________________
६४८ तत्त्वार्थवार्तिके
[ १०६ सर्वस्तोका ऊर्वलोकसिद्धाः । अधोलोकसिद्धाः संख्येयगुणाः । तिर्यग्लोकसिद्धाः संख्येयगुणाः । सर्वस्तोकाः समुद्रसिद्धाः । द्वीपसिद्धाः संख्येयगुणाः। एवं तावदविशेषेण । विशेषेण च सर्वस्तोकाः लवणोदसिद्धाः। कालोदसिद्धाः संख्येयगुणाः । जम्बूद्वीपसिद्धाः संख्येयगुणाः । धातकीकण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपार्द्धसिद्धाः संख्येयगुणा इति ।
कालविभागस्त्रिविधः-उत्सर्पिणी अवसर्पिणी अनुत्सर्पिण्यनवसर्पिणी चेति । सर्वस्तोका उत्सर्पिणीसिद्धाः । अवसर्पिणीसिद्धाः विशेषाधिकाः । अनुत्सर्पिण्यवसर्पिणीसिद्धाः संख्येयगुणाः । प्रत्युत्पन्ननयापेक्षया एक समये सिद्धचन्तीति नास्त्यल्पबहुत्वम् ।
['अन्तरम्-सर्वस्तो] काः अष्टसमयानन्तरसिद्धाः । सप्तसमयानन्तरसिद्धाः संख्येयगुणाः । [एवमा द्विस] मयानन्तरसिद्धेभ्यः । एवं तावदनन्तरेषु । सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तर१० सिद्धाः । [एकसमया] न्तरसिद्धाः संख्येयगुणाः । यवमध्यान्तरसिद्धाः संख्येयगुणाः। अधस्ताद् यवमध्यान्तरसिद्धाः संख्येयगुणाः । उपरियवमध्यान्तरसिद्धा विशेषाधिकाः।
गतिं प्रति-प्रत्युत्पन्नभावप्रज्ञापननयस्य सिद्धिगतौ सिद्धयन्तीति नास्त्यल्पबहुत्वम् । भूतविषयनयापेक्षया वानन्तरगतौ मनुष्यगतौ सिद्ध्यन्तीति नास्त्यल्पबहुत्वम् । एकान्तरगतौ तु अल्प
बहुत्वमस्ति । सर्वतः रतोकास्तिर्यग्योन्यनन्तरगतिसिद्धाः, मनुष्ययोन्यनन्तरगतिसिद्धाः संख्येय१५ गुणाः, नरकयोन्यनन्तरगतिसिद्धाः संख्येयगुणाः, देवयोन्यनन्तरगतिसिद्धाः संख्ययगुणा इति ।
वेदानुयोगे-प्रत्युत्पन्ननयाश्रयणे अवेदाः सिद्ध्यन्तीति नास्त्यल्पबहुत्वम् । भूतविषयनयाश्रयणे तु सर्वतः स्तोकाः नपुंसकवेदसिद्धाः । स्त्रीवेदसिद्धाः संख्येयगुणाः । पुंवेदसिद्धाः संख्येयगुणाः ।
तीर्थानुयोगे'-तीर्थकरसिद्धाः अल्पे । इतरे सिद्धाः संख्येयगुणाः।
चारित्रानयोगे-प्रत्युत्पन्ननयापेक्षया अव्यपदेशेन सिद्ध्यन्तीति नास्त्यल्पबहुत्वम् । भूतविषयनयाश्रयणे च अनन्तरचारित्रपरिग्रहे यथाख्यातचारित्राः सर्वे सिद्ध्यन्तीति नास्त्यल्पबहत्वम् । व्यवधाने च पञ्चचारित्रसिद्धाः अल्पे । चतुश्चारित्रसिद्धाः संख्ययगुणाः।
प्रत्येकबुद्ध-बोधितबुद्धानुयोगे-अल्पे प्रत्येकबुद्धाः । बोधितबुद्धाः संख्येयगुणाः।
ज्ञानानुयोगे-प्रत्युत्पन्नभावप्रज्ञापनस्य केवली सिद्ध्यतीति नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनस्य सर्वस्तोका द्विज्ञानसिद्धाः । चतुर्ज्ञानसिद्धाः संख्येयगुणाः । त्रिज्ञानसिद्धाः संख्येयगुणाः । २५ एवं तावदविशेषेण । विशेषेण च सर्वस्तोकाः मतिश्रुतमनःपर्ययज्ञानसिद्धाः । मतिश्रुतज्ञानसिद्धाः
संख्येयगुणाः । मतिश्रुतावधिमनःपर्ययज्ञानसिद्धाः संख्येयगुणाः । मतिश्रुतावधिज्ञानसिद्धाः संख्येयगुणा इति ।
___ अवगाहनानुयोगे-सर्वस्तोकाः जघन्यावगाहनसिद्धाः । उत्कृष्टावगाहनसिद्धाः संख्येयगुणाः । यवमध्यसिद्धाः संख्येयगुणाः। अधरताद्यवमध्यसिद्धाः संख्येयगुणाः। उपरि यवमध्यसिद्धा ३० विशेषाधिकाः।।
संख्यानुयोगे-सर्वस्तोकाः अष्टशतसिद्धाः । अष्टोत्तरशतसिद्धादयः आपञ्चाशत्सिद्धेभ्यः अनन्तगुणाः । एकान्नपश्चाशत्सिद्धादयः आपञ्चविंशतिसिद्धेभ्यः असंख्येयगुणाः । चतुर्विंशतिसिद्धादयः आ एकसिद्धेभ्यः संख्येयगुणाः ।
१ तुलना-"अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः । सप्तसमयानन्तरसिद्धाः षट्समयानन्तरसिद्धाः इत्येवं यावद् द्विसमयानन्तरसिद्धाः इति संख्येयगुणाः । एवं तावदनन्तरेषु । सान्तरेष्वपि सर्वस्तोकाः षष्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः संख्येयगुणाः, यवमध्यान्तरसिद्धाः संख्येयगुणाः, अधस्ताद् यवमध्यातरसिद्धाः संख्येयगुणाः, उपरियवमध्यान्तरसिद्धाः विशेषाधिकाः, सर्वे विशेषाधिकाः"-तक भा० १०७। २ प्रश्म-श्र० टि०।३ सप्तोत्तरशतसि- मू।