________________
नवमोऽध्यायः
६३१
६।३६ ]
नामिकानां तिसृणां कर्मप्रकृतीनां फलानुभवनमनुं त्तरशरीरप्रमत्तसंयतेषु नोपरि । आहारशरीराहारशरीराङ्गोपाङ्गनाम्नोऽप्रमत्तसंयते उदयः नोर्ध्वं नाधः । वेदकसम्यक्त्वप्रकृतेरुदयोऽसंयतसम्यग्दृष्ट्या दिष्वप्रमत्तसंयतान्तेषु नोर्ध्वं नाप्यधः । अर्धनाराच संहननकीलिकासंहननासंप्राप्तासृपाटिकासंहननाख्यानां तिसृणां प्रकृतीनामुदयोऽप्रमत्तसंयतान्तेषु नोपरि । हास्यरत्यरतिशोकभयजुगुप्साख्यानां षण्णां कर्मप्रकृतीनामपूर्वकरणचरमसमयान्तेषु फलानुभवनं नोर्ध्वम् । त्रयाणां वेदानां त्रयाणां संज्वलनानां चोदयः अनिवृत्तिबादरसाम्परायेषु । तत्र अनिवृत्तिवादरसाम्परायकालस्य शेपे शेपे संख्येयान् भागान् गत्वोदयच्छेदः । लोभसंज्वलनस्य विपाकः सूक्ष्मसाम्परायचरमसमयान्तेषु नोपरि । वज्रनाराचसंहनननाराचसंहननयोरुदयः उपशान्तकपायान्तेषु नोर्ध्वम् । निद्राप्रचलयो - रुदयः क्षीणकषायोपान्तसमयान्तेषु नोपरि । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पानामन्तरायाणां चोदयः क्षीणकपायचरमसमयान्तेषु नोपरि । अन्यतरवेदनीयौदारिकतैज- १० कार्मणशरीर संस्थान पैट्कौदा रिकशरीराङ्गोपाङ्गववृपभनाराच संहननवर्णगन्धरसस्पर्शागुरु लघूपबातपरघातोच्छ्रासप्रशस्ता प्रशस्त विहा योगतिप्रत्येकशरीरस्थिरा स्थिरशुभाशुभ सुस्वरदुःस्वरनिर्माणनामिकानां त्रिंशत्प्रकृतीनामुदयः सयोगकेवलिनश्चरमसमये नोर्ध्वम् । अन्यतरवेदनीय मनुष्यायुर्मनुष्यगतिपश्चेन्द्रियजातित्रसत्रादर पर्याप्त कसुभगादेययशस्कीयुंच्चै गत्रिसंज्ञकानामेकादशानां प्रकृतीनामुदयः अयोगक्रेवलिनश्चरमसमये नोर्ध्वम् । तीर्थकरनामोदया" द्वयोः केवलिनोनपरि नाप्यधः ।
1
"अयथाकालविपाक उदीरणोदयः । तत्र मिथ्यादर्शनस्य उदीरणोदयो मिथ्यादृष्टौ उपशमसम्यक्त्वाभिमुखस्य चरमावलीमुत्सृज्येतरत्र भवति । एक द्वित्रिचतुरिन्द्रियजात्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणसंज्ञिकानां नवानां प्रकृतीनामुदीरणोदयः मिथ्यादृष्टौ भवति नोर्ध्वम् । अनन्तानुबन्धिक्रोधमानमायालोभानामुदीरणोदयो मिथ्यादृष्टिसासादनसम्यग्दृष्टयोर्नोपरि । सम्यङ्" मिथ्यात्वस्योदी रणोदयः सम्यङ मिथ्यादृष्टौ नोपरि नाप्यधः । अप्रत्याख्यानावरण क्रोधमानमाया - २० लोभनरकगतिदेवगतिवैक्रियिकशरीर वैक्रियिकशरीराङ्गोपाङ्गदुर्भगानाध्यायशस्कीर्तिसंज्ञका एकादशप्रकृतय असंयतसम्यग्दृष्ट्यन्तेपूदीर्यन्ते नोर्ध्वम् । नरकायुपो देवायुपश्च मरणकाले चरमावलिं मुक्त्वा असंयतसम्यग्दृष्टावुदीरणोदयो भवत्यधश्च नोर्ध्वम् । चतुर्णामानुपूर्व्याणां विग्रहगतौ मिथ्यादृष्टिसासादनसम्यग्दृष्ट्य संयत सम्यग्दृष्टिपूदीरणोदयो नेतरत्र । प्रत्याख्यानक्रोधमानमायालोभतिर्यग्गत्युद्योतनीचैर्गोत्राणां सप्तानां प्रकृतीनामुदीरणोदयः संयतासंयतान्तेषु नोपरि । तिर्यगायुषो २५ मरणकाले चरमावलि मुक्त्वा संयतासंयतान्तेषूदीरणोदयो नोर्ध्वम् । निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्धिसदसद्वेद्यानां पञ्चानां प्रकृतीनां प्रमत्तसंयतान्तेपूदीरणोदयो नोपरिष्टात् । उत्तरशरीरवर्तिपूर्वचरमावल्या सह उदीरणोदयो नास्ति । आहारशरीराहारशरीराङ्गोपाङ्गनाम्नोः प्रमत्तसंयते उदीरणोदयो नोर्ध्वं नाप्यधः । मनुष्यायुष उदीरणोदयो मरणकाले चरमावलिं मुक्त्वा प्रमत्तसंयतान्तेषु सम्यङ्मिथ्यादृष्टिवर्जितेपूदीरणोदयो भवति नोपरि । वेद्कसम्यक्त्वस्योदीरणोदयः असंयतसम्यग्दृ- ३० ष्ट्यादिष्वप्रमत्तसंयतान्तेषु भवति नोर्ध्वं नाप्यधः । अर्धनाराचकीलिकासंप्राप्तासृपाटिकासंहनानामुदीरणोदयः अप्रमत्तसंयतान्तेषु भवति नोर्ध्वम् । हास्यरत्यरतिशोकभयजुगुप्सानां पण्णां प्रकृतीनामपूर्वकरण चरमसमयान्तेपूदीरणोदयो भवति नोर्ध्वम् । त्रयाणां वेदानां त्रयाणां संज्वलनानां चोदीरणोदयोऽनिवृत्तिबादरसम्परायेषूपान्तेषु भवति नोर्ध्वम् । तस्मिंश्चानिवृत्तिकाले शेपे शेपे ऊर्ध्व ऊर्ध्व संख्येयभागान् गत्वा उदीरणोदयोच्छेदः । लोभसंज्वलनस्योदीरणोदयः सूक्ष्मसाम्परायचरमावली - ३५
१ आहारकशरीरनिर्वर्तनरहित - श्र० टि० । २ सप्तभागेषु प्रत्येकमेकैकभागे - श्र० टि० । ३ केवलिनां हुण्ड संस्थान रूप ताप्यस्तीत्युपदेशः । हुण्डकसंस्थानोदयः कश्चन मिथ्यादृष्टिः सम्यक्त्वमासाथ दीक्षित्वा केवलज्ञानमवाप्नोतीति श्र० टि० । ४ नामकर्मोदयः मु०, द०, ब०, ज० । ५ अथ प्रसङ्गप्रसक्तामुदीरणो दयमप्याह श्र० टि० । ६ आहारकशरीरवर्ति श्र० टि० । ७ सातिशये - श्र० वि० ।
५
१५