________________
श ]
पञ्चमोऽध्यायः क्रिया क्षणिकात्मिका, द्रव्यमकारणं क्रिया कारणवतीति | चौकात्म्यं स्यात् द्रव्यस्यावस्थानवत् अकारणवच्च क्रियाया अप्यवस्थानमकारणत्वं च स्यात् , 'विपर्ययो वेति; तन्न; किं कारणम् ? कथैचिद् व्यतिरेकसिद्धेः । अत एवाऽस्माभिः कथञ्चिदन्यत्वमवसीयते ऐकात्म्यं मा विज्ञायीति ।
क्रियावत्वे सत्यनित्यत्वमिति चेत . न. व्यभिचारात २२॥ स्यादेतत , यदि क्रियावत्त्वमभ्युपगम्यते जीवस्यानित्यत्वं प्राप्नोति । दृष्टा हि क्रियावतां प्रदीपादीनामनित्यतेति; तन्न; किं कारणम् ? व्यभिचारात् । महदहकारादीनां परमाण्वादीनां च क्रियावतामपि नित्यत्वदर्शनात् व्यभिचारी हेतुः।
अथ सर्वानित्यत्ववादी आत्मानित्यत्वे हेतुं ब्रूयात् अॅसिद्धो हेतुः “सर्वे प्रत्ययजाश्चैव सर्वे चैव निरीहकाः" [ ] इति क्रियावत्त्वनिह्नवात् । किञ्च,
अभ्यपगमात ।२३। अभ्युपगम्यतेऽस्मामिः क्रियावतां जीवादीनां पर्यायार्थिकनयादेशात् १० अनित्यत्वं ततो न बाधाकरोऽयं हेतुः ।
असिद्धेश्च ।२४। नेदं क्रियावत्त्वमस्मान् प्रति सिद्धं द्रव्यार्थिकनयादेशात् निष्क्रियत्वोपपत्तेः । एतेन प्रदीपादिदृष्टान्तासिद्धिश्च योज्या। किश्च,
... अनुत्पादाव्ययोत्पादव्ययदर्शनात् ।२५॥ पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् सर्वे १५ भावा अनुत्पादाव्ययदर्शनात् निष्क्रिया नित्याश्च । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् सर्वे भावा उत्पादव्ययदर्शनात् सक्रिया अनित्याश्चेति अनेकान्तोपपत्तः एकान्तवादिविहिता दोषा नानेकान्तवादे अवकाशं लभन्ते ।
अजीवकाया इत्यत्र कायग्रहणे प्रदेशास्तित्वमात्रत्वं निर्जातं नत्वियत्ताऽवधारिता प्रदेशानाम्, अतस्तन्निर्धारणार्थमिदमुच्यते
असंख्येयाः प्रदेशा धर्माऽधमैकजीवानाम् ॥ ८॥ . २० संख्याधिशेषातीतत्वादसंख्येयाः ।। संख्यानं संख्या गणनेत्यर्थः। स्वलक्षणेन परस्परतो विशेष्यत इति विशेषः । संख्यायाः संख्यैव वा विशेषः संख्याविशेषः तमतिक्रान्ता ये तेऽसंख्येयाः । न केनचित् संख्यातुं शक्यन्त इति यावत् ।
तदनुपलब्धेरसर्वज्ञत्वप्रसङ्ग इति चेत्, न; तेनात्मनाऽवसितत्वात् ।। स्यान्मतम् , यदि ते न केनचिदपि संख्यातुं शक्यन्ते, प्राप्तं तर्हि तदनुपलब्धेरसर्वज्ञत्वमिति तन्नः किं कारणम? २५ तेनात्मनाऽवसितत्वात् । यथा अनन्तमनन्तात्मनोपलभमानस्य न सर्वज्ञत्वं हीयते तथा असंख्येयमसंख्येयात्मनाऽवबुध्यमानस्य नास्ति सर्वज्ञत्वहानिः । न हि अन्यथाऽवस्थितमर्थमन्यथा वेत्ति सर्वज्ञो यथार्थज्ञत्वात् । अर्थस्य चाधिगमे त्रिविधं मानं व्याख्यातं संख्येयमसंख्येयमनन्तमिति । तत्रेहाऽजघन्योत्कृष्टासंख्येयं परिगृह्यते ।
प्रदिश्यन्त इति प्रदेशाः ।३। प्रदिश्यन्ते प्रतिपाद्यन्त इति प्रदेशाः । कथं प्रदिश्यन्ते ? -- परमाण्ववस्थानपरिच्छेदात् ।। वक्ष्यमाणलक्षणो द्रव्यपरमाणुः स यावति क्षेत्रेऽवतिष्ठते स प्रदेश इति व्यवह्रियते । ते धर्माधर्मैकजीवाः तुल्याऽसंख्येयप्रदेशाः । तत्र धर्माधौं निष्क्रियौ व्याप्य स्थितौ । जीवः तावत्प्रदेशोऽपि संहरणविसर्पणस्वभावत्वात् कर्मनिर्वतितं शरीरमणु महद्वा
३०
-
क्रियायाः क्षणिकत्ववत् द्रव्यस्थापि क्षणिकत्वं स्यादित्यादि। २ न सिद्धो श्र०।३ तेनावसितत्वात् मू०, श्र.। ४ जानतः । ५ बृहद्वा-मु०, द०, ब०।