________________
२४]
पञ्चमोऽध्यायः ___ सत्यप्यधिकारे यत्ताभावाच ।। अनुवर्तमाना अपि विधयो न चानुवर्तनादव भवन्ति । किं तहिं ? यत्नाद्भवन्तीति । जीवानामेव द्रव्यसंज्ञा स्यात् अजीवानां न स्यात् यत्नाभावात् । ततः पृथक्योगग्रहणं न्याय्यम् । एवं च कृत्वा चशब्दोऽप्यर्थवान् भवति ।
उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह
नित्यावस्थितान्यरूपाणि ॥ ४ ॥ नित्यशब्दो ध्रौव्यवचनः ।। अयं नित्यशब्दः ध्रौव्यवचनो बेदितव्यः । नेधुं वे त्योऽन्याख्यातः । किं पुनरिह नित्यत्वम् ? .
तद्धावाव्ययो नित्यत्वम् ।। येन भावेन उपलक्षितं द्रव्यं तस्य भावम्याऽव्ययो नित्यत्वम्च्यते । वक्ष्यते "तद्भावाव्ययं नित्यम्" [५।३१] इति । धर्मादीनि द्रव्याणि गतिहेतुत्वादिविशेपलक्षणद्रव्यार्थादेशात् अस्तित्वादिसामान्यलक्षणद्रव्यादिशाच्च कदाचिदपि न व्ययन्तीति १० नित्यानि ।
इयत्तानतिवत्तरवस्थितानि ।। धर्मादीनि पपिदव्याणि कदाचिदपि पडिति इयत्त्वं नातिवतन्ते, ततोऽवस्थितानीत्युच्यन्ते । अथवा, धर्माधर्मलाकाकार्शकजीवानां तुल्यासंख्येयप्रदेशत्वम् , अलोकाकाशस्य पुद्गलानां चाऽनन्तप्रदेशत्वमित्येतदियत्वम , तस्यानतिवृत्तः अवस्थितानीति व्यपदिश्यन्ते ।
_गतार्थत्वादवक्तव्यमिति चेत् । न; परिणामानेकत्वात् ।। म्यान्मतम-नित्यवचनेनैव गवार्थत्वात् अवस्थितानीति न वक्तव्यम् , न हि नित्यत्वमतिक्रम्यावस्थित्वमातीति; तन्न; किं कारणम् ? परिणामानेकत्वात् । धर्मादीनामनकः परिणामोऽस्ति गतिस्थित्युपग्रहादिपर्यायोत्पादव्ययव्यवस्थितिलक्षणः । अंतः किम् ? अमुष्मिन परिणामानकत्वेऽपि न मृतिमत्त्वोपयोगपरिणामो भवात धमाधमकालाकाशानाम, नापि जीवानामचतनत्वम, पुद्रलाना च अमूतत्वम् २० "अवस्थितवचनात् ।
विरोधादयुक्तमिति चत् ; न: उभयनयसद्भावात् ।। स्यादतन-परिणामानेकत्वं येपामिष्टमवस्थितत्वं चेति एतद्विमितिः तन्न; किं कारणम् ? उभयनयसभावान । धर्मादीनां सर्वेषां द्रव्याणां द्रव्यार्थिकपर्यायार्थिकाऽन्यतरगुणप्रधानभावार्पणाभदात स्थित्युत्पत्तिनिरोधात्मकमविरुद्धम।
अवस्थितविशेषणं वा नित्यग्रहणम ।। अथवा, नित्यग्रहणमिदमवस्थितविशेपणं विज्ञायते । यथा गमनागमनाद्यनकपर्यायसद्भावेऽप्यभीक्ष्णप्रजल्पनसद्भावान 'नित्यप्रजल्पितो देवदत्तः' इत्युच्यते, तथाभयकारणवशापनीतोत्पादनिरोधसंभवेऽपि अ दिस्वभावं कदाचिदपि धर्माधर्मादीनि न जहतीति नित्यावस्थितानीत्युच्यन्ते ।
क्रियावत्यनिवृत्त्यर्थमपस्थितवचनमिति चत; न: नि:क्रियाणीत्याम्नातत्वात ७ ३० स्यादतत-परिस्पन्दात्मिकायाः क्रियायाः निवृत्त्यर्थमवस्थितवचनमिति; तन्न; किं कारणम ? निष्क्रियाणीत्याम्नातत्वात ।
१ "त्य ने, व इति वक्तव्यम्"-पा० वा० ४११०४ । २ नित्यशब्देन परिणामानेकवं विवक्षितम् । ३-कगतिपरिणामो-द०, मु०। ४ अवस्थितवचनमनर्थकमित्युक्त परिणामानेकत्वादियुक्तम्, अतः प्रश्नात् किमुक्तं भवतीत्यत आह । ५ कुतः ।