SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ हा२८] नयमोऽध्यायः ६२७ प्राधान्याचिनो वैकशब्दस्य ग्रहणम् ।२०। अथवा, प्राधान्यवचने एकशब्द इह गृह्यते, प्रधानस्य पुंस आभिमुख्येन चिन्तानिरोध इत्यर्थः, अस्मिन्पक्षेऽर्थो गृहीतः। अङ्गतीत्यग्रमात्मेति वा ।२१। अथवा, अङ्गतीत्यग्रमात्मेत्यर्थः। द्रव्यार्थतयैकस्मिन्नात्मन्यग्रे चिन्तानिरोधो ध्यानम, ततः स्ववृत्तित्वात् बाह्यध्येयप्राधान्यापेक्षा निवर्तिता भवति । दिवसमासाद्यवस्थानमुपयुक्तस्येति चेत्, न; इन्द्रियोपघातप्रसङ्गात् ।२२। स्यादेतत्- ५ ध्यानोपयोगेन दिवसमासाद्यवस्थानं नान्तमुहूर्तादिति; तन्नः किं कारणम् ? इन्द्रियोपघातप्रसङ्गात् । प्राणापानाने ग्रहो ध्यानमिति चेत् ; न; शरीरपातप्रसङ्गात् ।२३। स्यादेतत्-प्राणापानकर्मणो निग्रहो ध्यानमिति; तन्नः किं कारणम ? शरीरपातप्रसङ्गात । प्राणापाननिग्रहे सति तदर्भ प्रकर्षात आश्वव शरीरस्य पातः प्रसज्येत । तस्मान्मन्दमन्दप्राणापानप्रचारस्य ध्यानं युज्यते । मात्राकालपरिगणनमिति चेत् ;न; ध्यानातिक्रमात् ।२४। स्यान्मतम्-मात्राकालपरिगणनं १० ध्यानमिति; तन्नः किं कारणम् ? ध्यानातिक्रमात् । मात्राभिर्यदि कालगणनं क्रियेत ध्यानमेव न स्याद्वैयग्रयात् । विध्युपायनिर्देशः कर्तव्य इति चेत्, न; गुप्त्यादिप्रकरणस्य तादात् ।२५। स्यान्मतम्एकाग्रचिन्तानिरोधो ध्यानमित्येतद्युक्तं किन्तु तदुत्पत्तये विध्युपायनिर्देशः कर्तव्यः-अनेन विधिना ध्यानं भवतीति तन्नः किं कारगम? गुप्त्यादिप्रकरणस्य तादात्। ध्यानविधान- १५ भावनार्थमेव हि गुप्त्यादिप्रकरणं प्रक्रान्तम् । - संवरार्थं तदिति वेत् ;न: प्रागुपदेशस्योभयार्थत्वात् ।२६। स्यान्मतम्-संवरप्रतिपत्त्यर्थ तद्प्त्यादि प्रकरणमुक्तं न ध्यानोपायप्रतिपत्त्यर्थम् , न चान्यार्थ प्रकृतमन्यार्थ भवतीति; तन्न किं कारणम् ? प्रागुपदेशस्योभयार्थत्वात् । अन्यार्थमपि प्रकृतमन्यार्थं भवति, तद्यथा-शाल्यर्थ कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते, उपस्पृश्यते च, शालयश्च भाव्यन्ते । सकलध्यानधर्मासंग्रह इति चेत् । न; ध्यानप्राभृते प्रणीतत्वात् ।२७। स्यान्मतम्-सकलो ध्यानधर्मा नास्मिन्सूत्रे संग्रहीत इत्यपरिपूर्ण लक्षणमिति; तन्न; किं कारणम् ? ध्यानप्राभृते प्रणीतत्वात् । तत्र हि ध्यानलक्षणं सकलं प्राधान्येनोक्तम, इह त्वानुपङ्गिकमिति । तस्य ध्यानस्य सामान्येनोक्तस्य विकल्पप्रतिपत्त्यर्थमिदमुच्यते आर्तरौद्रधाशुक्लानि ॥ २८ ॥ ऋनमर्दनमात्तिर्वा तत्र भवमार्तम् ।। ऋतं दुःखम् , अथवा अनमातिर्वा, तत्र भवमात्तम् । रुद्रः करस्तत्कर्म रौद्रम् ।। रोदयतीति रुद्रः क्रूर इत्यर्थः, तस्येदं कर्म तत्र भवं वा रौद्रमित्युच्यते । धर्मादनयेतं धर्म्यम् ।३। धर्मो वर्णितः, ततोऽनपेतं ध्यानं धर्म्यमित्याख्यायते । शुचिगुणयोगाच्छुक्लम् ।४। यथा मलद्रव्यापायात् शुचिगुणयोगाच्छुक्लं वस्त्रं तथा तद्गुगसाधादात्मपरिणामस्वरूपमपि शक्लमिति निरुच्यते । तदेञ्चतुर्विधं ध्यानं द्वैविध्यमश्नुते । कुतः ? प्रशस्ताऽप्रशस्तभेदात् । अप्रशस्तम् अपुण्यासवकारणत्वात् । कर्मनिर्दहनसामर्थ्यात् प्रशस्तम् । किं पुनस्तदिति चेत् ? उच्यते आत्मन:-श्र० टि० । २ जानाति-श्र० टि० । ३ लोके दृश्यते -श्र० टि०। ४ यदि मासादिपर्यन्तमिन्द्रियोपरोधः स्यात्तहि विपयव्यापृति(स्य)भावात् इन्द्रियाणामप्यभावः-१० टि०। ५-नविनि-मु० द०, ब०, ज० । ६-नानित-मु०, द० ब० । ७ उपस्पर्शस्तु आचमनम्-श्र.टि.। २० २५
SR No.022021
Book TitleTattvarth Varttikam Part 02
Original Sutra AuthorN/A
AuthorAkalankadev, Mahendrakumar Jain
PublisherBharatiya Gyanpith
Publication Year2009
Total Pages456
LanguageSanskrit
ClassificationBook_Devnagari & Tattvartha Sutra
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy