________________
६३८ तत्त्वार्थवार्तिके
[६४७ .. श्रुतम्-पुलाकवकुशप्रतिसेवनाकुशीलाः उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः । कषायकुशीला निम्रन्थाश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतम् आचारवस्तु । वकुशकुशीलनिर्ग्रन्थानां श्रुतम् अष्टौ प्रवचनमातरः। स्नातका अपगतश्रुता केवलिनः।
प्रतिसेवना-पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगात बलादन्यतमं प्रतिसेवमानः पुलाको भवति । वकुशो द्विविधः-उपकरणवकुशः शरीरवकुशश्चेति । तत्र उपकरणाभिष्वक्तचित्तो विविधविचित्रपरिग्रहयुक्तः बहुविशेषयुक्तोपकरणकाक्षी तत्संस्कारप्रतीकारसेवी भिक्षुरुपकरणवकुशो भवति । शरीरसंस्कारसेवी शरीरवकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन् उत्तरगुणेषु काश्चिद्विराधनां प्रतिसेवते । कषायकुशीलनिप्रेन्थस्नातकानां प्रतिसेवना नास्ति ।
तीर्थमिति सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । १. लिङ्ग द्विविधं द्रव्यलिङ्ग भावलिगं च । भावलिङ्ग प्रतीत्य सर्वे पञ्च निर्ग्रन्थलिङ्गिनो . भवन्तीति । द्रव्यलिङ्गं प्रतीत्य' भाज्याः।
लेश्याः-पुलाकस्योत्तरास्तिस्रो लेश्या भवन्ति । वकुशप्रतिसेवनाकुशीलयोः षडपि । कषायकुशीलस्य परिहारविशुद्धश्चंतन(श्च चतस्र)उत्तराः। सूक्ष्मसाम्परायस्य निर्मन्थस्नातकयोश्च शुदैव केवला भवति । अयोगशैले प्रतिपन्ना अलेश्याः।
उपपादः-पुलाकस्य उत्कृष्ट उपपादः उत्कृष्टस्थितिषु देवेषु सहस्रारे, वकुशप्रतिसेवनाकुशीलयोः द्वाविंशतिसागरोपमस्थितिष्वारणाच्युतकल्पयोः, कषायकुशीलनिर्ग्रन्थयोस्त्रायस्त्रिंशसागरोपमस्थितिषु सर्वार्थसिद्धौ । सर्वेषामपि जघन्यः सौधर्मकल्पे द्वे सागरोपमस्थितिषु । स्नातकस्य निर्वाणमिति ।
स्थानम्-असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघन्यानि २० लब्धिस्थानानि पुलाककषायकुशीलयोः, तौ युगपदसंख्येयानि स्थानानि गच्छतः, ततः पुलाको
व्युच्छिद्यते । कषायकुशीलस्ततोऽसंख्येयानीष्टस्थानानि गच्छति एकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशाः युगपदसंख्येयानि स्थानानि गच्छन्ति, ततो वकुशो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽप्यसंख्येयानि गत्वा कषाय
कुशीलो व्युच्छिद्यते । अत ऊर्ध्वमकषायस्थानानि निम्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयानि २५ स्थानानि गत्वा व्युच्छिद्यते। अत ऊर्ध्वमेकं स्थानं गत्वा निर्ग्रन्थस्नातको निर्वाणं प्राप्नोतीत्येतेषां संयमलब्धिरनन्तगुणा भवतीति ।
इति तत्वार्थवार्तिके व्याख्यानालङ्कारे नवमोऽध्यायः ॥ ६ ॥
आश्रित्य-०शि०।२-च तिल मू०, ता, श्र० । “कपायकुशीलस्व चतस्त्र उत्तराः"-सर्वार्थसि. १७ ।