________________
१०
६३४ तत्त्वार्थवार्तिके
[६४२-४४ अवीचारं द्वितीयम् ॥४२॥ पूर्वयोर्यद् द्वितीयं तदवीचारं प्रत्येतव्यम्-अर्थात् आद्य सवितर्क सवीचारं च भवति, द्वितीयं सवितर्कमवीचारमिति । अथ वितर्कवीचारयोः क प्रतिविशेप इति ? अत्रोच्यते
वितर्कः श्रुतम् ॥ ४३॥ विशेषेण तर्कणमूहनं वितर्कः श्रुतज्ञानमित्यर्थः।
यदि श्रुतज्ञाने वितर्कशब्दो वर्तते, जायसे तर्हि पुनरपि प्रष्टव्यः-अथ वीचारः किंलक्षण: इति ? अत्रोच्यते
वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥४४॥ अर्थो ध्येयः द्रव्यं पर्यायो वा, व्यञ्जनं वचनम् , योगः कायवाङ्मनस्कर्मलक्षणः, संक्रान्तिः परिवर्तनम् । द्रव्यं विहाय पर्यायमुपैति, पर्यायं त्यक्त्वा द्रव्यमित्यर्थसंक्रान्तिः । एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यञ्जनसंक्रान्तिः । काययोगं त्यक्त्वा योगान्तरं ग्रहाति योगान्तरं च त्यक्त्वा'काययोगमिति योगसंक्रान्तिः, एवं परिवर्तनं वीचार इत्युच्यते ।
तदेसामान्यविशेषनिर्दिष्टचतुर्विधं शुक्लं धर्म्य च पूर्वोदितगुप्त्यादिबहुप्रकारोपायं संसारविनिवृत्तये १५ मुनिया॑तुमर्हति । तदारम्भे च परिकर्म भवति । यदोत्तमशरीरसंहननतया परीषहबाधासहनशक्तिमन्तमात्मानमवगच्छति तदा ध्यानयोगपरिचयायोपक्रमते । कथमिति चेत् ?
उच्यते-पर्वतगुहाकन्दरदरीद्रुमकोटरनदीपुलिनपितृवनजीर्णोद्यानशून्यागारादीनामन्यतमस्मिन्नवकाशे व्यालमृगपशुपक्षिमनुष्याणामगोचरे तत्रत्यैरागन्तुभिश्च जन्तुभिः परिवर्जिते नात्युष्णे
नातिशीते नातिवाते वार्षातपवर्जिते समन्तात् बाह्यान्तःकरणविक्षेपकारणविरहिते २० शुचावनुकूलस्पर्शे यथासुखमुपविष्टो बद्धपल्यङ्कासनः समृगँ प्रणिधाय शरीरयष्टिमस्तब्धां स्वाङ्के
वामपाणितलस्योपरि दक्षिणपाणितलमुत्तलं संमुपादाय नात्युन्मीलन्नातिनिमीलन् दन्तैर्दन्ताप्राणि संदधानः ईपदुन्नतमुखःप्रगुणमध्योऽस्तब्धमूर्तिः प्रणिधानगम्भीरशिरोधरः प्रसन्नवक्त्रवर्णः अनिमिषस्थिरसौम्यदृष्टि: विनिहितनिद्रालस्यकामरागरत्यरतिशोकहास्यभयद्वषविचिकित्सः मन्दमन्दप्राणा
पानप्रचार इत्येवमादिकृतपरिकर्मा साधुः, नाभेरूवं हृदये मस्तकेऽन्यत्र वा मनोवृत्तिं यथापरिचयं २५ प्रणिधाय मुमुक्षुः प्रशस्तध्यानं ध्यायेत् । तत्रैकाग्रमना उपशान्तरागद्वेषमोहो नैपुण्यान्निगृहीतशरी
रक्रियो मन्दोच्छासनिःश्वासः सुनिश्चिताभिनिवेषः क्षमावान बाह्याभ्यन्तरान् द्रव्यपर्यायान् ध्यायन्नाहितवितर्कसामयः अर्थव्यञ्जने कायवचसी च पृथक्त्वेन संक्रामता मनसाऽपर्याप्तबालोत्साहवदव्यवस्थितेनानिशितेनापि शस्त्रेण चिरात्तरं छिन्दन्निव मोहप्रकृतीरुपशमयन् क्षपयंश्च पृथक्त्ववितर्क
वीचारध्यानभाग्भवति । पुनर्वीर्यविशेषहानेर्योगाद्योगान्तरं व्यञ्जनाद्वथञ्जनान्तरमर्थादर्थान्तर३० माश्रयन् ध्यानविधूतमोहरजाः ध्यानयोगान्निवर्तते इति । उक्तं पृथक्त्ववितर्कवीचारम् ।
अनेनैव विधिना सतूलमूलं मोहनीयं निर्दिधिक्षन्ननन्तगुणविशुद्धं योगविशेषमाश्रित्य बहुतराणां ज्ञानावरणसहायिभूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितेः ह्रासक्षयौ च कुर्वन् श्रुतज्ञानोपयोगवानिवृत्तार्थव्यञ्जनयोगसंक्रान्तिः अविचलितमना क्षीणकषायो वैडूर्यमणिरिव निरुपलेपो ध्यात्वा पुनर्न निवर्तत इति ? उक्तमेकत्ववितर्कम् ।
१ त्यक्त्वाऽन्ययो-मु०, द०, ब०, । २ समुपदाय-ता०, श्र०। ३ मोहनीयानामित्यर्थः-श्र.टि।