________________
४४० तत्त्वार्थवार्तिके
[ २ __आह-भेदे एव 'उपलभ्योपलम्भकभावो दृष्टः अग्निधूमादिषु, नाऽभेदे "स्वात्मनि वृत्तिविरोधात्। न ह्यङ्गुल्यग्रमात्मानं स्पृशति इति ? उच्यते-युज्यते अग्निधूमादिषु भिन्भेष्वेव
गभावः पृथकासद्धरूपत्वात् । न च द्रव्यगुणानां पृथक प्रसिद्धरूपता व्यतिरेकेण अनुपलब्धेः ।
यञ्चोक्तम्-स्वात्मनि वृत्तिविरोध इति; तदप्येकान्तग्रहणात् सूक्तं न भवति । दृश्यते हि स्वात्मन्यपि वृत्तिः यथा प्रदीपः स्वात्मानं प्रकाशयति, न तस्य स्वरूपप्रकाशने प्रदीपान्तरमपेक्षते । यद्यपेक्षेत; पटादिवदप्रकाशकत्वमेवाऽस्य स्यात् ।
किञ्च, तस्य तत्त्वस्योपदेष्टा स्वात्मानं वेत्ति वा, न वा ? यदि न वेत्ति; स्ववचनविरोधः"आरमन्यात्ममनसोः संयोगविशेषात् आत्मप्रत्यक्षम् ।" [वैशे. १११] इति वचनात् ।
असर्वज्ञत्वप्रसङ्गश्च । यद्यात्मानमेवासौ न वेत्ति कथम् इतरद्विजानीयात् ततोऽस्य स्वपरविशेषानभिज्ञत्वात असर्वज्ञत्वं प्रसज्यते । अथ वेत्ति; ननु स्वात्मनि वृत्तिविरोधात् इति प्रतिज्ञातं हीयते । तस्मात् स्वात्मनि वृत्त्यविरोधात् द्रव्यात्मका एव पर्यायाः द्रव्यं लक्षयन्तीति साधूक्तम ।
यो हि मन्यते-गुणसमुदायमात्रं द्रव्यं नातोऽन्यत् किश्चिदिति; तस्यापि गुणसंद्रावो द्रव्यमिति १५ एतल्लक्षणं नोपपद्यते । कुतः ? कर्तृकर्मभेदाभावादेव । गुणसमुदायमात्रद्रव्यवादिनो हि वादिनो न
गुणाः पृथक् सन्ति नापि समुदायः ततोऽन्योऽस्ति येफ कुतश्चित् भेदात् कर्तृकर्मभावों भवेत् । ननु चाऽभेदेऽपि कर्तृकर्मभावो दृष्टः यथा आत्मानं प्रदीपः प्रकाशयति इति, तत्रापि कथश्चिद् भेदेन भवितव्यम, भासुरस्य रूपस्य द्रव्यस्य च स्याद् भेददर्शनात् । यदि सर्वथैवाऽभेदः स्यात् ।
सर्व द्रव्यं भासुररूपं स्याद् भासुरस्य च द्रव्यस्य सर्वदैव ताद्रूप्यं प्रसज्येत । दृश्यते च २० मोपादिभावः।
न च समुदायकल्पना युज्यते गुणानां° पृथस्वरूपानुपलब्धेः । दृश्यते माषादीनां पृथगुपलभ्यमानरूपाणां समुदायः । नापि गुणकल्पनोपपद्यते, गुण्यते विशेष्यते यैरस्तेि गुणाः विशेपणानीत्यर्थः । न च गुणिनं विशेष्यं कश्चिदन्तरेण गुणानां गुणत्वं भवति ।
किञ्च, समुदायो गुणेभ्योऽन्यो वा स्यात् , अनन्यो वा, अवक्तव्यो वा ? अन्यत्वानन्यत्वयोः २५ विहिता दोषाः । यद्यवक्तव्यः; स्ववचनविरोधः प्रसज्यते। यदि समुदायोऽस्ति नावक्तव्यः, अथ
अवक्तव्यो न समुदायोऽस्ति, सतः संज्ञोपपत्तेः, अवक्तव्यस्य च सर्ववाग्गोचरात्यये निरात्मकत्वप्रस
ङ्गात् इति शिष्टेतरवचनवत् अन्यत्वोपपत्तेश्च । यदि वक्तव्यलक्षणा गुणाः समुदायो न वक्तव्यलक्षणः; ननु च लक्षणभेदादन्यत्वं सिद्धम् ।
किञ्च, रूपादिपरमाणुसमुदायमात्रत्वे "तुट्यादेः "धर्मान्तरस्याऽप्रादुर्भावात् , अनामतीन्द्रियस्वभावव्यतिक्रमाभावात् दृश्यमिदं भ्रान्तिरूपं स्यात् । 'सत्यमेवेदमिति चेत्, प्रत्यक्षानुमानयोः “तदाभासयोश्च अविशेषप्रसङ्गः स्यात् ।
ज्ञाप्यज्ञापक । २ कुतः । १८ यथा । “स्वात्मनि वृत्तिविरोधात् । न हि तदेव अङ्गल्यग्रं तेनैव अङ्गुल्यग्रेण स्पृश्यते, सैवासिधारा तयैवासिधारया छियते ।"-स्फुटार्थ. अभिध० पृ० ७८ । ४ दुखरू-ता०, मु०। ५ स्वात्मनि क्रियाविरोधं यो वादी वदति तस्य । ६ काभावो १०। ७ घटपटादि । ८ इदं द्रव्यम् इदं द्रव्यमिति द्रव्यसामान्यात् । ६ कल्माषादि । मण्यादि-मू०।१० कुतः । ११ गुर्वादेः मु० । गुल्यादेः द० । तुटीशब्दोऽयं कुटीपर्यायः तथा चोक्तं शाकटायनलिकानुशासने बीखिम प्रकरणे कुटीतुटीदीधितिकाकणीरात्रिच्छविनीविवेणिपेश्यश्रीरित्यादि इति । १२ श्यमानत्व । १३ स एवेदमिति मु०, २०, ब० । १४ मरुमरीचिकाद्वि-धूमायमानमशकराजि ।