________________
६४७ ]
नवमोऽध्यायः
६३७
प्रकृष्टाप्रकृष्टमध्यानां निर्ग्रन्थाभावश्चारित्रभेदाद् गृहस्थवत् |६| यथा गृहस्थश्चारित्रभेदान्निर्मन्थव्यपदेशभाग् न भवति तथा पुलाकादीनामपि प्रकृष्टाप्रकृष्टमध्यमचारित्रभेदान्निर्ग्रन्थत्वं नोपपद्यते ।
नात् ब्राह्मणशब्दवत् ॥७॥ न वैष दोषः । कुतः ? दृष्टत्वात् ब्राह्मणशब्दवत् । यथा जात्या चारित्राध्ययनादिभेदेन भिन्नेषु ब्राह्मणशब्दोऽविशिष्टो वर्त्तते तथा निर्मन्थशब्दोऽपि इति । किव
संग्रह व्यवहारापेक्षत्वात् । यद्यपि निश्चयनयापेक्षया गुणहीनेपु न प्रवर्त्तते तथापि संग्रह व्यवहारनयविवक्षावशात् सकलविशेषसंग्रहो भवति । किञ्च,
दृष्टिरूपसामान्यात् ।। सम्यग्दर्शनं निर्ग्रन्थरूपं च भूपावेशायुधविरहितं तत्सामान्ययोगात् सर्वेषु हि पुलाकादिषु निर्मन्थशब्दो युक्तः ।
भग्नवते वृत्तावतिप्रसङ्ग इति चेत्; न; रूपाभावात् | १०| यदि भग्नव्रतेऽपि निर्मन्थशब्दो वर्त्तते श्रावकेऽपि स्यादिति अतिप्रसङ्गः नैष दोषः कुतः ? रूपाभावात्, निर्मन्थरूपाभावात् । निर्मन्थरूपमत्र नः प्रमाणम् । न च श्रावके तदस्तीति नातिप्रसङ्गः ।
संयमश्रुतप्रति सेवनातीर्थलिङ्गलेश्योपपादस्थान विकल्पतः साध्याः ॥ ४७ ॥
अन्यस्मिन् सरूपेऽतिप्रसङ्ग इति चेत्, नः दृष्ट्यभावात् । ११ । स्यादेतत्-यदि रूपं प्रमामन्यस्मिन्नपि सरूपे निर्मन्थव्यपदेशः प्राप्नोतीति; तन्न; किं कारणम् ? दृष्ष्टयभावात् । दृष्टया १५ सह यत्र रूपं तत्र निर्ग्रन्थव्यपदेशः न रूपमात्र इति । अथ किमर्थः पुलाकादिव्यपदेशः ? गुणप्रवृत्तिविशेषख्यापनार्थः पुलाकाद्युपदेशः | १२ | चारित्रगुणस्योत्तरोत्तरप्रकर्षे वृत्तिविशेषख्यापनार्थः पुलाकाद्युपदेशः क्रियते ।
तेषां पुलाकादीनां भूयो विशेषप्रतिपत्त्यर्थमिदमुच्यते—
प्रतिसेवनेति षत्वाभावः क्रियान्तराभिसंबन्धात् ॥३॥ यथा विगताः सेवका अस्माद् ग्रामाद्विसेवको ग्राम इति षत्वं न भवति तथा प्रतिगता सेवना प्रतिसेवनेति क्रियान्तराभिसंबन्धात् षत्वं न भवति ।
५
पुलाकादयः संयमादिभिः साध्याः |४| एते पुलाकादयः पञ्च निर्ग्रन्थविशेषाः संयमादिभिरष्टाभिरनुयोगैः साध्या व्याख्येया इत्यर्थः । तद्यथा, कः कस्मिन् संयमे भवति ? पुलाकवकुशप्रतिसेवनाकुशीलाः द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्भवन्ति । कषायकुशीला द्वयोः परिहारविशुद्धिसूक्ष्मसाम्पराययोः पूर्वयोश्च । निर्ग्रन्थस्नातकाः एकस्मिन्नेव यथाख्यातसंयमे ।
१०
तसोऽलक्षणत्वादनिर्देश इति चेत्; न; अन्यतोऽपीति वचनात्सिद्धेः | १ | स्यादेतत्-तसो नोत्पतेर्लक्षणमस्ति । ततो निर्देशो न युक्त इति; तन्न; किं कारणम् ? " अन्यतोऽपि " [ इति वचनात्सिद्धेः ।
]
भवदादियोग इति चेत्; न; अन्यत्रापि दर्शनात् |२| स्यान्मतम् - भवदादियोगे “अन्यतो २५ s" [ ] इति लक्षणं व्याक्रियते, नान्यत्रेति तसो नोत्पत्तिरिति; तन्न; किं कारणम् ? अन्यत्रापि दर्शनात् । अन्यत्र तसः प्रयोगो दृश्यते - नार्थतो न शब्दतो नाभिधानतः सुमध्यम इति ।
१- पे सति प्र-ता० । - पे प्रश्र० । २ भाद्यादिभ्य इति संभवद्विभवत्यन्तेभ्यः तस् भवति श्र० टि० । ३ सम - मु०, द० ज० ।
२०
३०