________________
६२६
६१३४-३५ ]
निदानस्य । सुखमात्रया प्रलम्भितस्य प्राप्तपूर्वप्रार्थनाभिमुख्यादनागतार्थप्राप्तिनिबन्धनं निदानमित्यस्ति विशेषः ।
नवमोऽध्यायः
तदेतच्चतुर्विधमार्तं कृष्णनीलकापोतलेश्यावलाधानम् अज्ञानप्रभवं पौरुषेयपरिणामसमुत्थं पापप्रयोगाधिष्ठानं परिभोगप्रसङ्गं नानासंकल्पासङ्गं धर्माश्रयपरित्यागिकषायाश्रयोपस्थानम् अनुपशमप्रवर्द्धनं प्रमादमूलमकुशलकर्मादानं कटुकविपाकासद्वेद्यं तिर्यग्भवगमनपर्यवसानम् । तदेतत् किं स्वामिकमिति चेत् ? उच्यते
तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४ ॥
अविरताः असंयतसम्यग्दृष्टयन्ताः, 'देशविरताः संयतासंयताः, प्रमत्तसंयताः पञ्चदशप्रमादोपेताः क्रियानुष्ठायिनः ।
कदाचित् प्राच्यमार्त्तध्यानत्रयं प्रमत्तानाम् |१| निदानं वर्जयित्वा अन्यदार्त्तत्रयं प्रमादोद- १० योद्रेकात् कदाचित्प्रमत्तसंयतानां भवति ।
आह-व्याख्यातमाद्यमप्रशस्तं संज्ञादिभिः अथ द्वितीयं किंस्वभावसंज्ञाप्रभवस्वामिकमिति ? अत उच्यते
हिंसा नृत स्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५ ॥
ध्यानोत्पत्ते हिंसादीनां निमित्तभावाद्धेतुनिर्देशः |१| हिंसादीन्युक्तलक्षणानि तानि १५ रौद्रध्यानोत्पत्तेर्निमित्ती भवन्तीति हेतुनिर्देशो विज्ञायते ।
तेन स्मृतिसमन्वाहाराभिसम्बन्धः |२| तेन हेतुनिर्देशेनानुवर्तमानः स्मृतिसमन्वाहारोऽभिसम्बध्यते-हिंसायाः स्मृतिसमन्वाहार इत्यादि । अविरतस्य भवतु रौद्रध्यानं देशविरतस्य कथम् ? देशविरतस्यापि हिंसाद्यावेशाद् वित्तादिसंरक्षणतन्त्रत्वाच्च |३| देशविरतस्यापि रौद्रध्यानं भवति । कुतः ? हिंसाद्यावेशात् वित्तादिसरक्षणतन्त्रत्वाच्च कदाचिद्भवितुमर्हति । तत्पुनर्नार - २० कादीनामकारणं ’सम्यग्दर्शनसामर्थ्यात् । अथ कथमिदं रौद्रध्यानं संयतस्य न भवति ?
तदयुक्तम् ; संयते तदादेशे संयमप्रच्युतेः |४| संयते रौद्रध्यानं न युज्यते । कुतः ? तदावेशे संयमप्रच्युतेः । यदा रौद्रध्यानाविशिष्टो (नाविष्टो ) भवत्यात्मा न तदा संयमोऽत्रावतिष्ठते । तद्तच्चतुर्विधं रौद्रध्यानम् अतिकृष्णनीलकापोतलेश्यावलाधानं प्रमादाधिष्ठानं नरकगतिफलावसानम् । एवमुक्ताप्रशस्तध्यानपरिणत आत्मा तप्तायस्पिण्ड इवोदकं कर्मादत्ते ।
आह-परे मोक्षहेतू इति ये उपदिष्टेऽनिर्दिष्टसंज्ञाभेदस्वभावे, तयोस्तावदाद्यं किमभिधानप्रकारस्वभावविषयमिति ? अत्रोच्यते - तत्खलु सम्यग्ज्ञानवीजमुप रामोत्थमप्रमादसञ्चितं मोहचनं धर्मानुबन्धि सुखफलं त्रिविष्टपावसानम् ।
१ तेषामार्तं चतुर्विधमपि संभवति श्र० टि० । २ तेषां प्रमत्तसंयतानां च निद्राजं च संभवति, सति निदाने सशल्यत्वेन वतित्वायोगात् । व्यवहारतो देशविरतस्य चतुर्विधमपि भवति, स्वल्प निदानेन अणुवतित्वस्याविरोधात् श्र० टि० । ३ अत्राप्यकारणत्वं भवतु इति चेत् अधिकृत सम्यग्दर्शनसामर्थ्यात् सम्यग्टष्टीनामेतद्ग्रहणम् - श्र० टि० । ४ तर्हि - श्र० टि० । ५ - शमार्थमप्र-म० द०, ब० । ६ मोहच्छेदनमित्यर्थः - श्र० टि० ।
२५