________________
k
४४२ तत्त्वार्थवार्तिके
[ ३ द्रव्यलक्षणयोगादद्रव्याणीति चेत् । न नियमार्थत्वात् ।। स्यान्मतम् “उत्पादन्ययध्रौव्ययुक्तं सत्" [५।२६] इति द्रव्यलक्षणं वक्ष्यते, तेन योगाद् धर्मादीनां द्रव्यत्वं सिद्धं नार्थोऽनेन द्रव्यसंख्यानेन इति; तन्नः किं कारणम् ? नियमार्थत्वात् । नियमार्थोऽयमारम्भः । धर्माऽधर्माऽऽकाशपुद्गला जीवाश्च वक्ष्यमाणलक्षणेन कालेन सह षडेव द्रव्याणीति । तेनान्यवादिपरिकल्पितानां दिगादीनां निवृत्तिः सिद्धा। कथमिति चेत् ? उच्यते-पृथिव्यप्त जोवायुमनांसि पुद्गलद्रव्ये अन्तभवन्ति रूपरंसगन्धस्पर्शवत्त्वात् । वायोर्मनसश्च रूपादियोगाभाव इति चेत् ; न; रूपादिमत्त्वात् । वायुस्तावत् रूपादिमान स्पर्शवत्त्वात् घटादिवत । चक्षुरादिकरणग्राह्यत्वाभावात् रूपाद्यभाव इति चेत् ; न; परमाण्वादिषु अतिप्रसङ्गात्।
मनोऽपि द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानं तस्य जीवगुणत्वादात्मन्य१० न्तर्भावः । द्रव्यमनश्च रूपादियोगात् पुद्गलद्रव्यविकारः। तद्योगाभावोऽनुपलभ्यत्वात् इति चेत् ; परमाण्वादिषु विधर्मस्वपि वृत्तेः संशयहेतुत्वम् ।
रूपादिमन्मनो ज्ञानोपयोगकरणत्वात् चक्षुरिन्द्रियवत् । अमूर्तेऽपि शब्दे ज्ञानोपयोगकरणत्वदर्शनात् व्यभिचारी हेतुरिति चेत् ; न; तस्य पौगलिकत्वात् मूर्तिमत्त्वोपपत्तेः। परमाण्वादीना
मतीन्द्रियत्वेऽपि रूपादिमत्कार्यदर्शनात् रूपादिमत्त्वमनुमीयते न तथा वायूनां मनसां च १५ रूपा दिमत्कार्यमुपलभ्यते यतोऽवसीयते रूपादिमत्त्वमेषामिति चेत् ; न; तेपाम पि तदुपपत्तेः ।
सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यताभ्युपगमात् । न च केचित् पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति; जातिसंकरेण आरम्भदर्शनात् । दिशोऽध्याकाशे अन्तर्भावः आदित्योदयाद्यपेक्षया आकाशप्रदेशपङक्तिपु इत इदमिति व्यवहारोपपत्तेः।
जीवा इति वहुवचनं वैविध्यख्यापनार्थम् ।३। जीवा इति वहुवचनं क्रियते वैविध्यख्या२० पनार्थम् । विविधा हि जीवाः संसारिणो मुक्ताश्चेति । संसारिणोऽपि गतीन्द्रियादिचतुर्दशमार्गणा
स्थानविकल्पात् मियादृष्टयादिचतुर्दशगुणस्थानभेदात सूक्ष्मबादरादिचतुर्दशजीवस्थानविकल्पाच्च विविधाः । मुक्ताश्च एकद्वित्रिःचतुःसंख्येयासंख्येयानन्तसमयसिद्धपर्यायभेदाश्रयात् मुक्तिहेतुशरीराकारानुविधायिस्वक्षेत्रपरक्षेत्रावगाहनादिभेदाच्च विविधाः ।
एकयोग इति चेत् ;न; जीवानामेव प्रसङ्गात ।। स्यान्मतम-एक एव योगः कर्तव्यः २४ द्रव्याणि जीवा इति । एवं च सति चशब्दाकरणात लविति; तन्न: कि कारणम? जीवानामेव प्रसङ्गात् । तथा सति जीवा एव द्रव्याणि न धर्मादीनि इत्यनिष्टमासज्यते ।
बहुवचनादिति चेत् ; न; उक्तत्वात् ।६। स्यादेतद्-द्रव्याणीति बहुवचनात् धर्मादीनां जीवानां च द्रव्यसंज्ञा सिद्ध्यतीति; तन्न, किं कारणम् ? उक्तत्वात् । उक्तमेतत् 'जीवा इति बहु
वचनं वैविध्यख्यापनार्थम्' इति । तत्सामानाधिकरण्यात् द्रव्याणि इति बहुवचनं न्यायप्राप्तम् इति ३० इति न ततो धर्मादिगतिः ।
अधिकारादिति चेत; नः उक्तत्वात ७ स्यादेतत्-"अजीवकायाः धर्माधर्माकाशपुद्गलाः" [५।१] इत्यजीवाधिकारात् एकयोगेऽपि जीवाजीवयोव्यसंज्ञा सेत्स्यति इति; तन्नः किं कारणम् ? जीवावबद्धत्वात् । द्रव्यशब्दोऽयं जीवावबद्ध इति जीवानामेव द्रव्यसंज्ञा प्राप्नोति ।
. १ सूत्रेण । २ वैशेपिकादि-सम्पा० । ३ रूपादियोगाभावः-स०।४-पलभ्यमानत्वात् मु०, द०, ब०। ५ अनुपलभ्यत्वादिति हेतोः । ६ स्वमतमाश्रित्याह परः। ७ कथम् । ८ तद्यथा । है कालान्तरेण । १० कुतः। ११ चन्द्रकान्तपाषाणादपं जायते, सूर्यकान्तादग्निः काष्ठाच्च जलान्मौक्तिकमित्यादि । ।