________________
तत्त्वार्थवार्तिके
[६२६-३३ परे मोक्षहेतू ॥ २९॥ एकस्यैव परत्वमिति चेत् न; व्यघहितेऽपि परशब्दप्रयोगात् ।। स्यान्मतम्-एकस्यैव परत्वमुपपद्यते न द्वयोरिति; तन्नः किं कारणम् ? व्यवहितेऽपि परशब्दप्रयोगात्, तद्यथा परा मथुरा पाटलिपुत्रादिति ।
द्विवचननिर्देशाद्वा गौणस्यापि संप्रत्ययः ।। अथवा, परमन्त्यं तत्समीपवर्त्यपि परमित्युपचर्यते, द्विवचननिर्देशात्तस्यापि ग्रहणं भवति ।
परयोर्मोक्षहेतुत्वात् , पूर्वयोः संसारहेतुत्वप्रसिद्धिः ।३। 'परे मोक्षहेतू' इति वचनात् परिशेषात् 'पूर्वे संसारहेतू' इति विज्ञायते, तृतीयस्य साध्यस्याभावात् ।
आह-किमेषां लक्षणमिति । तत्रानेकस्य वक्तव्यसंभवे वाचः क्रमवृत्तेराद्यस्य लक्षणप्रति१० पादनार्थमिदमुच्यतेआर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः॥३०॥
अप्रियममनोशं बाधीकारणत्वात् ।। यदप्रियं वस्तु विषकण्टकशत्रुशस्त्रादि तद्वाधाकारणत्वादमनोज्ञमित्युच्यते ।
भृशमन्तिरचिन्तनादाहरणं समन्वाहारः।। अर्थान्तरचिन्तनादाधिक्येनाहरणमेकत्रा१५ वरोधः समन्वाहारः । स्मृतेः समन्याहारः स्मृतिसमन्वाहारः। अमनोज्ञस्योपनिपाते स कथं नाम मे न स्यादिति संकल्पश्चिन्ताप्रबन्धः आर्तमित्याख्यायते ।
आह-किमिदमनभिमतचेतनाऽचेतनद्रव्यपर्यायसम्प्रयोगहेतुकमेवार्थ निर्धियते ? न; किं तर्हि ? अन्यथाप्येतत् प्रत्येतव्यमित्युच्यते
विपरीतं मनोज्ञस्य ॥ ३१ ॥ प्रागुक्तनिमित्तविपर्ययाद्विपरीतम् ।। प्रागुक्तं यन्निमित्त ततो विपर्ययाद्विपरीतमित्यभिधीयते । तद्यथा मनोज्ञस्य विषयस्य विप्रयोगे संप्रयुयुक्षां प्रति या परिध्यातिः स्मृतिसमन्वाहारशब्दचोदिता असावप्यातं ध्यानमिति निश्चीयते । यथा च प्रियसमवाये तदभावादाहितकालुष्यस्यातं प्रतिज्ञायते तथा ज्वरादिसन्तापाभ्याहतमूर्तेः
वेदनायाश्च ॥ ३२॥ प्रकरणाद् दुःखवेदनासंप्रत्ययः ।। यद्यपि वेदनाशब्दः सुखदुःखानुभवनविषयसामान्यस्तथापि आर्त्तस्य प्रकृतत्वाद् दुःखवेदनासंप्रत्ययो भवति । तत्प्रतिचिकीर्षां प्रत्यागूर्णस्यानवस्थितमनसो धैर्योपरमात् स्मृतिसमन्वाहार आर्तध्यानमवगन्तव्यम् ।
अङ्गविक्षेपशोकाक्रन्दनाश्रपाताभिव्यक्तं तृतीयम् ।। यथा अनिष्टसंप्रयोगेष्टविप्रयोगाऽशुभवेदनासमवायनिबन्धनमात तथा चेदमपि प्रीतिविशेषाभिष्वङगमन्थरकामातुरमतेः पौन३० भैविकविषयसुखरसगृद्धस्य तत्संस्कारपरायणस्य कायादिखेदहेतुकम् ।
निदानं च ॥३३॥ 'विपरीतं मनोज्ञस्य' इत्येव सिद्धमिति चेत् ; न; अप्राप्तपूर्वविषयत्वान्निदानस्य ।। स्यादेतत्-विपरीतं मनोज्ञस्येत्यनेनैव निदानं संगृहीतमिति; तन्न; किं कारणम् ? अप्राप्तपूर्वविषयत्वा
बाधाकर-ज०, श्र०।२-मिति चेदप्रा-ता० ।