________________
१०२]
दशमोऽध्यायः आद्यभावादन्ताभाव' इति चेत् ; न; दृष्टत्वादन्त्यवीजवत् ।३। स्यान्मतम्-कर्मबन्धसन्तानस्याद्यभावादन्तेनाप्यस्य न भवितव्यम् , दृष्टेविपरीतकल्पनायां प्रमाणाभावादिति; तन्न; किं कारणम् ? दृष्टत्वादन्त्यबीजवत् । यथा बीजाकुरसन्तानेऽनादौ प्रवर्त्तमाने अन्त्यबीजमग्निनोपहताङ्करशक्तिकमित्यन्तोऽस्य दृष्टस्तथा मिथ्यादर्शनादिप्रत्ययसाम्परायिकसन्ततावनादौ ध्यानानलनिर्दग्धे कर्मबीजे भवाङ्करोत्पादाभावान्मोक्ष इति दृष्टमिदमपह्रोतुमशक्यम् । उक्तं च
"दग्धे बीजे यथाऽत्यन्तं प्रादुर्भवति नाङ्कुरः।
कर्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥" [ ] इति । कृत्स्नस्य कर्मत्वेन क्षयः कर्मक्षयः, सतो ,व्यस्य द्रव्यत्वेन विनाशो नास्ति । कथं तर्हि ? पर्यायेण, तस्योत्पत्तिमत्त्वाद्विनाशेन भवितव्यम् , तन्मुखेन द्रव्यमपि व्ययमुपयातीति व्यपदिश्यते । ततः पुद्गलद्रव्यस्य कारणवशात् कर्मत्वपर्यायमापन्नस्य तत्प्रत्यनीकहेतुसन्निधाने तत्पर्याय- १० निवृत्तौ तस्य क्षयः इत्युपदेशो भवतीति युक्तमेतत्-कृत्स्नकर्मक्षय इति ।
भावसाधनो मोनशब्दो द्विविपयो विप्रयोगक्रियामात्रगतः ।४। मोक्ष असने इत्यस्य मोक्षणं मोक्ष इति भावसाधनः शब्दो द्विविपयः मोक्तव्यमोचकापेक्षत्वात् । कुतः ? विप्रयोगक्रियामात्रगतेः। कृत्स्नशब्देन कर्माष्टविधं सदुन्धोदयोदीरणचतुर्विधव्यवस्थं परिगृहीतम् । तत्र बन्धोदयोदीरणानां क्षयविभागो गुणस्थानभेदेन निर्दिष्टः । सत्कर्माच्छेदस्तु न प्रतिपादितः, स वित्रियते- १५
. कर्माभावो द्विविधः-यत्नसाध्योऽयत्नसाध्यश्चेति । तत्र चरमदेहस्य नरकतिर्यग्देवायुषाम- . भावोऽयत्नसाध्यः असत्त्वात् । यत्नसाध्य इत ऊर्ध्वमुच्यते-असंयतसम्यग्दृष्ट्यादिपु चतुर्पु गुणस्थानेषु कस्मिंश्विदनन्तानुवन्धिक्रोधमानमायालोभमिथ्यात्वसम्यमिथ्यात्वसम्यक्त्वाख्यप्रकृतिसप्तकविपतरुवनं शुभाध्यवसायनिशितपरशुपातेन निर्मूलं निच्छिद्यते । निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिनरकगतितिर्यग्गत्येकद्वित्रिचतुरिन्द्रियजातिनरकगतितिर्यग्गतिप्रायोग्यानुपूर्व्यातपोद्योत - २० स्थावरसूक्ष्मसाधारणसंज्ञकानां पोडशानां कमप्रकृति पृतनासेनान्या युगपदनिवृत्तिबादरसाम्परायःस्वेन समाधिचक्रेण विजयमवाप्नोति । ततः परं कपायाष्टकं नष्टं करोति स एव युगपत् । नपुंसकवेदः स्त्रीवेदश्च क्रमेण तत्रैव क्षयमुपयाति, नोकपायपटकं चैकेनैव प्रहारेण निपातयति । ततः पुंवेदसंज्वलनक्रोधमानमायाः क्रमेण तत्रैवात्यन्तिकं ध्वंसनमास्कन्दन्ति । लोभसंज्वलनः सूक्ष्मसाम्परायान्ते यात्यन्तम । निद्रानचले क्षीणकपायवीतरागछद्मस्थस्योपान्तिम समये २५ प्रलयमुपव्रजतः । पञ्चानां ज्ञानावरणानां चतुर्णा दर्शनावरणानां पञ्चानामन्तरायाणां च तस्यैवान्तसमये प्रक्षयो भवति । अन्यतरवेदनीयदेवगत्यौदारिकवक्रियिकाहारकतैजसकार्मणशरीर संस्थानपडौदारिकवैक्रियिकाहारकशरीराङ्गोपाङ्गपटसंहननपञ्चप्रशस्तवर्णपञ्चाऽप्रशस्तवर्णगन्धद्वय - पञ्चप्रशस्तरसपञ्चाऽप्रशस्तरसस्पर्शाष्टकदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपधातपरघातोच्छ.वासप्रशस्तविहायोगत्यपर्याप्तकप्रत्येकशरीरस्थिरास्थिरशुभाशुभदर्भगसुस्वरदःस्वरानादेयायशस्कीर्तिनिर्माणना- ३० मनीचैर्गोत्राख्या द्वासप्ततिप्रकृतयः अयोगिकेवलिन उपान्त्यसमये विनाशमुपयान्ति । अन्यतरवेदनीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातिमनुप्यगतिप्रायोग्यानुपूर्व्यत्रसबादरपर्याप्तकसुभगादेययश -
१ अन्तं नास्तीत्यर्थः-५० टि० । २ यथा अनादीनामपि धर्मादिद्रव्याणामाद्यन्तकल्पनायां प्रमाणत्वाभावस्तथा अनाद्यनिधनतया अदृष्टस्य कर्मबन्ध......'-श्र.टि०।३ तुलना-त. भा० का० १०1७1८ ४ कृत्स्नस्य कर्मणो विप्रमोक्षो मोक्ष इत्युनं तहि नवासतो जन्म सतो न नाश इति या प्रतिज्ञा सा हीयत इत्याशङ्कायामाह-श्र.टि.। ५ सतो व्यत्वेन-ता०। ६ मिन्यादर्शनादि०-०टि०। ७ कर्मपर्याय-श्र० टि० । ८-र यन्धनपञ्चसंघातसंस्था-मु०, द०, ब० ।