________________
१२७]
नवमोऽध्यायः परिग्रहनिवृत्तेरवचन मिति चेत् न; तस्य धनहिरण्यवसनादिविषयत्वात् ।६। स्यादेतत्महाव्रतोपदेशकाले परिग्रहनिवृत्तिरुक्ता, ततः पुनरिदं वचनमनर्थकमिति; तन्नः किं कारणम् ? तस्य धनहिरण्यवसनादिविषयत्वात् ।
धर्माभ्यन्तरे भावादिति चेत् : न प्रासुकनिरवद्याहारादिनिवृत्तितन्त्रत्वात् ।। स्यादेतत्दशविधधर्मेऽन्तरीभूतस्त्याग इति पुनरिदं वचनमनर्थकमिति; तन्नः किं कारणम् ? प्रासुकनिरवद्या- ५ हारादिनिवृत्तितन्त्रत्वात् तस्य ।
प्रायश्चित्ताभ्यन्तरत्वादिति चेतन: तस्य प्रतिद्वन्द्विभावात।। अथमतमेतत-प्रायश्चित्ताभ्यन्तरो व्युत्सर्गस्ततः पुनस्तस्य वचनमनर्थकमिति; तन्न; किं कारणम् ? तस्य प्रतिद्वन्द्विभावात् , तस्य हि व्युत्सर्गस्यातिचारः प्रतिद्वन्द्वी विद्यते, अयं पुनरनपेक्षः क्रियते इत्यस्ति विशेषः ।
अनेकत्रावचनमनेनैव गतत्वादिति चेत् । न शक्त्यपेक्षत्वात् ।अनेकत्र वचनमनर्थकम्, १० इदमेवास्तु पर्याप्तमिति; तन्न; किं कारणम् ? शक्त्यपेक्षत्वात् । कचित् सावा प्रत्याख्यायते कचित् [निरवद्यम् ]निरवद्यमपि नियतकालं क्वचिदनियतकालं पुरुपशक्त्यपेक्षत्वानिवृत्तिधर्मस्य, उत्तरोत्तरगुणप्रकर्षादुत्साहोत्पादनार्थत्वाञ्च न पौनरुक्त्यम् । किमर्थं पुनर्युत्सर्गः ? .
निःसङ्गनिर्भयत्वजीविताशाव्युदासाद्यर्थों व्यत्सर्गः ॥१०॥ निःसङ्गत्वं निर्भयत्वं जीविताशाव्युदासः दोषोच्छेदो मोक्षमार्गभावनापरत्वमित्येवमाद्यर्थी व्युत्सर्गोऽभिधीयते द्विविधः । १५
आह-अभ्यन्तरतपः षोढा प्रतिज्ञाय प्रारध्यानादिति यत्सन्यस्तं तपो ध्यानाभिधानं तदनाविष्कृतार्थ प्राप्तविचारकालमिति, अत्रोच्यतेउत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहुर्तात् ॥ २७ ॥ आद्यं रहननत्रयमुत्तमम् ।। वज्रवृपभन्ाराचसंहनन वज्रनाराचसहनन नार
नाराचसंहननं वज्रनाराचसंहननं नाराचसंहननमित्येतत्रितयं संहननमुत्तमम । कुतः ? ध्यानादिवृत्तिविशेषहेतुत्वात् । तत्र मोक्षस्य कारणमाद्य- २० मेकमेव । ध्यानस्य त्रितयमपि । उत्तमं संहननं यस्य स उत्तमसंहननः तस्य उत्तमसंहननस्य ।
एकशब्दः संख्यापदम् ।२। अन्यासहायाद्यनेकार्थसंभवे एकशब्दोऽत्र संख्यावाची गृह्यते ।
अङ्ग्यते तदङ्गमिति तस्मिन्निति वायं मुखम् ।३। अगेर्गत्यर्थस्य कर्मण्यधिकरणे वा उणादौ रगनिपातितः "वज्रन्द्राग्रे" इति [ ] अत्र अग्रं मुखमित्यर्थः ।
चिन्ता अन्तःकरणवृत्तिः ।४। अन्तकरणस्य वृत्तिरर्थेपु चिन्तेत्युच्यते ।
अनियतक्रियार्थस्य नियतक्रियाकर्तृत्वेनावस्थानं निरोधः ।५। गमनभोजनशयनाध्ययनादिषु क्रियाविशेषेषु अनियमेन वर्तमानस्य एकस्याः क्रियायाः कर्तृत्वेनावस्थानं निरोध इत्यवगम्यते । एकमग्रं मुखं यस्य सोऽयमेकाग्रः, चिन्ताया निरोधः चिन्तानिरोधः, एकाग्रे चिन्तानिरोधः एकाग्रचिन्तानिरोधः । कुतः पुनरसौं एकाग्रत्वेन चिन्तानिरोधः ? . वीर्यविशेषात् प्रदीपशिखावत् ।६। यथा प्रदीपशिखा निराबाधे प्रज्वलिता न परिस्पन्दते ३० तथा निराकुले देशे वीर्यविशेषादवरुध्यमाना चिन्ता विना व्याक्षेपेण एकाग्रेणावतिष्ठते ।
अर्थपर्यायवाचो वा अग्रशब्दः । अथवा अङ्ग्यते इत्यग्रः अर्थ इत्यर्थः, एकमग्रं एकाग्रम्, एकाग्रे चिन्ताया निरोधः एकाग्रचिन्तानिरोधः। 'योगविभागान्मयूरव्यंसकादित्वाद्वा वृत्तिः । एकस्मिन् द्रव्यपरमाणौ भावपरमाणौ वाऽर्थे चिन्तानियम इत्यर्थः ।।
पूर्वप्रयोगं दर्शयति-श्र० टि०। २ निरोधः-श्र० टि०। ३ एकाग्रे इत्यत्र चाधारसप्तमी आधाराधेयत्वयोगात् नतु निमित्तसप्तमी कर्माभावात् । एवमादि सप्तम्याप्रतीतौ कथमेकाग्रे । ४ स्वमतसूत्रपाठे सप्तमी शौण्डादिभिः इत्यत्र द्रष्टव्यम्-श्र० टि० ।