________________
१०]
दशमोऽध्यायः एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शङ्काद्यतीचारविमुक्तं प्रशमसंवेगानुकम्पास्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनं सम्यग्दर्शनोपलब्धिविशुद्धं च ज्ञानमधिगम्य, निक्षेपप्रमाणनिर्देशसत्संख्यादिभिरप्युपायैर्जीवानां पारिणामिकौदयिकोपशमिकक्षायोपशमिकक्षायिकाणां भावानां स्वतत्त्वं विदित्वा चेतनाचेतनानां भोगसाधनानामुत्पत्तिप्रलयस्वभावावगमात् विरक्तो वितृष्णस्त्रिगुप्तः पश्चसमितो दशलक्षणधर्मानुष्ठानात्तत्फलदर्शनाच निर्वाणमाप्तियतनायाभिवद्धितश्रद्धासंवेगभावनाविर्भावितात्मा अनुप्रेक्षाभिः स्थिरीकृतानभिष्वङ्गः संवृतात्मा निराम्रवत्वाद् व्यपगताभिनवकर्मापचयः परिपहजयाद्वाह्याभ्यन्तरतपोऽनुष्ठानादनुभवनाच्च सम्यग्दृष्टिविरताविरतादीनां च जिनपर्यन्तानां परिणामाध्यवसानविशुद्धिस्थानान्तराणामसंख्येयगुणोत्कर्पप्राप्त्या पूर्वोपचितं कर्म निर्जरयन् सामायिकादीनां च सूक्ष्मसाम्परायान्तानां संयमविशुद्धिस्थानानामुत्तरोत्तरीपलम्भात् पुलाकादीनां च निर्ग्रन्थानां संयमानुपालनविशुद्धिस्थानविशेपाणामुत्तरोत्तरप्रतिपत्त्या घटमा- १० नोऽत्यन्तपहीणातरौद्रध्यानो धर्म्यध्यानविजयादवाप्तसमाधिवलः, शुक्लध्यानविकल्पयोश्च पृथक्त्वैकत्ववितर्कयोश्चान्यतरस्मिन् वर्तमानो नानाविधपूर्वोदितर्द्धिविशेपयुक्तः, तत्रानभिप्वक्तचित्तः, पूर्वोदितेन क्रमेण मोहादीन क्षयं नीत्वा सर्वज्ञज्ञानलक्ष्मीमनुभूय, ततः शेषकर्मक्षयाद्भववन्धनिमुक्तः निर्दग्धपूर्वोपादानेन्धनो निरुपादान इवाग्निः पूर्वोपात्तभववियोगात् हत्वभावाच्चोत्तरस्याप्रादुर्भावात् शान्तः संसारदुःखमतीत्य आत्यन्तिकमैकान्तिकं निरूपमं निरतिशयं निर्वाण- १५ सुखमवाप्नोतीति तत्त्वार्थभावनाफलमेतत् । उक्तश्च
"एवं तवपरिज्ञानाद्विरक्तस्यात्मनो भृशम् । निरास्रवत्वाच्छिन्नायां नवायां कर्मसन्तती ॥१॥ पूर्वार्जितं रुपयतो यथोक्तः क्षयहेतुभिः । संसारबीजंकास्न्यं न मोहनीयं प्रहीयते ॥ २ ॥ ततोऽन्तरायज्ञानघ्नदर्शनध्नान्यनन्तरम् । प्रहीयन्तेऽस्य युगपत्त्रीणि कर्माण्यशंपतः ॥ ३ ॥ गर्भसूच्यां विनष्टायां यथा तालो विनश्यति । तथा कर्मक्षयं याति मोहनीये क्षयं गते ॥४॥ ततः क्षीणचतुःकर्मा प्राप्तोऽथाख्यातसंयमम् । 'बीजबन्धननिर्मुक्तः स्नातकः परमेश्वरः ॥ ५ ॥ शेषकर्मफलापेक्षः शुद्धो बुद्धो निरामयः । सर्वज्ञः सर्वदर्शी च जिनो भवति केवली ॥ ६ ॥ कृस्नकर्मक्षयादूवं निर्वाणमधिगच्छति । यथा दग्धेन्धनो वह्निनिरुपादानसन्ततिः ॥ ७ ॥ दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाड्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥ ८ ॥ तदनन्तरमेवोर्ध्वमालोकान्तान् स गच्छति । पूर्वप्रयोगासङ्गत्वबन्धच्छेदोर्ध्वगौरवैः ॥६॥ कुलालचक्रडोलायामिपी चापि यथेप्यते । पूर्वप्रयोगात् कर्मेह तथा सिद्धगतिः स्मृता ॥१०॥ मृल्लेपसङ्गनिर्मोक्षायथा दृष्टोऽस्वलावुनः । कर्मसङ्गविनिमोक्षात्तथा सिद्धगतिः स्मृता ॥१६॥ एरण्डयन्त्रपेलासु बन्धरलेदाद्यथा गतिः । कर्मबन्धनविच्छेदारिसद्वस्यापि तथेप्यते ॥१२॥ ऊगौरवधर्माणो जीवा इति जिनोत्तमः । अधोगौरवधर्माणः पुद्गला इति चोदितम् ॥१३॥ यथाधस्तिर्यगृध्वं च लोटवाय्वग्नि दीप्तयः । स्वभावतः प्रवर्तन्ते तथोर्ध्वगतिरात्मनाम् ॥१४॥ अतस्तु गतिकृत्यं तेषां यदुपलभ्यते । कर्मणः प्रतिघाताच्च प्रयोगारच तदिप्यते ॥१५॥ *स्यादधस्तिर्यगृवं च जीवानां कर्मजा गतिः । ऊर्ध्वमेव स्वभावेन भवति क्षीणकर्मणाम् ॥१६॥ द्रव्यस्य कर्मणो यद्वदुत्पत्यारम्भवातयः" । समं तथैव सिद्धस्य गतिौ भवक्षयात् ॥१७॥ उत्पत्तिश्च विनाशश्व प्रकाशतमसोरिह । युगपद्भवतो यद्वत्तथानिर्वाणकर्मणोः ॥१८॥
1 अपरिभवः-५० टि.। २ सम्यक्त्वज्ञानचारित्र संयुनस्या-मु०।३ घाति-श्र० टि०। ४-ग्निवीतयः मु०, द०, ब०, ज० । विरुद्धगमनाः । ५ संसारे तिर्यगादि-० टि०। ६ जीवानाम्-श्र० टि। ७ अधस्तिर्यगृवं च मू०, ज०, द०, ब। अधस्तिर्यकतार्ध मु०।देवादीनामधोगमनादि-श्र0 टि।
व्यकर्मणः-५० टि.। १० अकर्मरूपेणोत्पत्तिः जीवप्रदेशानिर्गमनमारम्भः-श्र० टि० ।