________________
अथ दसमोऽध्यायः आह-आस्रवदोषानवालप्तत्वं परिस्पन्दवतोऽपि कुशलस्य कर्मागमद्वारसंवरणादित्युपपादितः संवरपदार्थः, तदनन्तरनिर्देशभाविनी निर्जराऽभिधीयतामिति ? अत्र बमः-नासाविह पुनर्वक्तव्या । कुतः ? तपोऽनुभवसंबन्धेन' यस्मात्पुरैव 'व्याख्याता । यथानामोपभुक्तविचित्रफलकर्मनिवृत्तिनिर्जरा । तंत्रानवसरप्राप्तेति चेत् ; न; अर्थवशाच्छानगरीयस्त्वपरिहारार्थत्वाच । संवरान- ५ न्तरनिर्देशार्हेति चेत् । तथैवाभिहिता “तपसा निर्जरा च" [२३] इति । अत एव गुप्तथाद्यवसानम्, इतरथा हि उभयहेतुत्वविपर्ययेण यत्र कचनाभिधानं स्यात् ।
आह-प्रक्लप्ता निर्जरा, मोक्षोऽभिधातव्यः। स चानुपसम्प्राप्तकेवलज्ञानावस्थस्य नोपपद्यते । इति अतः केवलज्ञानमेव तावद्यथा भवति तथोपदेष्टव्यमिति ? उच्यते; नैतदपि भूयो निर्देशाई वेदितव्यम् । कुतः ? यस्माद्धथानप्रकरणे व्याख्यातम्मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥१॥ इति ।
अथवा, “सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः" [11] इत्युपक्षिप्य लक्षणोत्पत्तिविषयनिबन्धनादिभिर्विशेषैर्दर्शनचारित्रे समर्थिते, ज्ञानं च प्रमाणस्वभावं पञ्चविधमभ्युपेत्य तत्र चतुष्टयस्य लक्षणोत्पत्तिहेतुविषयनिबन्धाः प्रक्रान्ताः, अतः परमिदं वक्तव्यम्-एवमुत्पद्यते केवलमिति ? अत्र ब्रमः-न वक्तव्यं पुनः, यस्मात् पुरस्तदेव व्याख्यातम् , संवरनिरुपादानीकृतसन्ततिचारित्रध्यानाग्नि- १५ प्रज्वलितेन्धनमोहक्षयात् ज्ञानदर्शनावरणान्तरायक्षयाच केवलम् । किम् ? उत्पद्यत इत्युपदिष्टमिति वाक्यशेषः ।
वृत्तिप्रसङ्गो लध्वर्थमिति चेत्, न; क्रमेण क्षयज्ञापनार्थत्वात् ।। स्यान्मतम्-इह वृत्त्या निर्देशः कर्तव्यः मोहज्ञानदर्शनावरणान्तरायक्षयात्केवलमिति । किमर्थः ? लध्वर्थमिति तन्नः किं कारणम् ? क्रमेण क्षयज्ञापनार्थत्वात् । प्रागेव मोहक्षयमुपनीयातमुहूर्त क्षीणकषायव्यदेशमवाप्य २० ततो युगपद् ज्ञानदर्शनावरणान्तरायाणां क्षयं कृत्वा केवलमवाप्नोति ।
तत्क्षयहेतुः केवलोत्पत्तिरिति हेतुलक्षणविभक्तिनिर्देशः ।। तत्क्षयः केवलज्ञानोत्पत्ते-- हेतुरिति कृत्वा तदभिसंबन्धावद्योतिकया हेतुलक्षणया विभक्त्या निर्देशः क्रियते ।
तत्क्षयः प्रणिधानविशेषात् ।। तेषां मोहादीनां क्षयो भवति । कुतः १ प्रणिधानविशेषात् , परिणामविशेषादिति यावत् । तद्यथा-पूर्वाहितेन विधिना परमतपोविशेषैः प्रशस्ताध्यवसाय- २५ प्रकर्षात् विशुद्धयतः शुभाभिमताः प्रकृतयः स्फीतीभवन्ति, अप्रशस्ताश्च तनूभूय विलीयन्ते । तत्र कश्चिद्वेदकसम्यग्दृष्टिरप्रमत्तगुणस्थाने सप्तप्रकृत्युपशमात् श्रेण्यारोहणाभिमुखश्चारित्रमोहमुपशमयितमारभते । अपरः असंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतगुणस्थानेषु "कस्मिंश्चित
तपःसम्वन्धेन अनुभवसम्बन्धेन चेत्यर्थः । अनुभवसम्बन्धेन-१० टि०। २ तपसा निर्जरा चेत्यत्र विपाकोऽनुभवः स यथानाम ततश्च निर्जरेत्यत्र च व्याख्याता-१० टि० । ३ तत्रानुभवः संप्राप्त इति मु०, द०,०। तत्रा नुवं संप्राप्त इति-ज०। ४ प्रयोजन-१० टि। ५ यत एव संवरानन्तरं निर्देशाहवं तस्मादेव गुप्यादिसूत्रावसाने व्याख्याता सगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रै तपसा निर्जरा चेति बीचारोऽर्थव्यानयोगसंक्रान्तिरिति सूत्रव्याख्यानावसरे द्रष्टव्यम्-श्र० टि०। ६ ध्यानप्रकरणे-श्र० टि.। ७ 'सम्यग्दृष्टिश्रावक- इत्यादिसूत्रस्य व्याख्यानावसरे दुर्लभपरम्परविधानेन-१० टि०। ८ भनुभागेन-10 दि०।। पुंसः-१० टि०।१० गुणस्थाने-१० टि०।