________________
५
तत्वार्थवार्तिके
[ १०५
मूर्त्तिमद्वैधर्म्यादिति चेत्; न; उभयलक्षणप्राप्तत्वात् | १५ | स्यान्मतम् - मूर्त्तः प्रदीपप्रकाशः अमूर्त्तस्यात्मनः संहरणविसर्पणधर्मत्वे साध्ये दृष्टान्तो नोपपद्यते इति; तन्न; किं कारणम् ? उभयलक्षणप्राप्तत्वात् । उपयोगस्वलक्षणापेक्षया अमूर्त्तः, बन्धपरिणामापेक्षया मूर्त्तः । उक्तं च
૧૪
२५
"बंधं पडि एक्कसं लक्खणदो हवदि तस्स णाणतं तम्हा अमुत्तिभावो णेयन्तो होदि जीवस्स ॥” [
तस्मात्कथचिन्मूर्त्तत्वोपपत्तेः साम्यमेव दृष्टान्तेन ।
अनित्यत्वप्रसङ्ग इति चेत्; न; तावन्मात्रस्य निर्दिदिक्षितत्वाश्चन्द्रमुखीवत् । १६ । स्यादेतत्-संहरणविसर्पणधर्मत्वादेव प्रदीपप्रकाशवदनित्यत्वं प्राप्नोत्यात्मन इति; तन्न; किं कारणम् ? १० तावन्मात्रस्य निर्दिदिक्षितत्वात् । यथा चन्द्रमुखी कन्येति बहवश्चन्द्रे गुणाः, या चासौ प्रियदर्शता साम्यते तथा प्रदीपप्रकाशेऽनित्यत्वादिषु बहुषु धर्मेषु सत्स्वपि सङ्कोच विकास साधर्म्यमात्र विवक्षितम् । सर्वसाधर्म्याच्च दृष्टान्ताभावप्रसङ्गः ।
३०
] इति ।
सर्वथाऽभावो मोक्षः प्रदीपवदिति चेत्; न; साध्यत्वात् ॥१७॥ स्यादेतत्-यथा वर्तिस्नेहानलसन्निपाते प्रदीपोऽनुपरतवृत्त्या प्रवर्त्तमानस्तत्क्षये न काश्चिद्दिशं विदिशं वा गच्छति तत्रैवा१५ त्यन्तविनाशमुपयाति तथा कारणवशात् स्कन्धप्रतिसन्तानरूपेण प्रवर्तमानः स्कन्धसमूहों जीवव्यपदेशभाक् क्लेशक्षयान्न काचिद्दिशं विदिशं वा गच्छति तत्रैवात्यन्तं प्रलयमेतीति; तन्न; किंकारणम् ? साध्यत्वात् । साध्यमेतत्-प्रदीपो निरन्वयनाशमुपयातीति । प्रदीपा एव हि पुद्गलाः, पुद्गलजातिमजहतः परिणामवशान्मषीभावमापन्ना इति नात्यन्तविनाशः ।
"दृष्टत्वाच निगलादिवियोगे देवदत्ताद्यवस्थानवत् | १८ | यथा निगलादिद्रव्यवियोगे २० देवदत्तादीनामवस्थानं दृष्टुं तथा बन्धविप्रमोक्षे आत्मना च स्थेयमिति दृष्टमिद मपहोतुमशक्यमिति
नाभावः ।
यत्रैव कर्मविप्रमोक्षस्तत्रैवावस्थानमिति चेत्; न; साध्यत्वात् ॥ १६ ॥ स्यादेतत्- यस्मिन्नेव देशे कर्मविप्रमोक्षस्तस्मिन्नेवावस्थानं प्राप्नोति पुनर्गतिकारणाभावादिति; तन्न; किं कारणम् ? साध्यत्वात् । साध्यमेतत्तत्रैवावस्थातव्यमिति, बन्धनाभावादनाश्रितत्वाश्च स्याद्गमनमिति ।
"
आह-न तावदस्य बन्धाभावेऽधोगतिगौरवाभावात् नापि तिर्यग्गतिर्योर्गाभावात् तस्मात्प्राप्तमेतत्तत्रैवावस्थानम्, ततो लोकस्योपरि तदवस्थानकल्पनाव्यावृत्तिरिति; उच्यते भवेदेतदेवं यद्यनभिमतदेशगति निमित्ताभाववत्तस्योर्ध्वगति निमित्तं न स्यात् । अस्ति च तत् । तस्मादेकसमयेन हि निरस्तकर्मभारः पुरुषः
तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात् ॥ ५ ॥
तद्वचनं प्रकृःनिर्देशार्थम् | १| तदित्यनेन प्रकृतोऽर्थो निर्दिश्यते । कश्च प्रकृतः ? कृत्स्नकर्मविप्रमोक्षः। तस्यानन्तरमूर्ध्वं गच्छति ।
१ - यलक्षणत्वात् भा० १ २ उद्धृतेयं गाथा स० सि० २७ । ३ “दिशं न काञ्चिद्विदिशं न काञ्चित् नैवावनिं गच्छति नान्तरिक्षम् । दीपो यथा निर्वृतिमभ्युपेतो स्नेहक्षयात् केवलमेति शान्तिम् ॥ दिशं न काञ्चिद्विदिशं न काञ्चिद् नैवावनिं गच्छति नान्तरिक्षम् । एवं कृती निर्वृतिमम्युपेतः स्नेहक्षयात् केवलमेति शान्तिम् ॥" - सौन्दर० १६२८- २६ । ४ पञ्चेन्द्रियजनितपञ्चज्ञानरूपः - श्र० टि० । ५ दीपस्तमः पुद्गलभवतोऽस्ति इत्यभिधानम् । तर्हि अस्माकं विनाशे दृष्टान्ते नास्ति भवतामपि सद्भावे दृष्टान्तो नाप्तीत्याशङ्कायाम् अस्तीत्याह श्र० टि० ।