________________
६२२
तस्वार्थवार्तिके
सन्निधानेन विस्मरणे सति पुनरनुष्ठाने प्रतिक्रमणं तस्य प्रायश्चित्तम् । भयत्वरणविस्मरणाऽनवबोधाशक्तिव्यसनादिभिर्महाव्रतातिचारे सति प्राक्छेदात् षड्विधं प्रायश्चित्तं विधेयम् । शक्तथनिगूहने प्रयत्नेन परिहरतः कुतश्चित्कारणादुप्रासुकग्रहणग्राहणयोः प्रासुकस्यापि प्रत्याख्यातस्य विस्मरणात् प्रतिग्रहे च स्मृत्वा पुनस्तदुत्सर्जनं' प्रायश्चित्तम् । दुःस्वप्न दुश्चिन्तनमलोत्सर्जन मूत्रातिचारमहा५ नदीमहाटवीतरणादिषु व्युत्सर्गः प्रायश्चित्तम् । बहुकृत्वः प्रमादबहुदृष्टापराधर्मेत्यनीकषृत्तिविरुद्धदृष्टीनां यथाक्रमं 'छेदमूलभूम्यनुपस्थापनपारश्चिकविधानं क्रियते । अपकृष्ट्याचार्यमूले प्रायचित्तग्रहणमनुपस्थापनम् । आचार्यादाचार्यान्तरप्रापणमातृतीयं पारचिकम् । तदेतन्नवविधं प्रायवित्तं देशकालशक्तिसंयमाद्यविरोधेनापराधानुरूपं दोषप्रशमनं चिकित्सितवद्विधेयम् । जीवस्यासंख्येयलोकपरिमाणाः परिणामविकल्पाः, अपराधाश्च तावन्त एव, न तेषां तावद्विकल्पं प्रायश्चित्त१० मस्ति । व्यवहार नयापेक्षया पिण्डीकृत्य प्रायश्चित्तविधानमुक्तम् ।
आह-व्याख्यातं प्रायश्चित्तम्, इदानीं तदनन्तरमुद्दिष्टस्य विनयस्य विकल्पा वक्तव्याः ?
अत्रोच्यते
[२३
ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥
विनय इत्यनुवृत्तेः प्रत्येकमभिसंबन्धः | १| विनय इत्यनुवर्त्तते, तेन प्रत्येकमभिसंबन्धो १५ भवति - ज्ञानविनयो दर्शनविनयश्चारित्रविनय उपचारविनयश्चेति ।
तत्र सबहुमानज्ञानग्रहणाभ्यासस्मरणादिर्शानविनयः |२| अनलसेन शुद्धमनसा देशकालादिविशुद्धिविधानविचक्षणेन सबहुमानो यथाशक्ति निषेव्यमाणो मोक्षार्थं ज्ञानग्रहणाभ्यासस्मरणादिर्ज्ञानविनयो वेदितव्यः ।
पदार्थश्रद्धाने निशङ्कितत्वादिलक्षणोपेतता दर्शन विनयः | ३ | सामायिकादौ लोकबिन्दुसार - २० पर्यन्ते श्रुतसमुद्रे ये यथा भगवद्भिरुपदिष्टाः पदार्थाः तेषां तथाश्रद्धाने निःशङ्कितत्वादिलक्षणोपेतता दर्शनविनयो वेदितव्यः ।
तद्वतश्चरित्रे समाहितचित्तता चारित्रविनयः |४| तद्वतो ज्ञानदर्शनवतः पचविधदुश्चरचरणश्रवणानन्तरमुद्भिन्नरोमावाभिव्यज्यमानान्तर्भक्तः परप्रसादो मस्तकाञ्जलिकरणादिभिर्भावतश्चानुष्ठातृत्वं चारित्रविनयः प्रत्येतव्यः ।
२५ प्रत्यक्षेष्वाचार्यादिषु पूजनीयेष्वभ्युत्थानाभिगमनाञ्जलिकरणादिरुपचारविनयः |५| प्रत्यक्षेष्वाचार्यादिषु पूजनीयेषु अभ्युत्थानाभिगमनाञ्जलिकरणवन्दनानुगमनादिरात्मानुरूप उपचारविनयोऽवगन्तव्यः ।
परोक्षेष्वपि कायवायनोभिरञ्जलिक्रियागुण संकीर्तनानुस्मरणादिः | ६| परोक्षेष्वाचार्यादिष्वञ्जलिक्रियागुणसंकीर्तनानुस्मरणज्ञानानुष्ठायित्वादिः कायवाङ्मनोभिरवगन्तव्यः । किमर्थ - ३० मिदं विनयभावनम् ?
ज्ञानलाभाचारविशुद्धि सम्यगाराधनाद्यर्थं विनयभावनम् || ज्ञानलाभः आचारविशुद्धिः
१ - दुकनं प्रा-मु०, द०, ब०, ज० । २ -सूत्राति- ता०, श्र० ज० । ३ बहुभिः पुरुषैः - श्र० टि० । ४ आचार्यादीनाम् श्र० टि० । ५ विराधितसम्यक्त्वानाम् श्र० टि० । ६ छेदः मूलभूम्यनुपस्थानं पारंचिकमु०, ५०, ब० । ७ गृहस्थताप्रापणमित्यर्थः - श्र० टि० । ८ अपरकृष्ट्या - मु०, द०, ब० । ६ परानञ्चतीति तस्य भावः - श्र० टि० । १० - र्थाः यथालक्षणा वर्तन्ते नान्यथा वादिनो जिनाः इति निःसंशयोपेतता दर्शनविनय इत्याख्यायते तद्वत-मु० । -थः तद्वत- ज०, द०, ब० ।