________________
तत्त्वार्थवार्तिके
[ ६४६
मृतरसविवर्द्धितविशुद्धिः मिथ्यात्वविघातिवीर्याविर्भावे क्षुद्यमानत्रीहितुषकणतन्दुलविवेकवत्, मिथ्यादर्शनकर्म मिथ्यात्वसम्यक्त्व सम्य मिथ्यात्वविभागेन त्रिधा विभज्य सम्यक्त्वं वेदयमानः सद्भूतपदार्थश्रद्धानफलं वेदकसम्यग्दृष्टिर्भवति । ततः प्रशमसंवेगादिमान् जिनेन्द्रभक्तिप्रवर्द्धितविपुल भावना विशेषसंभारो यत्र केवलिनः सन्ति भगवन्तस्तत्र मोहं क्षपयितुमारभते; निष्ठापकः २५ पुनश्चतसृषु गतिषु भवति । स निराकृतमिथ्यात्वः क्षायिकसम्यग्दृष्टिरित्याख्यायते । अथवा `पूर्वोदितं एव शङ्कादिदोषविनिर्मुक्तः कुसमयैरक्षोभितमतिः उपलब्धसद्भावो मोहतिमिरपटलविप्रमुक्तदृष्टिः जैनेन्द्रपूजाप्रवचन वात्सल्यसंयमादिप्रशंसादिपरतया क्षपितोपशमितदेशघातिकर्मा संयमासंयमप्राप्त्या श्रावकोऽपि स्यात् । पूर्वनिर्दिष्टः ततो विशुद्धिप्रकर्षात् पुनरपि सर्वगृहस्थसङ्गविप्रमुक्तो निर्ग्रन्थतामनुभवन् विरत इत्यभिलप्यते । एवमुत्तरोत्तरक्रमो वेदितव्योऽन्वर्थः । त एते १० दशाप्युपर्युपरि असंख्येयगुणनिर्जरा वेदितव्याः ।
६३६
क्षपक इत्यसाधुरन्वाख्यानाभावादिति चेत्; न; चशब्देन मित्संशोपलब्धेः |१| स्यान्मतम् - क्षपक इत्ययमसाधुः । कुतः ? अन्वाख्यानाभावादिति; तन्नः किं कारणम् ? चशब्देन मित्संज्ञोपलब्धेः । क्षै जै षै क्षय इत्यस्य कृतात्वस्य “णिचियुकिज विजप्टुसुरजोमताश्च” [ इति चशब्देन मित्संज्ञायां सत्यां ह्रस्वत्वात् साधुर्भवति । प्रयुक्तानामन्वाख्यानात् प्रयोगदर्शनाच्च । आह- सम्यग्दर्शनसन्निधानेऽपि यद्यसंख्येयगुणनिर्जरात्वात् परस्परतो न साम्यमेषां हन्त तर्हि श्रावकवदमी पूर्वसूत्रचोदिता न सर्वे विरतादयो गुणभेदात् निर्ग्रन्थतामर्हन्तीति ? उच्यतेनैतदेवम् । कुतः ? यस्माद् गुणभेदादन्योन्यविशेषेऽपि नैगमादिनयव्यापारात् सर्वेऽपि भवन्ति
१५
पुलाकवकुश कुशील निश्रन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥
अपरिपूर्णव्रता उत्तरगुणहीनाः पुलाकाः | १ | उत्तरगुणभावनापेतमनसो व्रतेष्वपि कचित् २० कदाचित् परिपूर्णतामपरिप्राप्नुवन्तः अविशुद्धपुल कसादृश्यात् पुलाकव्यपदेशमर्हन्ति । अखण्डितव्रताः शरीरसंस्कार र्द्धि सुख यशोविभूतिप्रवणा वकुशाः | २ | नैर्ग्रन्थ्यं प्रस्थिताः अखण्डितव्रताः शरीरोपकरणविभूषानुवर्तिनः ऋद्धियशस्कामाः सातगौरवाश्रिताः अविविक्तपरिवाराः छेदशबलयुक्ताः वकुशाः । शबलपर्यायवाची वकुशशब्दः ।
कुशीला द्विविधाः प्रतिसेवना कषायोदयभेदात् | ३| कुशीला द्विविधा भवन्ति । कुतः ? २५ प्रतिसेवनाकषायोदयभेदात् । अविविक्तपरिग्रहाः परिपूर्णोभयाः कथचिदुत्तरगुणविराधिनः प्रतिसेवनाकुशीलाः । ग्रीष्मे जङ्घाप्रक्षालनादिसेवनाद्वशीकृतान्यकषायोदयाः संज्वलनमात्रतन्त्रत्वात् कषायकुशीलाः ।
उदके दण्डराजिवत्सन्निरस्तकर्माणोऽन्तर्मुहूर्तकेवलज्ञानदर्शनप्रापिणो निर्ग्रन्थाः |४| उदके दण्डराजिर्यथा आश्वेव विलयमुपयाति तथाऽनभिव्यक्तोदयकर्माणः ऊर्ध्वं मुहूर्त्तादुद्भिद्यमान३० केवलज्ञानदर्शनभाजो निर्मन्थाः
प्रक्षीणघातिकर्माणः केवलिनः स्नातकाः |५| ज्ञानावरणादिघातिकर्मक्षयादाविर्भूत केवलज्ञानाद्यतिशयविभूतयः सयोगिशैलेशिनो लब्धास्पदाः केवलिनः स्नातकाः । “स्नातवेदसमाप्तौ ” ] इति स्वार्थिके के निष्पन्नः शब्दः । त एते पञ्चनिर्ग्रन्थाः । कश्चिदाह
१ बद्धायुष्कपेक्षया श्र० टि० । २ वेदकसम्यग्दृष्टिः- श्र० टि० । ३ लक्षणानुसारेण श्र० टि० । ४ पुटाच् इत्यादि सूत्रे च धातोरपरे पठितत्वात् हस्वाभावः तस्मात् क्षापक इति प्राप्नोति, क्षपक इति अपगतलक्षण इत्याह चोदकः - श्र० टि० । ५ तृणधान्यविशेषः - श्र० टि० । ६-सायानुव - ता०, श्र० । ७ मस्तकप्रक्षालन - मु० ० । ८ कृतकृत्या इत्यर्थः, प्रतिष्ठाकृत्यमास्पदमित्यभिधानात् श्र० टि० ।