________________
नवमोऽध्यायः
विषयविवेकापरिज्ञानमिति चेत् : नः व्याख्यानतो विशेषप्रतिपत्तेः | ३| स्यादेतत्-चशब्देन पूर्वस्य ध्यानस्य समुच्चये क्रियमाणे विपर्याविवेको न ज्ञायते इति; तन्न; किं कारणम् ? व्याख्यातो विशेषप्रतिपत्तेः । श्रेण्यारोहणात् प्राग् धर्म्यध्यानं श्रेण्योः शुक्लध्यानमिति व्याख्यास्यामः । आह-यद्याद्ये शुक्ले उपशान्तनिर्दग्धमोहयोर्नियमेन प्रतिज्ञायेते अवशिष्टे कस्य' भवत इति ? अत्रोच्यते
185-88]
६३३
परे केवलिनः ॥ ३८ ॥
केवलिशब्द सामान्यनिर्देशात्तद्वतोरुभयोर्ग्रहणम् |१| केवलीत्ययं शब्द: सामान्यविषयः, ततोऽचिन्त्यविभूतिविशेषकेवलज्ञानसाम्राज्यमनुभवतोरुभयोः सयोग्ययोगिकेवलिनोर्ग्रहणम् । परे शुक्लध्याने तयोर्भवतो न छद्मस्थस्येति ।
आह-अन्धकारमुष्ट्रयभिघातसादृश्यादमुं शुक्लध्यानाधिष्ठातृप्रक्रियां प्रति न व्याप्रियामहे । १० कुतः ? 'तल्लक्षणविशेपनिर्देशानुपलम्भात् । उच्यते - स्यादेतदेवं यद्यमूनि तस्य परस्परविशिष्टानि पर्यायान्तराणि न स्युः ३ -
पृथक्त्वैकत्ववितर्क सूक्ष्मक्रियाप्रतिपातिव्युपरत क्रियानिवर्तीनि ॥ ३९ ॥
वक्ष्यमाणलक्षणापेक्षया सर्वेषामन्वर्थत्वम् |१| वक्ष्यमाणलक्षणमपेक्ष्य सर्वेषामन्वर्थत्वमवसेयम् । यदिदमुपात्तचातुर्विध्यं शुक्लव्यानं तत्किमालम्बनमिति चेत् ? उच्यते
त्र्येकयोगकाययोगायोगानाम् ॥ ४० ॥
एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥
पूर्वविदारभ्यत्वादेकाश्रयसिद्धिः | १ | उभे अपि परिप्राप्तश्रुतज्ञाननिष्ठेनारभ्येते इत्येकाश्रये इत्युच्यते ।
सवितर्कवीचार इति द्वन्द्वपूर्वोऽन्यपदार्थनिर्देशः | २ | वितर्कश्च वीचारश्च वितर्कवीचारौ सह वितर्कवीचाराभ्यां वर्तते सवितर्कवीचारः ।
५
योगशब्दो व्याख्यातार्थः |१| अयं योगशब्दो व्याख्यातार्थः “कायवाङ्मनस्कर्म योगः " [ ६।१ ] इत्यत्र ।
यथासंख्यं चतुर्णामभिसम्बधः | २ | चतुर्णां त्रियोगादीनामुक्तैश्चतुर्भिः शुक्लध्यानविकल्पैः सहू यथासंख्यमभिसम्बन्धो भवति । त्रियोगस्य पृथक्त्ववितर्कम्, त्रिषु योगेष्वेक योगस्यैकत्ववि - २० तर्कम्, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति ।
तत्राद्यस्य विशेषप्रतिपत्त्यर्थमिदमुच्यते
पूर्वत्वमेकस्यैवेति चेत्; न; उक्तत्वात् |३| किमुक्तम् ? तत्समीपवर्तिनस्तद्व्यपदेश इति । द्विवचनसामर्थ्यादुभयोर्ग्रहणम् ।
तत्र यथासंख्यप्रसङ्गनिवृत्त्यर्थमिदमुच्यते—
१ कस्यां श्रेण्यां कतमं ध्यानमिति श्र० टि० । २ स्वलक्षणविशे- ता० । स्वलक्षणप्रविशेषानुयश्र० । ३ तर्हि श्र० टि० ।
१५
२५
३०