________________
२४ ] नवमोऽध्यायः
६२३ सम्यगाराधनमित्येवमादीनां सिद्धिर्भवति विनयभावनेन, ततश्च निवृत्तिसुखमिति विनयभावनं क्रियते ।
आह-विनयो वर्णितः, तदनन्तरोदेशभाजो वैयावृत्त्यस्येदानी विवरणं कर्तव्यमिति, अत इदमुच्यते
आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसङ्घ
साधुमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यमित्यनुवृत्तः प्रत्येकमभिसम्बन्धः ।। वैयावृत्त्यमित्यनुवर्तते तेन प्रत्येकमभिसंबन्धो भवति-आचार्यवैयावृत्त्यमुपाध्यायवैयावृत्त्यमित्यादि ।
. व्यावृत्तस्य भावः कर्म च वैयावृत्त्यम् ।२। कायचेष्टया द्रव्यान्तरेण वा व्यावृत्तस्य भावः । कर्म वा वैयावृत्त्यमित्युच्यते ।
आचरन्ति यस्माद् व्रतानीत्याचार्यः ।३। यस्मात् सम्यग्ज्ञानादिगुणाधारादाहृत्य व्रतानि स्वर्गापवर्गसुखामृतबीजानि भव्या हितार्थमाचरन्ति स आचार्यः ।
उपेत्य 'यस्मादधीयते इत्युपाध्यायः ।। विनेयेनोपेत्य यस्माद् व्रतशीलभावनाधिष्ठानादागमं श्रुताख्यमधीयते स उपाध्यायः ।
महोपवासाधनुष्ठायी तपस्वी ।। महोपवासादिलक्षणं तपोऽनुतिष्ठति यः स तपस्वी- १५ त्युच्यते । कुत एतत् ? अतिशयार्थे मत्वर्थीयप्रयोगात् ।
शिक्षाशीलः शैक्ष्यः' ।६। श्रुतज्ञानशिक्षणपरः अनुपरतव्रतभावनानिपुणः शैक्षक इति लक्ष्यते ।
रुजादिक्लिष्टशरीरो ग्लानः ।। रुजादिभिः क्लिष्टशरीरो ग्लान इत्युच्यते । गणः स्थविरसन्ततिः।। स्थविराणां सन्ततिर्गण इत्युच्यते ।
दीक्षकाचार्यशिष्यसंस्त्यायः कुलम् ।। दीक्षकस्याचार्यस्य शिष्यसंस्त्यायः कुलव्यपदेशमर्हति ।
चतुर्वर्णश्रमणनिवहः संघः ।१०। चतुर्वर्णानां श्रमणानां निवहः सङ्घ इति समाख्यायते । चिरप्रव्रजितः साधुः ।११। चिरकालभावितप्रव्रज्यागुणः साधुरित्याम्नायते । मनोज्ञोऽभिरूपः।१२। अभिरूपो मनोज्ञ इत्यभिधीयते ।
२५ सम्मतो वा लोकस्य विद्वत्तावक्तृत्वमहाकुलत्वादिभिः ।१३। अथवा विद्वान् वाग्मी महाकुलीन इति यो लोकस्य सम्मतः स मनोज्ञः, तस्य ग्रहणं प्रवचनस्य लोके गौरवोत्पादनहेतुत्वात् ।
__ असंयतसम्यग्दृष्टिा ।१४। अथवा, असंयतसम्यग्दृष्टिमनोज्ञ इति गृह्यते संस्कारोपेतरूपत्वात्।
तेषां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते तत्प्रतीकारो वैयावृत्त्यम् ॥१५॥ तेषामाचार्यादीनां व्याधिपरीषहमिथ्यात्वाद्युपनिपाते प्रासुकौषधिभक्तपानप्रतिश्रयपीठफलकसंस्तरणादिभिर्धर्मोपकरणैस्तत्प्रतीकारः सम्यक्त्वप्रत्यवस्थापनमित्येवमादि वैयावृत्त्यम् । __बाह्यद्रव्यासंभवे स्वकायेन तदानुकूल्यानुष्ठानं च ।१६। बाह्यस्यौषधभक्तपानादेरसंभवेऽपि स्वकायेन श्लेष्मसिकाणकाद्यन्तर्मलापकर्षणादि तदानुकूल्यानुष्ठानं च वैयावृत्त्यमिति कथ्यते। ३५
तत्पुनः किमर्थमिति चेत् ? उच्यते
३०
१ तस्मा-मू०, ता०, १० । २ शैक्षः भा० १, २ । ३ शैक्ष इ-श्र० ।