________________
श६]
पञ्चमोऽध्यायः
४४५
नुत्पाद्यत्वाद् आदिमदनादिमत्त्वात अन्वयव्यतिरेकरूपवागविज्ञानवृत्तिहेतत्वादित्येवमादिभिः हेतुभिः कथञ्चिद् व्यतिरेकः सिद्ध्यतीति तदपेक्ष इनः प्रादुर्भावः सिद्धः।
तेनैवं व्यपदेशाच्च ।६। अनन्यत्वेऽपि लोके व्यपदेशो दृष्टः 'आत्मवान् आत्मा, सारवान् वृक्षः' इति । नहि आत्मनोऽन्य आत्मारित, नापि वृक्षादन्यः सारः, तथापि व्यपदेशो दृश्यते । एवमिह अनन्यत्वेऽपि व्यपदेशो वेदितव्यः ।
पुद्गला इति बहुवचनं भेदप्रतिपादनार्थम् ७ पुद्गला इति बहुवचनं क्रियते । किं प्रयोजनम् ? भेदप्रतिपादनार्थम् । भिन्ना हि पुद्गलाः परमाणभेदात् स्कन्धभेदाच्च । तद्विकल्पा उपरिष्टाद्वक्ष्यन्ते । अत्राह- किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानि इति ? अत्रोच्यते
आ आकाशादेकद्रव्याणि ॥ ६॥ अभिविधावाङ्मयोगः ।। अभिविधिरभिव्याप्तिः, तस्मिन्नर्थे अयमाङ् प्रयुज्यते, तेनाऽऽकाशस्यापि एकद्रव्यत्वं संकीर्तितं भवति । यदि हि मर्यादायां गृह्यते आकाशस्यान्तर्भावो न स्यात् । सौत्रीमानुपूर्वीमाश्रित्य इदमुक्तं तेन धर्माधर्माकाशानि गृह्यन्ते ।
एकशब्दः संख्यावचनः ।२। अन्याऽसहायाद्यनेकार्थसंभवेऽप्ययमेकशब्दः संख्यावचनो द्रष्टव्यः ।
तत्संबन्धाद् द्रव्यशब्दस्यैकवचनप्रसङ्ग इति चेत्, न; धर्माद्यपेक्षया बहुत्वसिद्धेः ।। स्यान्मतम्-यद्ययमेकशब्दः संख्यावचनः तेन सामानाधिकरण्याद् द्रव्यशब्दस्याप्येकवचनमेव प्राप्नोतीति; तन्न; किं कारणम? धर्माद्यपेक्षया बहुत्वसिद्धः । धर्मादीनि बहूनि द्रव्याणि तदपेक्षया बहुवचनं युज्यते एकस्यानेकार्थप्रत्यायनशक्तियोगात् ।
एकैकमित्यस्तु लघुत्वात् ।। अत्र कश्चिदाह-'आ आकाशादेकैकम्' इत्येव तावदस्तु २० सूत्रम् । कुतः ? लघुत्वात् । कथं द्रव्यगतिः ?
प्रसिद्धत्वाद् द्रव्यगतिः ।। धर्मादीनि षड्व्याणि इति प्रसिद्धमतों द्रव्यगतिर्भवति, तस्मादनर्थकं द्रव्यग्रहणमिति ।
न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् ।६। न वानर्थकम् । किं कारणम् ? द्रव्यापेक्षया एकत्वख्यापनार्थत्वात् । एकैकमित्युक्ते न ज्ञायते किं द्रव्यतः क्षेत्रतः भावत इति ? अतोऽसन्देहाथै २५ द्रव्यग्रहणं क्रियते। तेनाऽयमर्थो गृह्यते-गतिस्थितिपरिणामिविविधजीवपुद्गलद्रव्यानेकपरिणामनिमित्तत्वेन सत्यपि भावतो बहुत्वे, सति च प्रदेशभेदादसंख्येयक्षेत्रत्वे धर्मद्रव्यमधर्मद्रव्यं च द्रव्यत एकैकमेव । अवगाहनेकद्रव्यविविधावगाहननिमित्तत्वेन अनन्तभावत्वेऽपि प्रदेशभेदात् सति चानन्तक्षेत्रत्वे द्रव्यतः एकमेवाकाशमिति न जीवपुद्गलवदेषां बहुत्वम् , नापि धर्मादिवत् जीवपुद्रलानामेकद्रव्यत्वम् । यदि हि स्यात् , दृष्टस्य क्रियाकारकभेदयं इष्टस्य च संसारमोक्ष- ३. क्रियाविस्तरस्य विरोधः स्यात् ।
आह कालद्रव्यं किम् एकमनेकमिति ? उत्तरत्र तस्य निर्णयो वक्ष्यते । अधिकृतानामेवैकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते
१ म्यार्थिकपर्यायार्थिकनयेन । २ अभेदेऽपि इन उत्पत्तिर्घटत इत्याह । ३ एकद्रय्यत्वं संकीर्तनं ब०, द०, मु. । ४ असंहितया निर्देशश्च असन्देहार्थः । ५ अजीवादि । ६-द्धमिति द्र-मु०, द०, ब० । ७-तः कालतः भा- मु०, ब.। = वृक्षात् पर्ण पतति कटे आस्ते देवदत्त इत्यादि । १ अनुमानस्य । १० अखण्ड ।