SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवार्तिके [ ५७ निष्क्रियात्मद्रव्यगुणस्य ततो व्यतिरेकेणाऽनुपलभ्यमानस्य क्रियाया आश्रयकारणत्वं युक्तम् । अर्थान्तरभावे चासत्त्वमिति वैषम्यम् । किञ्च, शरीरे क्रियाभावो जीवस्य निष्क्रियत्वात् आकाशप्रदेशवत् | १४| यथा आकाशप्रदेशो निष्क्रियः शरीरे क्रियारम्भहेतुर्न भवति तथा आत्मा तद् गुणश्च निष्क्रियत्वात् क्रियाहेतुर्न भवेत् । ५ किञ्च, एकान्तेनाऽमूर्तस्य निष्क्रियस्य शरीरेण सह सम्बन्धाभावात् परस्परोकारो नोपपद्यते आकाशवदेव | ४४८ शरीरवियोगे निष्क्रियत्वप्रसङ्ग इति चेत्; न; अभ्युपगमात् । १५ स्यान्मतम् - यस्य कार्म - शरीरसम्बन्धे सति तत्प्रणालिकापादिता क्रिया आत्मनोऽभिप्रेता तस्याष्टविधकर्मसंक्षये शरीरवियोगात् 'अशरीरस्यात्मनो निष्क्रियत्वं प्रसक्तमिति; तन्न; किं कारणम् ? अभ्युपगमात् कारणा१० भावात् कार्याभाव इति । कर्मनाकर्मनिमित्ता या क्रिया सा तदभावे नास्तीति निष्क्रियत्वं मुक्तस्थाभ्युपगम्यतेऽस्माभिः । अथवा, परनिमित्तक्रियानिवृत्तावपि स्वाभाविकी मुक्तस्योर्ध्वगतिरभ्युपगम्यते प्रदीपवत् । अथवा, स्यात् शरीरवियोगें मुक्तस्य निष्क्रियत्वं यद्यनन्तवीर्य ज्ञानदर्शनाचिन्त्यसुखानुभवनादयः क्रिया नाऽभ्युपगम्येरन, अभ्युपगम्यन्ते तु तस्मादयमदोपः शरीरवियोगादात्मनो निष्क्रियत्वप्रसङ्ग इति । वक्ष्यमाणत्वाच्च पूर्वप्रयोगादिभिः | १६ | वक्ष्यते चोत्तरत्र मुक्तानां क्रिया । कथम् ? पूर्व - प्रयोगादिभिः । १५ पुद्गलानामपि द्विविधा क्रिया विस्रसा प्रयोगनिमित्ता च ॥१७॥ पुद्गलानां द्विविधा क्रिया वक्ष्यते । साद्वितयी भवति विस्रसा प्रयोगनिमित्ता चेति । सा अनन्या स्वात्मविशेषभावात् | १८| सा क्रिया तद्वतोऽनन्या वेदितव्या । कुतः ? २० स्वात्मविशेपभावात् । यथा अग्नेर्नान्यदौष्ण्यं स्वात्मविशेपभावात् । यद्यन्यत् स्यात् ; अग्नेरभावप्रसङ्गः स्यात् अलक्षणत्वात् । तथा क्रियापि क्रियावतो नान्या स्वात्मविशेषभावात् । यद्यन्या स्यात् ; द्रव्यस्यास्पन्दत्वं स्यात् क्रियायाश्चाऽभावः तस्मादनन्या क्रिया । अर्थान्तरत्वेऽपि योगात् व्यपदेशो दण्डदण्डिवदिति चेत्; न; स्वतोऽसिद्धत्वात् ॥ १६॥ अर्थान्तरत्वेऽपि क्रियायाः तद्योगाद् द्रव्यस्य क्रियावद्व्यपदेशः दण्डदण्डिवदिति च यदि मतम्, २५ तदपि नोपपद्यते ; कुतः ? स्वतोऽसिद्धत्वात् । युज्यते स्वतः सिद्धेन दण्डेन योगात् देवदत्तस्य दण्डव्यपदेशः, न च तथा क्रिया स्वतः सिद्धा व्यतिरेकेणानुपलब्धेः । तस्मात्तद्वद्व्यपदेशो न युक्तः । समवायादिति चेत्; न; अघिशेपप्रसङ्गात् | २०| स्यान्मतम्, सत्यमेतत् न दण्डदण्डि - वद्योगः, स्वतःसिद्ध्यभावात् । कथं तर्हि ? समवायो नामाऽयुतसिद्धिलक्षणः संबन्धोऽस्ति, तेनैकत्वमिव नीतस्य द्रव्यस्य क्रियावद्व्यपदेशो भवतीति; तन्न; किं कारणम् ? अविशेषप्रसङ्गात् । ३० अयुत सिद्धिलक्षणश्चेत् संबन्धः क्रियाक्रियावतोरविशिष्टः; यद्द्रव्यं सैव क्रिया, या च क्रिया, तदेव द्रव्यमित्यविशेषः प्राप्नोति, तथा च सति पदार्थान्तरकल्पनाव्याघातः । पदार्थान्तरत्वं चेदभ्युपगम्यते; न "नामाऽयुत सिद्धिलक्षणः संबन्धः । अनन्यत्वे द्वयोरैकात्म्यमिति चेत्; न; कथञ्चिद्व्यतिरेकसिद्धेः | २१ | स्यादेतत्, यदि क्रियाक्रियावतोरनन्यत्वमभ्युपगम्यते तयोरैकात्म्यं प्रसज्येत । दृष्टा च नानात्मता - द्रव्यमवस्थितं १ द्रव्यतः । २ शवस्य । जीवच्छरीरे वा । ३ अयोगकेवलिचरमसमये वर्तमानस्येत्यर्थः । ४ भवतु । ५ तर्हि । ६ पूर्व प्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्चेति [ त० सू० १०६ ] | ७ तद्ध ेतोरन-मु०, द०, ब० । ८ यथा क्रियाया अस्पन्दं द्रव्यं तथा । ६ विद्यमानयोः सम्बन्धोऽयुतसिद्धिः। १० - तोरिष्टः द०, ब०, मु०, मू०, ता० । ११ निश्चयेन |
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy