________________
५
४४६
तत्त्वार्थवार्तिके
निष्क्रियाणि च ॥७॥
उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया | १| अभ्यन्तरं क्रियापरिणामशक्तियुक्तं द्रव्यम्, वाह्यं च नोदनाभिघाताद्यपेक्ष्योत्पद्यमानः पर्यायविशेषः द्रव्यस्य देशांन्तरप्राप्तिहेतुः क्रियेत्युपदिश्यते । उभयनिमित्त इति विशेषणं' द्रव्यस्वभावनिवृत्त्यर्थम् । यदि हि द्रव्यस्वभावः स्यात् परिणामिनो द्रव्यस्याऽनुपरतक्रियत्वप्रसङ्गः । द्रव्यस्य पर्यायविशेष इति विशेपणम् अर्थान्तरभाव निवृत्त्यर्थम् । यदि हि क्रिया द्रव्यादर्थान्तरभूता स्यात् 'द्रव्यस्य निश्चलनत्वप्रसङ्गः । देशान्तरप्राप्तिहेतुरिति विशेषणं ज्ञानादिरूपादिनिवृत्त्यर्थम् ।
[ ५७
तस्याः प्रादिवृत्या अन्यपदार्थगतिः |२| तस्याः क्रियाया: प्रादिवृत्त्या अन्यपदाथंगतिर्भवर्त - निष्क्रान्तानि क्रियायाः निष्क्रियाणीति ।
१०
निष्क्रियत्वादुत्पादाभाव इति चेत् नः अन्यथोपपत्तेः ॥३॥ स्यादेतत्-धर्मादीनि द्रव्याणि यदि निष्क्रियाणि ततस्तेपाम् उत्पादो न भवेत् । क्रियापूर्वको हि घटादीनामुत्पादो दृष्टः, उत्पादाभावाच्च व्ययाभाव इति सर्वद्रव्याणामुत्पादादित्रितयरूपकल्पनाव्याघात इति; तन्न; किं कारणम् ? अन्यथोपपत्तेः । क्रियानिमित्तोत्पादाभावेऽपि एषां धर्मादीनामन्यथोत्पादः कल्प्यते । तद्यथा, द्विविध उत्पाद:- स्वनिमित्तः, परप्रत्ययश्च । स्वनिमित्तस्तावत् अनन्तानामगुरुलघुगुणाना१५ मागमप्रामाण्यादभ्युपगम्यमानानां पट्स्थानपतितया वृद्धया हान्या च वर्तमानानां स्वभावादेषामुत्पादो व्ययश्च । परप्रत्ययोऽपि अश्वादेर्गतिस्थित्य वगाहन हेतुत्वात्, क्षणे क्षणे तेपां भेदात् तद्धेतुत्वमपि भिन्नमिति परप्रत्ययापेक्ष उत्पादो विनाशश्च व्यवह्रियते ।
निष्क्रियत्वात् गतिस्थित्यवगाहनक्रि याहेतुत्वाभाव इति चेत्; न; वलाधानमात्रत्वादिन्द्रियवत् ||४| स्यादेतत् यद्येतानि निष्क्रियाणि गतिस्थित्यवगाहन क्रिया हेतुत्वमेपां नोपपद्यते । २० क्रियावन्ति हि जलादीनि मत्स्यादीनां गत्यादिनिमित्तानि दृष्टानि इति; तन्नः किं कारणम् ? बलाधानमात्रत्वात् इन्द्रियवत् । यथा दिदृक्षोश्चक्षुरिन्द्रियं रूपोपलब्धौ बलाधानमात्रमिष्टं न तु चक्षुषः तत्सामर्थ्यम् इन्द्रियान्तरोपयुक्तस्य तदभावात् । यथा वा, आयुःसंक्षयात् आत्मनि शरीरान्निष्क्रान्ते सदपीन्द्रियम् रूपाद्युपलब्धौ समर्थ न भवति, ततो ज्ञायते आत्मन एवैतत्सामर्थ्यम् इन्द्रियाणां तु बलाधानमात्रत्वमिति, तथा स्वयमेव गतिस्थित्यवगाहनपर्यायपरिणामिनां जीवपुद्गलानां धर्मा२५ धर्माकाशद्रव्याणि गत्यादिनिर्वृत्तौ बलाधानमात्रत्वेन विवक्षितानि न तु स्वयं क्रियापरिणामीनि । कुतः पुनरेतदेवमिति चेत् ? उच्यते
द्रव्यसामर्थ्यात् |५| यथा आकाशमगच्छत् सर्वद्रव्यैः संबद्धम्, न चास्य सामर्थ्यमन्यस्यास्ति । तथा च निष्क्रियत्वेऽप्येषां गत्यादिक्रिया निर्वृत्तिं प्रति वलाधानमात्रत्वमसाधारणमवसेयम् । शब्दोऽभिहित संवन्धार्थः | ६| चशब्दः क्रियते अभिहितानामेकद्रव्याणां संबन्धार्थः । ३० अतो धर्माधर्माकाशानां निष्क्रियत्वनियमाज्जीवपुद्गलानां स्वतः परतश्च क्रियापरिणामित्वं सिद्धम्' ।
१ - व्यपदि - श्र०, ब०, द०, मू० । २ क्रियायाः । ३ अपर्यवसान | ४ द्रव्यनिश्चलनत्व - ता०, ६ तेन मू० । द्रव्यनिश्चलत्वा सु०, ब०, ६० । ५ गतादिषु प्रादयः [ शाक० २।१।२१] इति । प्रकृतैकद्रव्याणां गतिः । ७ गतिस्थित्यवगाहनहेतुभूतपर्यायोऽपि । ८ द्रव्येन्द्रियम् । श्रोत्राद्यन्यतम । १० - मात्रमिति ता० । ११ कालस्यापि सक्रियत्वमिति चेत्; न; अनधिकारात् । अत एव चासावेतैः सह नाधिक्रियते ।