________________
५७ ] पञ्चमोऽध्यायः
४४७ ___ अत्र' कश्चिदाह-आत्मा सर्वगनत्वान्निष्क्रियः, क्रियाहेतुगुणसमवायात् परत्र क्रियाहेतुरिति; तत्प्रतिविधानार्थमाह
द्रव्यस्य क्रियापरिणामिनोर्थान्तरे तत्परिणामसामर्थ्य वायुवत् ।७। यथा वायुः स्वयं क्रियापरिणतत्वात वनस्पती क्रियानिमित्तं तथा आत्मनः क्रियापर्यायस्वभावस्य वीर्यान्तरायज्ञानावरणक्षयक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भे सति विहायोगतिनामोदयापादितशक्तिविशेषे च ५ सति व्रज्यामनुतिष्ठतो हस्तादिपु क्रियोत्पत्तियुक्ता, न तु निष्क्रियस्यात्मनः परत्र क्रियाहेतुत्वं युक्तम् । 'तत्र यदक्तम-"आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म" [वैशे० ५.१.१] इत्येतदपाकीर्णम । कथमिति चेत् ? उच्यते
अतत्परिणामस्य तदभावो व्योमवत । यथा व्योम्नो निष्क्रियस्य घटादिषु सत्यपि . संयोगे न क्रियाहेतुत्वम , तथा आत्मनो निष्क्रियस्य सत्यपि संयोगे हस्तादिपु न क्रियाहेतुत्वं १० युक्तम् । किञ्च,
उभयोः निष्क्रियत्वात् ।। यथोभयोर्जात्यन्धयोः सम्बन्धे न दर्शनशक्तिप्रादुर्भावोऽस्ति तथा आत्मसंयोगप्रयत्नयोः निष्क्रियत्वात् क्रियाहेतुत्वमयुक्तम् । कथं निःक्रियत्वमिति चेत् ? उच्यते-"दिक्कालावाकाशं च क्रियावद्भयो वैधात् निःक्रियाणि । एतेन कर्माणि गुणाश्च व्याख्याताः" [वैशे० ५।२।२१,२२] निष्क्रिया इति वचनात् संयोगप्रयत्नयोः गुणत्वात् निष्क्रियत्वम् ।
१५ अग्निसंयोगवदिति चेत्, न; अस्मदिष्टसिद्धेः।१०। स्यान्मतम्-यथा अग्निसयोगः औष्ण्यापेक्षः परत्र घटादौ पाकजान रूपादीनारभते नात्माधारेऽग्नौ तथा आत्मसंयोगप्रयत्नयोरदृष्टापेक्षयोः हस्तादौ क्रियाहेतुत्वं युक्तं नात्मनीति; तन्न; किं कारणम ? अस्मदिष्टसिद्धेः । यथा
अग्निसंयोगो रूपादिमद्व्यगुणः परत्र घटादौ रूपादिमति रूपाद्य-तरोत्पत्तिहेतुर्भवति, तथा आत्म'संयोगप्रयत्नावपि परत्र हस्तादौ क्रियामारभमाणौ क्रियावदद्रव्यगुणाविति क्रियावत्त्वमात्मनोऽस्म- २० दिष्टं सिद्धम् ।
तत्सामर्थ्याभावाच्च ।११। य उक्तोऽग्निसंयोगो दृष्टान्तः न तस्य तत्सामर्थ्यमस्ति । कुतः ? अनुष्णाशीतस्याऽप्रेरकस्यानुपघातिनोऽप्राप्तस्य संयोगस्य रूपाद्युच्छेदोत्पत्त्योहेतुत्वासंभवात् । तस्मादसौ असिद्धो दृष्टान्तो दार्टान्तिकार्थसिद्धये नालम् ।
गुरुत्ववदिति चेत् ; न; तुल्यत्वात् ।१२। स्यादेतत्-यथा निष्क्रियं गुरुत्वं लोष्टे वर्तमान २५ तृणादौ क्रियाया हेतुः तथा आत्मसंयोगप्रयत्नौ निष्क्रियावपि सन्तौ हस्तादौ क्रियाहेतू इति; तन्न; किं कारणम् ? तुल्यत्वात् । अग्निसंयोगेन तुल्यमेतत् । यथा क्रियापरिणामिनो लोष्टस्य गुणो गुरुत्वं परत्र क्रियाहेतुः तथा आत्मसंयोगप्रयत्नावपि क्रियापरिणामिद्रव्यगुणाविति क्रियावत्त्वमात्मनः सिद्धम् । किञ्च, निष्क्रियस्य गुरुत्वस्याऽस्पर्शकस्याऽप्रेरकरयानुपघातिनोऽन्यत्र क्रियाहेतुत्वं नोपपद्यते इति दृष्टान्तोऽसिद्धः । द्रव्यमेव तथापरिणतं क्रियाहेतुरिति ।
धर्मास्तिकायवदिति चेत् ; न; वैषम्यात् ।१३। स्यान्मतम्- यथा धर्मास्तिकायो निष्क्रियः जीवपुद्गलानां गतिहेतुः तथा आत्मसंयोगादिः निष्क्रियोऽपि परत्र क्रियाहेतुरिति; तन्नः किं कारणम् ? वैषम्यात् । युज्यते धर्मास्तिकायस्य जीवपुरलगतिं प्रत्यप्रेरकत्वम् , निष्क्रियस्यापि बलाधानमात्रत्वदर्शनात् , आत्मगुणस्नु अपरत्र क्रियारम्भे प्रेरको हेतुरिष्यते तद्वादिभिः । न च निष्क्रियो द्रव्यगुणः प्रेरको भवितुमर्हति इति वैषम्यम् । किञ्च, धर्मास्तिकायाख्यं द्रव्यमाश्रयकारणं भवतु, न तु ३५
१ वैशेषिकः-स०। २ प्रयत्नः संयोगश्चेति । ३ हस्तादौ। ४ तथा सति । ५ निष्क्रियस्यापि गुणस्य क्रियावत्त्वमस्तीति दृष्टान्तेन द्रढयति परः। ६ गुरुत्वेन । ७ प्रत्यप्रेरकस्य नि-ता०, श्र०, मू० । ८ निष्क्रियद्रव्य-मु०, द०, ब० ।-पम्यं च किं च ता० । १० बलाधान ।