________________
६२४ तत्त्वार्थवार्तिके
[ ६२५-२६ समाध्याधानविचिकित्साभावप्रवचनवात्सल्याद्यभिव्यक्त्यर्थम् ।१७। समाध्याधानं विचिकित्साभावः प्रवचनवात्सल्यं सनाथता चेत्येवमाद्यभिव्यक्त्यर्थ वैयावृत्त्यमिष्यते । किमर्थ बहूनामुपक्षेपः क्रियते, ननु सङ्घवैयावृत्त्यं गणवैयावृत्त्यमिति वा वक्तव्यम् ?
बहूपदेशात् क्वचिनियमेन प्रवृत्तिज्ञापनाय भूयसामुपन्यासः ।१८। बहुषु वैयावृत्त्यार्हे - ५ पदिष्टेषु क्वचित् कस्यचित् प्रवृत्तिर्यथा स्यादित्येवमाद्यर्थ भूयसामुपन्यासः क्रियते । _ आह-व्याख्यातं वैयावृत्त्यम् , तत्समीपोदेशभाजः स्वाध्यायस्येदानी निर्देशः करणीय इति ? अत्राभिधीयते
वाचनापृच्छनानुप्रेक्षाम्नायधर्मोपदेशः ॥२५॥ निरवद्यग्रन्थार्थोभयप्रदानं वाचना ।। अनपेक्षात्मना विदितवेदितव्येन निरवद्यग्रन्थ१० स्यार्थस्य तदुभयस्य वा पात्रे प्रतिपादनं वाचनेत्युच्यते ।।
___ संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः पृच्छनम् ।२। आत्मोन्नतिपरातिसन्धानोपहाससंघर्षप्रहसनादिविवर्जितः संशयच्छेदाय निश्चितबलाधानाय वा ग्रन्थस्यार्थस्य तदुभयस्य वा परं प्रत्यनुयोगः पृच्छनमिति भाष्यते ।
अधिगतार्थस्य मनसाऽभ्यासोऽनुप्रेक्षा ।३। अधिगतपदार्थप्रक्रियस्य तप्तायस्पिण्डवदर्पित१५ चेतसो मनसाऽभ्यासोऽनुप्रेक्षा वेदितव्याः ।
घोषविशुद्धपरिवर्तनमाम्नायः ।४। तिनो वेदितसमाचारस्यैहलौकिकफलनिरपेक्षस्य द्रुतविलम्बितादिघोषविशुद्धं परिवर्तनमाम्नाय इत्युपदिश्यते । ......
. धर्मकथाद्यनुष्ठानं धर्मोपदेशः ।। दृष्टप्रयोजनपरित्यागादुन्मार्गनिवर्तनार्थ सन्देहव्यावर्त्तनापूर्वपदार्थप्रकाशनार्थ धर्मकथाद्यनुष्ठानं धर्मोपदेश इत्याख्यायते । किमर्थोऽयं स्वाध्यायः ?
प्रशातिशयप्रशस्ताध्यवसायाद्यर्थः स्वाध्यायः।६। प्रज्ञातिशयः प्रशस्ताध्यवसायः प्रवचनस्थितिः संशयोच्छेदः परवादिशङ्काभावः परमसंवेगः तपोवृद्धिरतिचारविशुद्धिरित्येवमाद्यर्थः स्वाध्यायोऽनुष्ठेयः। ____ आह-वर्णितः पञ्चविधः स्वाध्यायः, तदनन्तरमुद्दिष्टो यो व्युत्सर्गस्तस्य भेद इदानीं वक्तव्य इति ? अत्राभिधीयते
बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ व्युत्सर्ग इत्यनुवृत्तव्यतिरेकनिर्देशः ।। व्युत्सर्जनं व्युत्सर्ग इति भावसाधनः शब्दोऽनुवर्तते, तदपेक्षोऽयं व्यतिरेकनिर्देशः ।
उपधीयते बलाधानार्थमित्युपधिः ।। योऽर्थोऽन्यस्य बलाधानार्थमुपधीयते स उपधिरित्युच्यते।
__ अनुपात्तवस्तुत्यागो बाह्योपधिव्युत्सर्गः ।३आत्मनाऽनुपात्तस्य एकत्वमनापन्नस्य वस्तुनस्त्यागो बाह्योपधिव्युत्सर्गोऽवगन्तव्यः।।
___ क्रोधादिभावनिवृत्तिरभ्यन्तरोपधिव्युत्सर्गः।४। क्रोधमानमायालोभमिथ्यात्वहास्यरत्यरतिशोकभयादिदोषनिवृत्तिरभ्यन्तरोपधिव्युत्सर्ग इति निश्चीयते ।
कायत्यागश्च नियतकालो यावज्जीवं वा ।। कायत्यागश्चाभ्यन्तरोपधिव्युत्सर्ग इत्युच्यते । ३५ स पुनर्द्विविधः-नियतकालो यावज्जीवं चेति ।
1-संघोषप्र-मु०, द०, ब० ।