् । न हि मृगतृष्णिकया मृपार्थात्मिकया जलकृत्यं क्रियते इति; तन्न; किं कारणम् ? मुख्य क्षेत्रविभागात ? मुख्य एव क्षेत्रविभागः, अन्यो हि घटावगाह्य: आकाशप्रदेशः इतरावगाश्वान्य इति । यदि अन्यत्वं न स्यात् ; व्याप्तित्वं व्याहन्यते ।
निरवयवत्वानुपपत्तिरिति चेत्; नः द्रव्यविभागाभावात् |६| स्यादेतत्, यदि मुख्य एव विभागोऽभ्युपगम्यते निरवयवत्वं तहिं नोपपद्यते इति; तन्न; किं कारणम् ? द्रव्यविभागाभावात् । १० यथा घटो द्रव्यतो विभागवान् सावयवः, न च तथैषां द्रव्यविभागोऽस्तीति निरवयवत्वं प्रयुज्यते । यत्वादात्मनामेकग्रहणम् || भेवा आत्मानो बहव इत्यर्थः तेन एकग्रहणं क्रियते, नानाजीवापेचया हि अनन्तप्रदेशत्वं स्यात् ।
कथञ्चित्प्रदेशभेदोपपत्तेः संबन्धनिर्देशः | | एकश्चासौ जीवश्व एकजीवः, धर्मश्चाऽधर्मकजीवच धर्माधर्मे कजीवाः तेपां धर्माधमैकजीवानाम् । प्रदेशा इति संबन्धनिर्देशः क्रियते । १५ कुतः ? कथञ्चित्प्रदेश भेदोपपत्तेः ।
असंख्येयप्रदेशा इत्यस्तु लघुत्वात् इति चेत्; न; उत्तरार्थत्वात् भेदकरणस्य || श्यान्मतम् -'असंख्येयप्रदेशाः धर्माधर्मैकजीवाः' इत्यस्तु सूत्रम् कुतः ? लघुत्वादिति; तन्नः किं कारणम् ? उत्तरार्थत्वात् भेदकरणस्य । प्रदेशा इति भेदकरणमुत्तरार्थम् । द्रव्यप्रधाने हि निर्देशे सति प्रदेशानामुपसर्जनत्वात् उत्तरत्राभिसंबन्धो न स्यात् । ततः प्रतिसूत्रं प्रदेशग्रहणे क्रियमाणे गौरवं स्यात् । २० कश्चिदाह
प्रदेशकल्पना निरवयवत्वादपचारिकी सिंहवत् |१०| धर्मादीनां या प्रदेशकल्पना सा औपचारिकी । कुतः ? निरवयवत्वात् । कथम् ? सिंहवत् । यथा विशिष्टपञ्चेन्द्रिय तिर्यङ्नामकर्मोदयापादिताविशेषे क्रौर्यशौर्यादिगुणप्रकर्षाधिष्ठाने खरनखोग्रदंष्ट्राभासुरकेसर कपिलनयनतारकाद्यव यवविशिष्ठे केसरिणि सिंहशब्दोऽध्यवसितः माणवके अतद्गुणे भक्तचाऽध्यारोप्यते, तथा पुद्गलेषु २५ मुख्यः प्रदेशशब्दः धर्मादिषु भक्तयोपचर्यते इति ।
न वाः प्रत्ययाभेदात् ॥ ११॥ न वा औपचारिकी । कुतः ? प्रत्ययाभेदात् । इह मुख्यप्रत्ययात् सिंह विशेषात् अध्यवसानरूपात् माणवके सिंह इति गौणप्रत्ययोऽध्यारोपरूपो भिन्न उपलभ्यते, न च तथा पुलेषु धर्मादिषु च प्रदेशप्रत्ययो भिन्नोऽस्ति, उभयत्रावगाहभेदतुल्यत्वात् । इतश्च, उभयत्र सोपपदत्वात् |१२| सिंहशब्दो निरुपपदो मुख्यं गमयति सोपपदो गौणम्३० सिंहो माणवक इति, न तथा प्रदेशशब्दे विशेषोऽस्ति पुलेपु धर्मादिपु च सोपपदत्वात् - 'घटस्य प्रदेशाः धर्मादीनां प्रदेशाः' इति । ततो नास्त्यत्र विशेषः । इतच,
३५
स्वतोऽवधारणाभावात् नाञ्जसा इति चेत् नः अत्यन्तपरोक्षत्वात् ॥ १२४॥ स्यान्मतम् ; यदि घटादिवत् धर्मादीनाम आञ्जसाः प्रदेशा भवेयुर्ननु घटादिवदेव स्वतः प्रदिश्येरन । घटादीनां
हेत्वपेक्षाभावात् ॥ १३॥ सिंहे प्रसिद्धः क्रौर्यादिधर्मः तदेकदेशसादृश्यं माणवके गौणव्यवहारस्य हेतुरस्ति, न तथा पुनलेषु प्रसिद्धं हेतुमवेच्य धर्मादिषु प्रदेशोपचारः क्रियते तेपामपि स्वाधीनप्रदेशत्वात् । तस्मादुपचारकल्पना न युक्ता ।
१ - रत इति मु०, ब० । २ उत्तरत्रापि स श्र०, ता० । ३ असंख्येयाः प्रदेशा इत्यादि । ४ उपचारेण । ५ ज्ञानात् । ६-त् सिंहत्वात् सिंह- मु०, ब०, द० ।