________________
१०४] दशमोऽध्यायः
६४३ पुनर्बन्धप्रसङ्गो जानतः पश्यतश्च कारुण्यादिति चेत्, न; सर्वानवपरिक्षयात् ।। स्यादेतत्-व्यसनार्णवे निमग्नं जगदशेषं जानतः पश्यतश्च कारुण्यमुत्पद्यते ततश्च बन्ध इति; तन्नः किं कारणम् ? सर्वानवपरिक्षयात् । भक्तिस्नेहकृपास्पृहादीनां रागविकल्पत्वाद्वीतरागेन ते सन्तीति।
____ अकस्मादिति चेत् ; अनिर्मोक्षप्रसङ्गः।६। यदि कारणमन्तरेणैव मुक्तस्य बन्धः कल्प्यते ५ ननु अनिर्मोक्षः स्यात् । मुक्तिप्राप्त्यनन्तरमेव बन्धोपपत्तेः ।
स्थानवत्त्वात्पात इति चेत् ; न; अनास्रवत्वात् ।। स्यादेतत्-स्थानवत्वात् मुक्तस्य पातः
तीति; तन्न; किं कारणम् ? अनास्रवत्वात् । आस्रववतो हि यानपात्रस्याधःपतनं दृश्यते, न चालवो मुक्तस्यास्ति ।
गौरवाभावाच ।। गौरववतो हि तालफलस्य तत्प्रतिबद्धवृन्तसंयोगाभावे पतनं दृष्टं नागौ- १० रवस्याकाशप्रदेशस्य, न च गौरवमस्ति मुक्तस्येति पाताभावः। यस्य हि स्थानवत्त्वं पातकारणं तस्य सर्वेषां पदार्थानां पातः स्यात् स्थानवत्त्वाविशेषात् ।
परस्परोपरोध इति चेत् ;न; अवगाहनशक्तियोगात् ।। स्यान्मतम्-अल्पः सिद्धावगाह्य आकाशप्रदेश आधारः, आधेयाः सिद्धा अनन्ताः, ततः परस्परोपरोधं इति; तन्न; किं कारणम् ? अवगाहनशक्तियोगात् । मूर्तिमत्स्वपि नामानेकमणिप्रदीपप्रकाशेषु अल्पेऽप्यवकाशे न विरोधः १५ किमङ्ग पुनरमूर्तिषु अवगाहनशक्तियुक्तेषु मुक्तेषु ?
तत एव जन्ममरणद्वन्द्वोपनिपातव्याबाधाविरहात् परमसुखिनः ।१०। तत एव अमूर्तत्वादेवेत्यर्थः। यस्य हि मूर्तिरस्ति तस्य तत्पूर्वकः प्रीतिपरितापसम्बन्धः स्यात् , न चामूर्तानां मुक्तानां जन्ममरणद्वन्द्वोपनिपातव्याबाधाऽस्ति, अतो निर्व्याबाधत्वात् परमसुखिनस्ते ।
__ न तस्यास्त्युपमानम् , आकाशपरिमाणवत् ।११॥ यथा परमाण्ववगाहक्षेत्रमारभ्य एकै- २० कप्रदेशवृद्धथा कल्प्यमानं सातिशयं क्षेत्रमाकाशपरिमाणं पुनरिदमिवेत्युपमार्थकल्पनाभावादनुपमानं तथा सुखशब्दार्थोऽपि प्रकर्षाप्रकर्षयोगात् संसारगतः सान्तरः, मुक्तानां पुनः परमानन्तपरिमाणयोगानिरतिशय इत्यनुपमानः।
। अनाकारत्वादभाव इति चेत् ; न; अतीतानन्तरशरीराकारानुविधायित्वात् ।१२। स्थादेवत्-मुक्तानां परित्यक्तमूर्तीनामाकाराभावादभावः प्राप्नोतीति; तन्नः किं कारणम् ? अतीतानन्तर २५ शरीराकारानुविवायित्वात् ।
शरीरानुविधायित्वे तदमावाद्विसर्पणप्रसङ्ग इति चेत् ;न; कारणाभावात् ।१३। स्यान्मतम्-यदि शरीरानुविधायी जीवः, तदभावात् स्वाभाविकलोकाकाशप्रदेशपरिमाणत्वात्तावद्विसर्पणं प्राप्नोतीति; तन्नः कुतः ? कारणाभावात् , पुनर्विसर्पणकारणाभावान्न विसर्पति ।
नामकर्मसंबन्धात् संहरणविसर्पणधर्मत्वं प्रदीपप्रकाशवत् ।१४। यथा प्रदीपप्रकाशोऽ- ३० वधृतपरिमाणः शरावमानिकापवरकादिद्रव्योपष्टम्भान्महानल्पश्च भवति तथा नामकर्मसंबन्धात् परिच्छिन्नपरिमाणोऽपि जीवः संहरति विसर्पति च, तदभावान्न संहारो विसर्पणं वा मुक्तजीवस्य ।
१-तेः कस्मादिति चेत् ? अनिर्मोक्षप्रसङ्गः भा० । २-नवन्मु-ता०, १०, ज०। ३ स्थानवतां धर्मादीनाम्-श्र० टि०। ४ परस्परोपरोधे सति दुःखं जायते ततः क्रोधादिः, ततः पुनरपि बन्धः ततः दुःखसद्भावात् बन्धश्च प्राप्नोति-श्र० टि० । ५-रिदमेवे-मू०, मु०, ता०, ज०, द०, ब० । ६ सान्तः-मु०, द०, ब०, ज०। ७ अभावत्वे बन्धमोक्षाभावः-श्र० टि०। ८ विसर्पणत्वे सति नामकर्मत्वादिसद्भावात् बन्धप्रसङ्ग:-श्र टि०।
२८