________________
१०।६-७] दशमोऽध्यायः
६४५ आङभिविध्यर्थः । ईष ष दृष्टप्रयोगः आडिह विवक्षावशादभिविधौ वेदितव्यः । लोकस्यान्तो लोकान्त आलोकान्तादिति ।
आह-अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमिति ? अत्रोच्यतेपूर्वप्रयोगादसङ गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥ ६ ॥ आह-हेत्वर्थः पुष्कलोऽपि दृष्टान्तसमर्थनमन्तरेणाभिप्रेतार्थसाधनाय नालमिति; उच्यते- ५ आविद्धकुलालचक्रवद् व्यपगतलेपालाबुवदेरण्डबीजवद
ग्निशिखावच्च ॥७॥ हेतुदृष्टान्तानां यथासंख्यमभिसंबन्धः ।। पूर्वसूत्रे विहितानां हेतूनामत्रोक्तानां दृष्टान्तानां . च यथासंख्यमभिसंबन्धो भवति । तद्यथा
अपवर्गप्राप्तये बहुशः प्रणिधानादाविद्धकुलालचक्रवत् ।२। यथा कुलालप्रयोगापादितहस्त- १० दण्डचक्रसंयोगपूर्वकं भ्रमणमुपरतेऽपि तस्मिन् पूर्वप्रयोगादासंस्कारक्षयाद्भवति एवं भवस्थेनात्मना अपवर्गप्राप्तये बहुशो यत् प्रणिधानं तदभावेऽपि तदावेशपूर्वकं मुक्तस्य गमनमवसीयते । किञ्च,
असङगत्वान्मुक्तलेपालावूद्रव्यवत् ।३। यथा मृत्तिकालेपजनितगौरवमलाबूद्रव्यं जलेऽधः पतति तदेव क्लेदविश्लिष्टमृत्तिकाबन्धनं लघु सदूर्ध्वमेव गच्छति तथा कर्मभाराकान्तवशीकृत आत्मा तदावेशवशात् संसारे नियमेन गच्छति, तत्सङ्गविप्रमुक्तौ तूपर्येव 'याति ।
१५ अनियमप्रसङ्गो दण्डवदिति चेत् ; न ऊर्ध्वगौरवात् ।। स्यादेतत्-यथा द्रव्यान्तरसंसक्तो दण्डोऽवस्थितस्तदभावेऽनियमेन पतति तथा कर्मसङ्गाभावेऽनियमेनात्मनोऽपि गमनं प्राप्नोतीति; तन्न; किं कारणम् ? ऊर्ध्वगौरवात् । ऊर्ध्वगौरवपरिणामो हि जीव उत्पतत्येव । किञ्च,
बन्धच्छेदादेरण्डयोजघत् ।। यथा बीजबन्धकोशादिच्छेदादेरण्डबीजस्य गतिर्दृष्टा तथा मनुष्यादिभवप्रापकगतिजातिनामादिसकलकर्मबन्धच्छेदात् मुक्तस्य गतिरवसीयते । किञ्च,
तथागतिपरिणामाच्च अग्निशिखावत् ।६। यथा तिर्यपवनस्वभावसमीरणसंबन्धनिरुत्सुका प्रदीपशिखा स्वभावादुत्पतति तथा मुक्तात्माऽपि नानागतिविकारकारणकर्मनिवारणे सति ऊर्ध्वगतिस्वभावत्वादूर्ध्वमेवारोहति ।
__ असङ्गत्वबन्धच्छेदयोराविशेषादनुवादप्रसङ्ग इति चेत् ; न; अर्थान्यत्वात् ।। स्यादेतत्-असङ्गत्वबन्धच्छेदयो स्त्यर्थविशेष इति पौनरुक्त्यं प्राप्नोति, 'बध्नातिरपि व्यतिषड्ने २५ वर्तत इति; तन्न किं कारणम् ? अर्थान्यत्वात् । अन्योन्यानुप्रवेशे सत्यविभागेनावस्थानं बन्धः, परस्परप्राप्तिमात्रं सङ्ग इत्यस्त्यर्थविशेषः । तस्माक्रियाकारणधर्माधर्माभावेऽपि हेत्वन्तरान्मुक्तस्य गतिरभ्यनुज्ञायते ।
नोदाहरणमलार्मारुतायेशादिति चेत् ; न; तिर्यग्गमनप्रसङ्गात् ।। स्यादेतत्-अलाबूद्रव्यं मुक्तगमनसिद्धाबुदाहरणं न भवति; कुतः ? मारुतावेशादिति; तन्न; किं कारणम् ? तिर्यग्गमन- ३० प्रसङ्गात् । यदि मारतावेशात्तस्यं गमनं म्यात्तिर्यपवनधर्मत्वान्मरुतस्तिर्यग्गमनमेव स्यान्नोर्ध्वम ।
ऊर्ध्वगत्यभावे तदभावप्रसङगोऽग्नेरोपण्याभावेऽभाववदिति चेत्, न; गत्यन्तरनिवृत्त्यर्थत्वात् ।। स्यान्मतम-यथोष्णस्वभावल्याग्नेरौष्ण्याभावेऽभावस्तथा मुक्तस्योर्ध्वगतिस्वभावत्वे
ऊर्ध्व गच्छत्येव-ता. टि.। २ द्वयोरन्यतमेन पर्याप्तत्वात्-श्र० टि०। ३ यस्मात्-श्र० टि० । ४ पुण्य-पाप-श्र० टि० । ५ जीवस्य-५० टि० ।