________________
१०६ ] दशमोऽध्यायः
६४७ सग्रन्थलिङ्ग चेति । तत्र प्रत्युत्पन्नविपयनयादेशेन निम्रन्थलिङ्गन सिद्धयति । भूतविपयनयादेशेन तु भजनीयम् । तीर्थेन ? ___तीर्थसिद्धिद्वैधा-तीर्थकरेतरविकल्पात् ।६। तीर्थसिद्धिधा भवति-तीर्थकरत्वेनेतरत्वेन च । सन्ति केचित्तीर्थकरसिद्धाः अपरेऽन्यथा सिद्धाः । ते द्वेधा सत्येव तीर्थकरे सिद्धाः, असति चेति । चारित्रेण केन सिद्धथति ? _ अव्यपदेशेनकचतुःपञ्चविकल्पचारित्रेण या सिद्धिः ।७। प्रत्युत्पन्नावलेहिनयवशान्न चारित्रेण नाप्यचारित्रेण व्यपदेशविरहितेन भावेन सिद्धिः । भूतपूर्वगतिर्द्विधा-अनन्तर-व्यवहितभेदात् । आनन्तर्येण यथाख्यातचारित्रेण सिद्ध्यति, व्यवधानेन चतुर्भिः पञ्चभिर्वा । चतुर्भिस्तावत् सामायिकच्छेदोपस्थापनासूक्ष्मसाम्पराययथाख्यातचारित्रैः । पञ्चभिस्तै रेव परिहारविशुद्धिचारित्राधिकैः ।
स्वशक्तिपरोपदेशनिमित्तज्ञानभेदात् प्रत्येकवुद्धबोधितविकल्पः ।। केचित्प्रत्येकवुद्धसिद्धाः; परोपदेशमनपेक्ष्य स्वशक्त्यैवाविर्भूतज्ञानातिशयाः । अपरे बोधितवुद्धसिद्धाः, परोपदेशपूर्वकज्ञानप्रकर्षास्कन्दिनः । ज्ञानेन ? ___एकेन द्वित्रिचतुर्भिश्च ज्ञानविशेपैः सिद्धिः ।६। प्रत्युत्पन्नग्राहिनयनिरूपणया केवलज्ञानेनैकेन सिद्धिर्भवति । भूतपूर्वगत्या तु द्वाभ्यां त्रिभिश्चतुर्भिश्च ज्ञानविशेषैर्भवति । द्वाभ्याम्-मतिश्रुत- १५ ज्ञानाभ्याम् , त्रिभिर्मतिश्रुतावधिभिः मतिश्रुतमनःपर्ययर्वा, चतुर्भिर्मतिश्रुतावधिमनःपर्ययः ।
अवगाहनं द्विविधम्-उत्कृष्टजघन्यभेदात् ।१०। आत्मप्रदेशव्यापित्वमवगाहनं द्विविधम्उत्कृष्टं जघन्यं चेति । तत्रोत्कृष्टं पञ्चधनुःशतानि पञ्चविंशत्युत्तराणि । जघन्यम् अर्द्धचतुर्थारत्नयः देशोनाः । मध्ये विकल्पाः । एतस्मिन्नवगाहे सिद्ध्यन्ति पूर्वभावप्रज्ञाननयापेक्षया । प्रत्युत्पन्नभावप्रज्ञापने तु एतस्मिन्नं व देशोने । किमन्तरं सिद्धयताम् ? अनन्तरं च सिद्ध्यन्ति सान्तरश्च ।।
अनन्तरं जघन्येन द्वौ समयो उत्कणाष्टौ ।११। आनन्तर्येण जघन्येन द्वौ समयौ सिद्ध्यन्ति उत्कर्पणाष्टौ ।
अन्तरं जयन्येनैकः समयः उत्कर्षेण पण्मासाः ।१२। सिद्धयतां सिद्धिविरहकालोऽन्तरम् । तत् जघन्येनैकसमयः, उत्कर्पण पण्मासाः प्रत्येतव्याः ।
जघन्येन एक उत्कर्षण अष्टशतमिति संख्या ।।३। एकसमये कति सिद्धयन्ति ? जघन्ये- २५ नैकः उत्कर्पगाष्टशनमिति संग्ख्या अवगन्तव्या।
क्षेत्रादिभेदभिन्नानां परस्परतः संख्याविशेषः अल्पय हुत्यम् ।१४। क्षेत्रादिभिरेकादशभिरनुयोगद्वारैः भिन्नानां परस्परतः संख्याविशेषोऽल्पबहुत्वमित्युच्यते । तद्यथा-प्रत्युत्पन्ननयापक्षया सिद्धिक्षेत्र सिद्धयन्तीति नास्त्यल्पबहुत्वम् । भूतपूर्वनयापेक्षया तु चिन्त्यते-क्षेत्रसिद्धाः द्विधा-जन्मतः संहरणतश्च । तत्राल्पे संहरणसिद्धाः । जन्मसिद्धाः संख्येयगुणाः । संहरणं द्विवि- ३० धम-स्वकृतं परकृतं च । देवकर्मणा चारणविद्याधरैश्च कृतं परकृतम । स्वकृतं चारणविद्याधराणामेव । तेपां च क्षेत्राणां विभागः-कर्मभूमिः अकर्मभूमि: समुद्रो द्वीप ऊर्ध्वमधस्तिर्यगिति ।
१ मेघपटलादिकं माटकृटाद्याकारं क्षणदृष्टप्रणष्टमेकं प्रत्यपरोपदेशमन्तरेण स्वशक्त्यैव कामभोगादिभ्यो यो विरक्तबुद्धिर्जायते स प्रत्येकबुद्ध इत्याख्यायते-श्र० टि.। २ यः पुनः कामभोगाद्यासक्तचित्तः परेण बोधितः सन् कामभोगादिभ्यो विरक्तबुद्धिर्जायते स बोधितबुद्धः-श्र०टि० । ३ तेऽप्यनन्ताः-श्र०टि०।४ संख्येयगुणा अनन्ता इत्यर्थः, एवमुत्तरत्रापि योज्यम्-१० टि०।