________________
६३२ तत्त्वार्थवार्तिके
[६३७ वर्जितेषु पूर्वेषु नोपरि । वननाराचसंहनननाराचसंहननयोरुपशान्तकषायान्तेषूदीरणोदयो नोपरिष्टात् । समयोत्तरचरमावलीवर्जितक्षीणकपायान्तेषु निद्राप्रचलयोरुदीरणोदयो नोपरि । पश्चानां ज्ञानावरणानां चतुर्णा दर्शनावरणानां पञ्चानामन्तरायाणां च चरमावलीवर्जितक्षीणकषायान्तेदीरणोदयो नोर्ध्वम् । मनुष्यगतिपञ्चेन्द्रियजात्यौदारिकतैजसकार्माणशरीरषट्संस्थानौदारिकशरीराङ्गोपाङ्गवज्रवृषभनाराचसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातोच्छासप्रशस्ताप्रशस्तविहायोगतित्र - सबादरपर्याप्तकप्रत्येकशरीरस्थिरास्थिरशुभाशुभसुभगसुस्वरदुःस्वरादेययशस्कीर्ति निर्माणोच्चैर्गोत्रसंज्ञिकानामष्टात्रिंशतः प्रकृतीनां सयोगकेवलिचरमसमयान्तेषूदीरणोदयो नोपरि। तीर्थकरनाम्न उदीरणोदयः सयोगिकेवलिन्येव नोपरि नाप्यधः ।
लोकसंस्थानस्वभावावधानं संस्थानविचयः ।१०। लोकसंस्थानं प्राग्वर्णितम् । तदवयवानां १० च द्वीपादीनां तत्स्वभावावधान संस्थानविचयः ।
धर्मादनपेतं धर्म्यम् ।११। धर्म उत्तमक्षमादिदशविकल्पः, ततोऽनपेतं धर्म्य ध्यानम् । उत्तमक्षमादिभावनावतः प्रवृत्तः।। ___ अनुप्रेक्षाणां धर्म्यध्यानजातीयत्वात्पृथगनुपदेश इति चेत् ; न; ज्ञानप्रवृत्तिविकल्पत्वात् ।१२। स्यादेतत्-अनुप्रेक्षा अपि धर्म्यध्यानेऽन्तर्भवन्तीति पृथगासामुपदेशोऽनर्थक इति; तन्नः किं कारणम् ? १५ ज्ञानप्रवृत्तिविकल्पत्वात् । अनित्यादिविषयचिन्तनं यदा ज्ञानं तदा अनुप्रेक्षाव्यपदेशो भवति, यदा तत्रैकाग्रचिन्तानिरोधस्तदा धर्म्यध्यानम् ।
'धर्म्यमप्रमत्तस्येति चेत् न; पूर्वेषां विनिवृत्तिप्रसङ्गात् ।१३। कश्चिदाह-धर्म्यमप्रमत्तसंयतस्यैवेति; तन्न; किं कारणम् ? पूर्वेषां विनिवृत्तिप्रसङ्गात् । असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयता
नामपि धर्म्यध्यानमिष्यते सम्यक्त्वप्रभवत्वात्। यदि धर्म्यमप्रमत्तस्यैवेत्युच्येत तर्हि; तेषां निवृत्तिः २० प्रसज्येत ।
उपशान्तक्षीणकपाययोश्चेति चेतः नः शुक्लाभावप्रसङ्गात् ।१४। कश्चिदाह-उपशान्तक्षीणकषाययोश्च धयं ध्यानं भवति न पूर्वेपामेवेति; तन्न; किं कारणम् ? शुक्लाभावप्रसङ्गात् । उपशान्तक्षीणकषाययोर्हि शुक्लध्यानमिष्यते तस्याभावः प्रसज्येत ।
__तदुभयं तत्रेति चेत् ; न; पूर्वस्यानिटत्वात् ।१५। स्यादेतत्-उभयं धर्म्य शुक्लं चोपशान्त२५ क्षीणकषाययोरस्तीति ? तन्नः किं कारणम् ? पूर्वस्यानिष्टत्वात् । पूर्व हि धम्य ध्यानं श्रेण्योर्नेष्यते आर्षे, पूर्वेषु चेष्यते ।
आह-यदि धLध्यानमविरतदेशविरतप्रमत्ताप्रमत्तसंयतान्तानां भवति, अथ शुक्लध्यानं कस्येति ? अत्रोच्यते-तद्वक्ष्यमाणं चतुर्विकल्पम् , तत्र प्रथमयोर्विकल्पयोः स्वामिनिर्देशः क्रियते
शुक्ले चाद्य पूर्वविदः ॥ ३७॥ ३० पूर्वविद्विशेषणं श्रुतकेवलिनस्तदुभयप्रणिधानसामर्थ्यात् ।। सकलश्रुतधरस्याद्यशुक्लध्यानद्वयप्रणिधानसामर्थ्य नेतरस्येति प्रतिपत्त्यर्थं पूर्वविद्विशेषणमुपादीयते ।
चशब्दः पूर्वध्यानसमुच्चयार्थः ।। चशब्दः क्रियते पूर्वस्य धर्म्यध्यानस्य समुच्चयार्थः । शुक्ले चाद्ये पूर्वविदो भवतः धम् चेति ।
"आज्ञापायविपाकसंस्थानविचयाय धर्ममप्रमत्तसंयतस्य"-तत्त्वार्थाधि० सू० ॥३॥ २ 'यदि धर्म्यमप्रमत्तस्यैवेत्युच्येत' इति पाठो नास्ति ता०, मू०, श्र०, द०, ब०, ज०, भा० १, भा० २ । ३ स्वामिनो निमु०, द०, ब०, ज० । ४ पूर्ववद्वि-मु०, द०, ब०, ज०, ता० ।