________________
१३]
. पञ्चमोऽध्यायः 'द्रव्यं भव्ये' इत्ययमपि द्रव्यशब्दः कान्तवादिनां न संभवति; स्वतोऽसिद्धरय द्रव्यस्य भव्यार्थासंभवात् । संसर्गवादिनस्तावत् गुणकर्मसत्ताद्रव्यत्वादिसामान्यविशेषेभ्यो द्रव्यस्यात्यन्तमन्यत्वे खरविपाणकल्पस्य स्वतोऽसिद्धत्वात् न भवनक्रियायाः कर्तृत्वं युज्यते । परतः सिद्धिरपि स्वतोऽसिद्धस्य न संभवति खरविषाणवत् । गुणसमुदायमात्रत्वेऽपि समुदायस्य संवृत्या कल्पितस्याऽसत्त्वात् गुणानां च प्रत्येकं अनुपलभ्यत्वात् तदव्यतिरेकाच्चाऽसत्त्वमिति भवनक्रियायाः ५ कर्तृता दुरुपपादा । अनेकान्तवादिनस्तु गुणसंद्रावो द्रव्यम् , द्रव्यं भव्य इति चोपपद्यते, पर्यायिपर्याययोः कथश्चिद्भदोपपत्तेरित्युक्तं पुरस्तात् ।
धर्मादिसामानाधिकरण्याद्वहुवचनम् ।१३। प्रकृताः धर्मादयो बहवः तत्सामानाधिकरण्याद् बहुवचनेन निर्देश क्रियते । धर्मादीन्येव द्रव्याणि नान्यानीति ।
पुल्लिङ्गप्रसङ्ग इति चेत् न; आविष्टलिङ्गत्वात् ।१४। स्यादेतत्-यदि तत्सामानाधि- १० करण्याद्वहुवचनं क्रियते तत एव पुल्लिङ्गमपि प्राप्नोति इति । ते हि अजीवकाया उक्ताः पुल्लिङ्गा इति; तन्न; किं कारणम् ? आविष्टलिङगत्वात् । आविष्टो ह्ययं द्रव्यशब्दः वचनादिवत् स्वलिङ्गं न जहाति ।
अनन्तरत्वाञ्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्ग अन्यावापार्थमिदमुच्यते
जीवाश्च ॥३॥ जीवशब्दो व्याख्यातार्थः।।
जीवत्वादिति चेत्ः नः प्रतिषिद्ध त्वात् ।। स्यादेतत्-जीवत्व नाम सामान्यविशेषोऽस्ति .. तेन योगात् जीवा इति; तन्न; किं कारणम् ? प्रतिषिद्धत्वात् । द्रव्यत्ववदस्य प्रतिषेधो वेदितव्यः । किञ्च,
अनवस्थाप्रतिज्ञाहानिदोषप्रसङ्गात् ।रायो जीवत्वसंयोगाजीव इति प्रत्ययाभिधाने कल्प- २० यति स प्रष्टव्यः-जीवत्वे केन योगात् प्रत्ययाभिधानवृत्तिरिति ? तत्रापि अन्यत एवेति चेत् । अनवस्थाप्रसङ्गः । अथाऽनवस्थादोषो माक्लपत् इति जीवत्वे स्वत एव वृत्तिरभ्युपगम्यते; ननु प्रतिज्ञाहानिस्ते अर्थान्तरसंसर्गात् सर्वत्र वृत्तिरिति, तद्वज्जीवेऽपि स्यात् ।। ___ अथ मतमेतत्-जीवत्वे प्रदीपवत् स्वत एव वृत्तिरिति; जीवे कोऽपरितोषः । आह-पदार्थान्तरत्वादेव जीवजीवत्वयोः न जीवत्ववत् जीवे स्वतः प्रत्ययाभिधानसिद्धिः, यस्मात् न पदार्थान्तर- २५ धर्मः पदार्थान्तरे भवितुमर्हति पदार्थान्तरत्वादेव, अन्यथा पदार्थसंकरप्रसङ्गः, स च नास्ति, अतो नानवस्थाप्रतिज्ञाहानिदोषौ स्त इति । उच्यते- न पदार्थान्तरत्वासिद्धः। यदि जीवजीवत्वयोः पदार्थान्तरत्वमभविष्यत् अपि तर्हि धर्मसंकराभावोऽसेत्स्यत् । न तु पदार्थान्तरत्वमस्ति इत्युक्तं पुरस्तात् 'स्वतोऽसिद्धत्वात्' इति ।
किश्च, प्रतिज्ञाहानिस्ते प्रसजति यदि पदार्थान्तरधर्मः पदार्थान्तरे न भवेत् ; सत्तायाः ३० सदिति प्रत्ययाभिधानहेतुत्वलक्षणो धर्मः द्रव्यगुणकर्मसु न स्यात् । अथ योगेऽपि सत्प्रत्ययाभिधानहेतुत्वं सत्ताया एवेति चेत् ; न सन्ति द्रव्यगुणकर्माणि सत्प्रत्ययाभिधानहेतुत्वविरहात् खरविषाणवत् इत्यासक्तम्। ततः सिद्धमेतत्-जीवनक्रियापलक्षितद्रव्यविशेषविषयाऽनादिपारिणामिकी जीवसंज्ञति ।
मिथ्यारूपेण । २ लब्धत्वात् मु०, द०, ब०। अनुपलभ्यत्वं परमाणुरूपत्वात् । ३ एकवचनद्विवचनादिवत् । ४ द्रव्याणीति सूत्रस्य । ५ अन्यत्रारोपार्थम् । अन्योपादानार्थ-मु०, ब० । ६ तव ।