________________
यातिानमिति
५
६२६ तत्त्वार्थवार्तिके
[ २७ ___ ध्यानशब्दो भावकर्तृकरणसाधनो विवक्षावशात् ।८। अयं ध्यानशब्दः भावकर्तृकरणसाधनो विवक्षावशाद्वेदितव्यः। तत्र ध्येयं प्रति अव्यापृतस्य भावमात्रेणाभिधाने ध्यातिाना भावसाधनो ध्यानशब्दः, ध्यायतीति ध्यानमिति बहुलापेक्षया कर्तृसाधनश्च युज्यते । करणप्रशंसापरायामभिधानप्रवृत्तौ समीक्षितायां यथा साध्वसिश्छिनत्तीति प्रयोक्तृनिवर्त्ययोः सतोरप्युद्यमननिपातनयोरविशेषतन्त्रत्वाच्छेदनस्य कर्तृधर्माध्यारोपः क्रियते तथा दिध्यासोरप्यात्मनः ज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषतन्त्रत्वात् ध्यानपरिणामस्य युज्यते कर्तृत्वम् । करणत्वमपि चास्य पर्यायपर्यायिणोर्भेदपरिकल्पनासद्भावात् युज्यते अग्नेहपाकस्वेदादिक्रियाप्रवृत्तस्यात्मभूतोपुण्यकरणपरिकल्पनवत् ।
एकान्तकल्पनायां दोषविधानमुक्तम् ।। अर्थान्तरभावोऽनर्थान्तरभाव एवेत्येकान्त१० कल्पनायां दोषविधानमुक्तम् । क ? आदिसूत्रे ।।
प्रतीतपरिमाणो मुहत्तः ।१०। मुहूर्त इति कालविशेषवाचिशब्दः, तस्य परिमाष्पं प्राग्विहितम् ।
उत्तमसंहननाभिधानम् अन्यस्येयकालाध्यवसायधारणाऽसामर्थ्यात् ।११। अन्यत्संहननमेतावन्तं कालं चिन्तानिरोधधारणे साधनभावं प्रत्यसमर्थमिति उत्तमसंहननग्रहणं क्रियते ।
___ एकाप्रवचनं वैयनयनिवृत्त्यर्थम् ।१२। एकाग्रवचनं क्रियते वैयप्रथनिवृत्त्यर्थम् । व्यग्रं हि ज्ञानमेव न ध्यानमिति ।।
चिन्तानिरोधग्रहणं तत्स्वाभाव्यप्रदर्शनार्थम् ।१३॥ यथा पृथिव्याः कस्मिंश्चित् परिणामविशेषे घटशब्दो वर्तते एवं चिन्तायाः ज्ञानात्मिकायाः वृत्तिविशेष ध्यानशब्दो वर्त्तते इति प्रदर्शनार्थ चिन्तानिरोध इति विशेष्यते । ___ ध्यानमित्यधिकृतस्वरूपनिर्देशार्थम् ।१४। यत्तदधिकृतमुत्तमं (२) तपः, तत्स्वरूपनिर्देशार्थ ध्यानवचनं क्रियते ।
___ मुहत्तवचनादाहरीदिव्यावृत्तिः ।१५। आहरादिकालान्तरव्यावृत्त्यर्थ मुहूर्त्तवचनं क्रियते । अतः परं दुर्धरत्वात् ।
__ अभावो निरोध इति चेत् न; केनचित् पर्यायेणेतृत्वात् ।१६। स्यान्मतम्-अभावो निरोध २५ इत्यनर्थान्तरम्, स चेत् ध्यानशब्दार्थः खरविषाणवत् ध्यानमसत्प्रसजतीति; तन्न, किं कारणम् ?
केनचित्पर्यायेणेष्टत्वात् । अन्यचिन्ताऽभावविक्षायामसदेव ध्यानम् , विवक्षितार्थविषयावगमस्वभावसामर्थ्यापेक्षया सदेवेति चोच्यते ।
___ अभावस्य च वस्तुत्वाद्धत्वङ्गत्वादिति ।१७। अभावोऽप्ययं वस्तुधर्मः। कुतः ? हेत्वङ्गत्वादिभिः, ततश्चोपालम्भाभावः। ३० एकार्थवचनं विस्पष्टत्वादिति चेत् ; न; अनिष्टप्रसङ्गगात् ।१८। स्यान्मतम्-एकार्थचिन्ता
निरोध इत्यस्तु विस्पष्टत्वादिति; तन्न; किं कारणम् ? अनिष्टप्रसङ्गात् । किमनिष्टम् ? “वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः" [४] इति वक्ष्यते, तेनार्थसंक्रम इष्यते-द्रव्यात्पर्याये पर्यायाञ्च द्रव्ये । यद्येकार्थे निरोध इह गृह्यत; तद्विरोधः स्यात् ।
____ एकाग्रवचनेऽपि तुल्यमिति चेत् ; न आभिमुख्य सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थ३५ त्वात् ।१६। अथ मतमेतत्-एकाग्रवचनेऽपि तस्यानिष्टस्य प्रसङ्गः तुल्य इति; तन्न; किं कारणम् ?
आभिमुख्ये सति पौनःपुन्येनापि प्रवृत्तिज्ञापनार्थत्वात् । अयं मुखमिति घुच्यमानेऽनेकमुखत्वं निवतितं एकमुखे तु संक्रमोऽभ्युपगत एवेति नानिष्टप्राप्तिः ।
1-दिविनिवृ-मु०, द०, ब० । दिनपर्यन्तमित्यर्थः-सं० । २ विपक्षाद् व्यावृत्तिलक्षण-श्र० टि.। ३ -पिवृत्तिविज्ञानार्थत्वात् मु०, ज०, द०, ब०। -पि वृत्तिज्ञा-श्र० भा, १।४ द्रव्यपर्यायादीनामन्यतमे -श्र० टि०।