________________
१०॥३-४] तत्त्वार्थवार्तिके
६४२ स्कीर्तितीर्थकरनामोचैर्गोत्रसंज्ञिकानां त्रयोदशानां प्रकृतीनामयोगिकेवलिनश्चरमसमये व्युच्छेदो भवति । ___ आह-किमासां पौगलिकीनामेव द्रव्यकर्मप्रकृतीनां निरासान्मोक्षोऽवसीयत उत भावकर्मणोऽपीति ? अत्रोच्यते
' औपशमिकादिभव्यत्वानां च ॥३॥ किम् ? मोक्ष इत्यनुवर्तते।
भव्यत्वग्रहणमन्यपारिणामिकाऽनिवृत्त्यर्थम् ।। अन्येषां जीवत्वादीनां पारिणामिकानां मोक्षावस्थायानिवृत्तिज्ञापनार्थ भव्यत्वग्रहणं क्रियते । तेन पारिणामिकेषु भव्यत्वस्य औपशमिकादीनां च भावानामभावान्मोक्षो भवतीत्यवगम्यते । ननु च द्रव्यनिरासेऽभिहिते तन्निमित्तानां भावानां निवृत्तिरर्थादवगम्यत इति नार्थोऽनेन योगेन ? नैष दोषः; नायमेकान्तः'निमित्तापाये नैमित्तिकानां निवृत्तिः' इति । अपि च, अर्थादवगमेऽपि सिद्धे साक्षात्प्रतिपत्त्यर्थमिदमुच्यते-विस्पष्टार्थ वक्ष्यमाणसूत्रनिर्देशार्थम् ।।
- आह-यद्यपवर्गो भावोपरतेः प्रतिज्ञायते, ननु चौपशमिकादिभावनिवृत्तिवत् सर्वक्षायिक
निवृत्तौ अव्यपदेशो मुक्तस्य प्राप्नोतीति; स्यादेतदेवं यदि विशेषो नोच्येत, अस्ति तु विशेष इति • १५ अपवादविधानार्थमिदमुच्यते
अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥४॥ अन्यत्रशब्दो वर्जनार्थः ।१। अन्यत्रशब्दोऽयं वर्जनाओं द्रष्टव्यः, तन्निमित्तः सिद्धत्वेभ्य इति विभक्तिनिर्देशः, यथा-"अन्यत्र द्रोणभीष्माभ्यां सर्वे योद्धाः पराङ मुखाः" [ ] इति । _ अन्यशब्दप्रयोगे तद्विज्ञानमिति चेत् ; न; स्वार्थिकत्वात् ।। स्यान्मतम्-अन्यशब्दप्रयोगे का विभक्तिर्विज्ञायते यथाऽन्यो देवदत्तादिति, अन्यत्र शब्दोऽयं तस्मानिर्देशो नोपपद्यते इति; तन्नः किं कारणम ? स्वार्थिकत्वात् । स्वार्थिकोऽयं त्रः, केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्योऽन्यस्मिन्नयं विधिरिति ।
अनन्तवीर्यादिनिप्रवृत्तिप्रसङ्ग इति चेत्, न; अत्रैवान्तर्भावात् ।३। स्यादेतत्-सम्यक्त्वादीनां चतुर्णा क्षायिकाणां संग्रहादितरेपां निवृत्तिरनन्तवीर्यादीनां प्राप्नोतीति; तन्न; किं कारणम् ? २४ अत्रैवान्तर्भावात् । ज्ञानदर्शनाविनाभाविनो ह्यनन्तवीर्यादयः अत्रैवान्तर्भवन्ति । अनन्तसामर्थ्यहीनस्यानन्तावबोधवृत्त्यभावात् , ज्ञानमयत्वाच्च सुखस्येति ।
___ वन्धस्याव्यवस्था अश्वादिवदिति चेत् ; न: मिथ्यादर्शनाद्य च्छेदे कार्यकारणनिवृत्त ।। स्यादेतत्-यथा अश्वादीनामेकस्मिन् बन्ध उच्छिन्नेऽपि पुनबन्धान्तरसंभवादव्यवस्था तथा जीव
स्यापि कस्मिंश्चिद् बन्धेऽपगतेऽपि बन्धान्तरप्रसङ्ग इति; तन्न; किं कारणम ? मिथ्या ३० कार्यकारणनिवृत्तेः । पुनर्बन्धहेत्वभावाद्वन्धाभावः ।
द्रव्यकर्मभावकर्म-श्र० टि०। २ द्रव्य-श्र० टि०। ३ भाव । चक्रभ्रमणनिमित्तदण्डापाये न चक्रभ्रमणाभावः, कुलालचक्रचीवरायभावे वा न घटाभावः । अपि तर्हि भाव एव-श्र० टि०। ४ पञ्चमी विभक्तिरित्यर्थः।