________________
१४५]
नवमोऽध्यायः एवमेकत्ववितर्कशुक्लध्यानवैश्वानरनिर्दग्धघातिकर्मेन्धनः प्रज्वलितकेवलज्ञानगभस्तिमण्डलः मेघपञ्जरनिरोधनिर्गत इव धर्मरश्मिर्वाभास्यमानो भगवांस्तीर्थकर इतरो वा केवली लोकेश्वराणामभिगमनीयोऽर्चनीयश्चोत्कर्षणायुःपूर्वकोटिं देशोनां विहरति । स यदा अन्तमुहूर्त्तशेषायुष्कः तत्तुल्यस्थितिवेद्यनामगोत्रश्च भवति तदा सर्ववाङ्मनसयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनः सूक्ष्मक्रियाप्रतिपातिध्यानमास्कन्दितुमर्हति ! यदा पुनरन्तर्मुहूर्त्तशेषायुष्कस्ततोऽधिकस्थि- ५ तिविशेषकर्मत्रयो भवति योगी तदा आत्मोपयोगातिशयस्य सामायिकसहायस्य विशिष्टकरणस्य महासंवरस्य लघुकर्मपरिपाचनस्य शेषकर्म रेणुपरिशातनशक्तिरवाभाव्यात् दण्डकपाटप्रतरलोकपूरणानि स्वात्मप्रदेशविसर्पणतश्चतुर्भिः समयैः कृत्वा पुनरपि तावद्भिरेव समयैः समुपहृतप्रदेशविसरणः समीकृतस्थितिविशेषकर्मचतुष्टयः पूर्वशरीरपरिमाणो भूत्वा सूक्ष्मकाययोगेन सूक्ष्मक्रियाप्रतिपातिध्यानं ध्यायति ।
- तदस्तदनन्तरं समुच्छिन्नक्रियानिवर्तिध्यानमारभते । समुच्छिन्नप्राणापानप्रचारसर्वकायवाङ्मनोयोगसर्वप्रदेशपरिस्पन्दक्रियाव्यापारत्वात् समुच्छिन्नक्रियानिवौत्युच्यते । तस्मिन् समुच्छिभक्रियानिवर्तिनि ध्याने सर्वबन्धास्रवनिरोधसर्वशेषकर्मशातनसामोपपत्तेरयोगिनः केवलिनः संपूर्णयथाख्यातचारित्रज्ञानदर्शनं सर्वसंसारदुःखजालपरिष्वङ्गोच्छेदजननं साक्षान्मोक्षकारणमुपजायते । स पुनरयोगिकेवली भगवांस्तदा ध्यानानलनिर्दग्धसर्वमलकलङ्कबन्धो निरस्तकिट्टधातुपा- १५ षाणजात्यकनकवल्लब्धात्मा परिनिवोति । तदेतद् द्विविधं तपः अभिनवकमोनवनिरोधहेतुत्वात् संवरणकारणं प्राक्तनकर्मरजोविधूनननिमित्तत्वाग्निर्जराहेतुरपि । ___अत्राह-उक्तं परीषहजयात्तपसश्च कर्मनिर्जरा भवतीति, तत्रेदं न ज्ञायते सर्वे सम्यग्दृष्टयः समनिर्जराः आहोस्विदस्ति कश्चित्प्रतिविशेष इति ? अस्तीत्याहसम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्त- २० मोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः॥४५॥
प्रथमसम्यक्त्वादिप्रतिलम्भे अध्यवसायविशुद्धिप्रकर्षादसंख्येयगुणनिर्जरात्वं दशानाम् । मद्यपानाविष्टस्य मदैकदेशविगमादव्यक्तावगमशक्तिवत्, प्रकृष्टनिद्रस्य वा तदेकदेशक्षयादल्पस्मृतिजन्मवत् , विषमोहितमूर्तेर्वा एकदेशविषप्रच्युतेश्चेतनाप्रतिलम्भवत्, पित्तादिविकारोपजातमूर्च्छस्य वा मोहैकदेशनिवृत्तरव्यक्तचैतन्यवत् एकेन्द्रियेष्वनन्तकायादिषु अनन्तकालमुत्पद्योत्पद्य २५ परिभ्रमतः विशेषलब्ध्या द्वीन्द्रियादिजन्म यावत्पञ्चेन्द्रिय इति कदाचित्पुनः प्रतिनिवर्तते । तदेवं बहुकृत्वो निवर्तनारोहणबहुशतसहस्रेषु कदाचित् पश्चेन्द्रियत्वं नरकादिषु दीर्घकालमनुभूय घुणोकीर्णाक्षरसमानजातीयमानवेषु जन्मावाप्नुयात् । भ्रान्त्वा पुनरपि ततो दुर्लभानि देशकुलादीन्यवाप्य संक्लेशस्य म्रदिम्ना विशुद्धव्यवसायः प्रतिभाशक्तियुक्तः भव्यः परिणामशुद्धथा प्रक्षालितान्तरात्माप्युपदेशासंभवात् सन्मार्गमलभमानः कुतीर्थप्रतिपादितमिथ्यादर्शनो भूत्वा पुनरपि संसार- ३० महाजनपदातिथिर्भवति । अभिहितक्रमेणैव भूयो ज्ञावावरणकमैकदेशप्रशमोपजातविशुद्धिरुपदेशलब्धिसम्पन्नः अथवा मौनीन्द्रं दर्शनं कदाचिच्छणुयात् प्रतिबन्धिनश्च कर्मणः न्यग्भावात् श्रद्दध्यात् कतकसम्पर्कोपजनितकलुषतीयप्रसादवत् असद्भूतार्थोपदेशमलीमसः मिथ्यात्वोपशमात् परिणतप्रसादः श्रद्धानाभिमुखोऽभिलाषाभि मुख्यादसंख्येयगुणनिर्जरः अभूतपूर्वकरणात् प्रथमसम्यक्त्वाभिमुखो रुचितजिनवचन उपशमसम्यग्दृष्टितामनुभवति । ततः सम्यक्त्वभावना- ३५
१-बन्धनो श्र०, ता० । २ प्रीणितप्र-मु०, ९०, ब०, ज०।३ तत्वार्थ-० टि.।
२७