________________
६५०
तत्त्वार्थवार्तिके
१०।६] तन्वी मनोज्ञा सुरभिः पुण्या परमभासुरा । प्राग्भारा नाम वसुधा लोकमूनि व्यवस्थिता ॥१६॥ नृलोकतुल्यविष्कम्भा सितच्छत्रनिभा शुभा । ऊर्ध्व तस्याःक्षितेः सिद्धा लोकान्ते समवस्थिताः ॥२०॥ तादात्म्यादुपयुक्तास्ते केवलज्ञानदर्शने । सम्यक्त्वसिद्धतावस्थाः हेत्वभावाच्च निष्क्रियाः॥२१॥ ततोऽप्यूर्ध्वगतिस्तेषां कस्मानास्तीति चेन्मतिः। धर्मास्तिकायस्याभावात्स हि हेतुर्गतेः परः ॥२२॥ संसारविषयातीतं सिद्धानामव्ययं सुखम् । अव्याबाधमिति प्रोक्तं परमं परमर्पिभिः ॥२३॥ स्यादेतदशरीरस्य जन्तोनष्टारकर्मणः । कथं भवति मुक्तस्य 'सुखमित्यत्र मे शृण ॥२४॥ लोके चतुबिहार्थेषु सुखशब्दः प्रयुज्यते । विषये वेदनाभावे विपाके मोक्ष एव च ॥२५॥ सुखो वह्निः सुखो वायुर्विषयेविह कथ्यते । दुःखाभावे च पुरुषःसुखितोऽस्मीति भाषते ॥२६॥ पुण्यकर्मविपाकाच्च सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच्च मोक्षे सुखमनुत्तमम् ॥२७॥ सुषुप्तावस्थया तुल्या केचिदिच्छन्ति निर्वृतिम् । तदयुक्तं क्रियावत्त्वात् सुखानुशयतस्तथा ॥२८॥ श्रमलममदव्याधिमदनेभ्यश्च संभवात् । मोहोत्पत्तिविपाकाच्च दर्शनघ्नस्य कर्मणः ॥२६॥ लोके तत्सदृशो ह्यर्थः कृत्स्नेऽप्यन्यो न विद्यते । उपमीयत तयेन तस्मान्निरुपमं स्मृतम् ॥३०॥ लिङ्गप्रसिद्धः प्रामाण्यमनुमानोपमानयोः । अलिङ्गं चाऽप्रसिद्धं च तत्तेनानुपमं स्मृतम् ॥३॥ प्रत्यक्षं तद्भगवतामहंतां तैश्च भाषितम् । गृह्यतेऽस्तीत्यतः प्राज्ञैर्न छद्मस्थपरीक्षया ॥३२॥ इति तत्स्वार्थसूत्राणां भाष्यं भापितमुत्तमैः । यत्र सन्निहितस्तर्कन्यायागमविनिर्णयः ॥३३॥"
इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे दशमोऽध्यायः समाप्तः ।
[ समाप्तोऽयं ग्रन्थः]
-
सुखमित्युत्तरं शृ-मु०।२ पश्चात्तापतः-श्र० टि० । ३ अत्यन्तम्चा प्र-मु०, द०, ब०, ज० । ४ इमे द्वात्रिंशत् श्लोकाः त. भाष्ये (१०७) जयधवलायां तत्त्वार्थसारे च मोक्षतत्त्ववर्णने उपलभ्यन्ते । ५ श्लोकोऽयं नास्ति मु०,९०, ब०, ज०। ६ साक्षात्कृतः-श्र.टि.।