________________
तत्त्वार्थवार्तिके
[१५ अरूपग्रहणं द्रव्यस्वतरवनिर्मानार्थम् ।। अरूपग्रहण क्रियते द्रव्यस्वतत्त्वनिओनार्थम । न विद्यते रूपं येप तान्यरूपाणि । रूपव्यदासात्तदविनाभाविनां रसादीनामपि व्युदासो वेदितव्यः । अरूपाणि अमूर्तानीति यावत् ।
वृत्तौ पञ्चवचनात् पद्रव्योपदेशव्याघात इति चेत् ; न; अभिप्राथाऽपरिज्ञानात् ।। स्यान्मतम-वृत्तावुक्तम-"अवस्थितानि धर्मादीनि न हि कदाचित्पञ्चत्वं व्यभिचरन्ति" [ ] इति, ततः पडद्रव्याणीत्युपदेशस्य व्याघात इति; तन्न; किं कारणम ? अभिप्रायापरिज्ञानात् । अयमभिप्रायो वृत्तिकारस्य -"कालश्च" [५।३] इति पृथग द्रव्यलक्षणं कालग्य वक्ष्यते, तदनवेक्ष्य अधिकृतानि पञ्चैव द्रव्याणोति षडद्रव्योपदेशाविरोधः ।
___यथा सर्वेषां द्रव्याणां नित्यावस्थितानि इत्येतत् साधारणं लक्षणं तथा अरूपत्वमपि १० प्राप्तम् , अतस्तदपवादार्थमाह
रूपिणः पुद्गलाः ॥ ५॥ रूपशब्दस्याऽनेकार्थत्वे मूर्तिपर्यायग्रहणं शास्त्रसामर्थ्यात् ।। रूपशब्दोऽनेकार्थः । क्वचिद् द्रव्ये वर्तते-गोरूपाणि गोद्रव्याणि इत्यर्थः । कचित् स्वभावे वर्तते-"चैतन्यं पुरुषस्य स्वरूपम्"
[योगभा० १६] स्वभाव इत्यर्थः। कचिदभ्यासे वर्तते, दशरूपमध्ययनं कार्यम्-दशवारानभ्यासः कार्य १५ इत्यर्थः । क्वचिच्छ्रतौं वर्तते-वं रूपं शब्दस्य स्वा श्रुतिरित्यर्थः । क्वचिन्महाभूतेषु वर्तते-"रूपं चत्वारि
महाभूतानि उपादाय रूपं चेति ।" [ ] इति । कचित् गुणविशेषे वर्तते-चक्षुर्ग्रहणयोग्यों योऽर्थस्तद्रूपमिति । क्वचिन्मूर्तिपर्यायवचनः-रूपिद्रव्यं मूर्तिमद्-द्रव्यमित्यर्थः। तत्रेह मूर्तिपर्यायवचनो रूपशब्दो ग्रहीतव्यः । कुतः ? शास्त्रसामर्थ्यात् । अर्हत्प्रोक्त हि गणधरावधारिते श्रोते शास्त्रे
अभिहितम-"रूपिद्व्यं मूर्तिद्रव्यम्" [ ]इति । तस्मात् रूपिणः पुद्गला मूर्तिमन्तः पुद्गला २० इत्यर्थः । कापुनः मूर्तिः ?
___ रूपादिसंस्थानपरिणामो मूर्तिः ।। रूपमादिर्येषां त इमे रूपादयः । के पुनस्ते ? रूपरसगन्धस्पर्शाः, परिमण्डलत्रिकोणचतुरस्रायतचतुरस्रादिराकृतिः संस्थानम् , तै रूपादिभिः संस्थानैश्च परिणामो मूर्तिरित्याख्यायते ।
गुणविशेषवचनग्रहणं वा ।३। अथवा रूपमित्यनेन गुणविशेषो गृह्यते चक्षुर्ग्रहणयोग्यः ।
रसाद्यग्रहणमिति चेतः नः तदविनाभावात तदन्तर्भावसिद्धा स्यादतत-गुणविशेषग्रहणे सति रसादीनामग्रहणं प्रसक्तमिति; तन्न; किं कारणम् ? तदविनाभावात् तदन्तर्भावसिद्धेः। रूपाविनाभाविनो हि रसादयो रूपग्रहणेन गृह्यन्ते ।
इनोऽनुत्पत्तिरभेदादिति चेत् ;न; कथञ्चिद् व्यतिरेकसिद्ध ।। स्यादाकूतम-सति भेद इन उत्पत्तिईष्टा यथा दण्डोऽस्यास्तीति दण्डीति । न च तथा रूपं द्रव्याद्भिन्नमस्ति तस्यैव रूपादिपर्यायपरिणामात । तत इन उत्पत्ति पपद्यते 'रूपमेषामस्ति ते रूपिणः' इतिः तन्न; किं कारणम ? कथञ्चिव्यतिरेकसिद्धः । यद्यपि पुद्गलद्रव्यादनन्यद्रपं तत्परिणामात्", द्रव्यार्थादेशाद् व्यतिरकेणानुपलब्धेः। तथापि पर्यायाथिकनयविवक्षाविजम्भितैः" रूपविनाशे* पुद्गलावस्थानात उत्पाद्या
१ पंचत्वव-मु०, ब. । २ तत्त्वार्थवृत्तिरित्यपरस्मिन् शास्त्र । तुलना-"अवस्थितानि च, न हि कदाचित् पञ्चत्वं भृतार्थत्वं च व्यभिचरन्ति"-त. भा० ५/३ । ३ वृत्तिकरणस्य मु० । वृत्तिकारणस्य द०, ब०। ४ तदनपेक्षादिकृतानि मु०। ५ श्रवणगोचरत्वे इत्यर्थः। ६ नीलादिः। ७ गणधरावधारितशास्त्रस्य श्रुतिरिति संज्ञा अन्यः स्मृतिरिति । ८ मूर्तिमद्वव्य-मु०, द० । -पग्रहणवचनं वा श्र० । १०-णामद्रा-श्र० । ११-ते रूप-मु० । १२ आमघटस्य श्यामरूपविनाशं पीतरूप ।
३०