________________
५
६४६
तस्वार्थवार्तिके
[ १०१६-६
तदभावे तस्याप्यभावः प्राप्नोतीति; तन्नः किं कारणम् ? गत्यन्तरनिवृत्त्यर्थत्वात् । मुक्तरयोर्ध्वमेव गमनं न दिगन्तरगमनमित्ययं स्वभावो नोर्ध्वगमनमेवेति ।
१५
ऊर्ध्वज्वलनवा |१०| यथा ऊर्ध्वज्वलनस्वभावत्वेऽप्यग्नेर्वे गवद्द्रव्याभिघातात्तिर्यग्ज्वलनेऽपि नाऽग्नेर्विनाशो दृष्टस्तथा मुक्तस्योर्ध्वगतिस्वभावत्वेऽपि तदभावे नाऽभाव इति ।
अत्राह-ऊर्ध्वज्वलनस्वभावस्याग्नेर्वेगवदभिघातात्तिर्यग्ज्वलने सति विरोधादूर्ध्वज्वलनाभावो युक्तः, मुक्तस्य तु पुनः स्वभावगतिलोप हेत्वभावादूर्ध्वगत्युपरमोऽनुपपन्न इति; उच्यते लोकान्तान्नोर्ध्वगतिर्मुक्तस्य । कुतः ?
धर्मास्तिकायाभावात् ॥ ८ ॥
गत्युपकारणभूतो धर्मास्तिकायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च लोका१० लोकविभागाभावः प्रसज्यते ।
किं पुनरमी परिनिर्वृत्ताः कार्मणशरीरोपशमकादिभावनिरुपाख्याः पर्यायान्तरेण शक्याः व्यपदेष्टुम् उतातीतव्यवहारा एव निर्धारयितव्या इति ? उच्यते शक्याः । कथम् ? यस्मात्ते खलुक्षेत्र कालगतिलिङ्गतीर्थचारित्र प्रत्येक बुद्ध बोधितज्ञानावगाहनान्तर संख्यात्यबहुत्वतः साध्याः ॥ ९ ॥
प्रत्युत्पन्नभूतानुग्रहतन्त्रनयद्वयापेक्षया क्षेत्रादिभिः साध्याः सिद्धाः ॥१। एतैः क्षेत्रादिभिरल्पबहुत्वा तैर्द्वादशभिरनुयोगद्वारैः प्रत्युत्पन्नभूतानुग्रहतन्त्रनयद्वयापेक्षया साध्याः चिन्त्या विकयाः । के पुनस्ते ? सिद्धाः । तद्यथा क्षेत्रेण तावत् कस्मिन् क्षेत्रे सिद्ध्यन्ति ?
सिद्धिक्षेत्रे कर्मभूमिषु वा १२ प्रत्युत्पन्नविपयग्राहिनयार्पणेन सिद्धिक्षेत्रे स्वप्रदेशे, आकाशप्रदेशे वा सिद्धिर्भवति । भूतानुग्रहतन्त्रनयविवक्षायां जन्म प्रति पञ्चदशसु कर्मभूमिषु, संहरणं २० प्रति मानुषक्षेत्रे सिद्धिः । ऋजुसूत्रनयः शब्दभेदाश्च त्रयः प्रत्युत्पन्नविपयग्राहिणः शेषा नया उभयभावविपयाः । कालेन कस्मिन्काले सिद्धि: ?
एकसमये उत्सर्पिण्यवसर्पिण्योर्वाऽविशेषे | ३| प्रत्युत्पन्ननयापेक्षया एकसमये सिद्ध्यन् सिद्धो भवति । भूतभावप्रज्ञापननयार्पणया द्वेधा - जन्मनः (तः ) संहरणतश्च । तत्र जन्मतः अविशेषेण उत्सर्पिण्यवसर्पिण्यार्जातः सिद्धयति । विशेषेणा अवसर्पिण्यां सुपमदुःपमाया अन्ते भागे दुःषमसुप२५ मायां च जातः सिद्ध्यति । दुःपमसुपमायां जातः दुःपमायां सिद्धयति न तु दुःपमायां जात:, [स] अन्यदा नैव सिद्ध्यति । संहरणतः सर्वस्मिन् काले अवसर्पिण्यामुत्सर्पिण्यां च सिद्धति । गत्या कस्यां गतौ सिद्धि: ?
सिद्धिगती मनुष्यगतौ वाऽविशेषः |४| प्रत्युत्पन्ननयाश्रयणेन सिद्धिगतौ सिद्धयति । भूतविपयनयापेक्षया द्विधा कल्पना - अनन्तरगती एकान्तरगतौ चेति । तत्रानन्तरगतौ मनुष्य३० गतौ सिद्धयति । एकान्तरगतौ चतसृपु गतिषु जातः सिद्धयति । लिङ्गेन-केन सिद्धि: ? लिङ्ग त्रिविधो वेदः ।
अवेदत्वेन त्रिभ्यो वा वेदेभ्यः सिद्धिः |५| वर्तमानविपयनयविवक्षायामवेदत्वेन सिद्धिभवति । अतीतगोचरतयापेक्षया अविशेषेण त्रिभ्यो वेदेभ्यः सिद्धिर्भवति भावं प्रति, न तु द्रव्यं प्रति, द्रव्यापेक्षया तु पुल्लिङ्गेनैव सिद्धिः । अपरः प्रकारः - लिगं द्विविधम्-निर्ग्रन्थलिङ्गं
१ लोकाद्वहिर्गमनाभावे - श्र० टि० । २ लक्षणविरहात् श्र० टि० । ३ ऊर्ध्वगमन - ता०, मू० श्र०, आ० ॥ ४ वायु ध० टि० | ५ धर्मास्तिकायस्याभावे श्र० टि० ।