________________
-
६२१
२२]
नवमोऽध्यायः उपकरणेषु दत्तेषु प्रायश्चित्तं मे लघु कुर्वन्तीति विचिन्त्य दानं प्रथममालोचनदोषः ।१। प्रकृत्या दुर्बलो ग्लानोऽहं उपवासादि न कर्तुमलं यदि लघु दीयेत ततो दोषनिवेदनं करिष्ये इति वचनं द्वितीयो दोषः ।। अन्यादृष्टदोषगूहनं कृत्वा प्रकाशदोषनिवेदनं मायाचारस्तृतीयो दोषः।३। आलस्यात् प्रमादाद्वा अल्पापराधावबोधनिरुत्सुकस्य स्थूलदोषप्रतिपादनं चतुर्थः ।४। महादुश्चरप्रायश्चित्तभयान्महादोषसंवरणं कृत्वा तनुप्रमादाचारनिबोधनं पञ्चमः ।। ईहशेब्रतातिचारे सति किन्नः स्या- ५ त्प्रायश्चित्तमित्युपायेन गुरूपासना षष्ठः ।६। पाक्षिकचातुर्मासिकसांवत्सरिकेषु कर्मसु महति यतिसमवाये आलोचनशब्दाकुले पूर्वदोषकथनं सप्तमः ।। गुरूपपादितं प्रायश्चित्तं किमिदं युक्तम् आगमे स्यान्नवेति शङ्कमानस्यान्यसाधुपरिप्रश्नोऽष्टमः।८। यत्किञ्चित्प्रयोजनमुद्दिश्यात्मना समानायव प्रमादाचरितमावेद्य महदपि गृहीतं प्रायश्चित्तं न फलकरमिति नवमः ।।। अस्यापराधेन ममातिचारः समानः तमयमेव वेत्ति अस्मै यहत्तं तदेव मे युक्तं लघूकर्त्तव्यमिति स्वदुश्चरितसंवरणं दशमो १० दोषः ।१०।
आत्मन्यपराधं चिरमनवस्थाप्य निकृतिभावमन्तरेण वालवहजुबुद्धथा दोपं निवेदयतः न ते दोषा भवन्त्यन्ये च । संयतालोचनं द्विविषयमिष्टमेकान्ते, संयतिकालोचनं त्र्याश्रयं प्रकाशे। लज्जापरपरिभवादिगणनया निवेद्यातिचारं यदि न शोधयेद् अपरीक्षितायव्ययाधमर्णवदवसीदति । महदपि तपस्कर्म अनालोचनपूर्वकम् नाभिप्रेतफलप्रदम् आविरिक्तकायगतौषधवत् कृतालोचनस्यापि १५ 'गुरुमतप्रायश्चित्तमकुर्वतोऽपरिकर्मसरयवत् महाफलं न स्यात् । कृतालोचनचित्तगतं प्रायश्चित्तं परिमृष्टदर्पणतलरूपवत् परिभ्राजते।
मिथ्यादुष्कृताभिधानाद्यभिव्यक्त प्रतिक्रिया प्रतिक्रमणम् ।। कर्मवशप्रमादोदयजनितं मिथ्या मे दुष्कृतमित्येवमाद्यभिव्यक्तः प्रतीकारः प्रतिक्रमणमित्युच्यते।
तदुभयसंसर्ग सति शोधनात्तदुभयम् ।४। किश्चित्कर्म आलोचनमात्रादेव शुद्ध्यति, अपरं २० प्रतिक्रमणेन, इतरत्पुनस्तदुभयसंसर्गे सति शुद्धिमुपयातीति तदुभयमित्युपदिश्यते ।
इदमयुक्तं वर्तते । किमत्रायुक्तम ? 'अनालोचयतः न किञ्चिदपि प्रायश्चित्तम्' इत्युक्तम् , पुनरुपदिष्टम्-'प्रतिक्रमणमात्रमेव शुद्धिकरम्' इति, एतदयुक्तम् । अथ तत्राप्यालोचनपूर्वकत्वमभ्युपगम्यते, तदुभयोपदेशो व्यर्थः; नैप दोपः; सर्व प्रतिक्रमणमालोचनपूर्वकमेव, किन्तु पूर्व गुरुणाभ्यनुज्ञातं शिष्येणैव कर्त्तव्यम , इदं पुनर्गुरुणैवानुष्ठेयम्। -
२५ संसक्तानपानोपकरणादिविभजनं विवेकः ।। संसक्तानामन्नपानोपकरणादीनां विभजनं विवेक इत्युच्यते ।
व्युत्सर्गः कायोत्सर्गादिकरणम् ।६। कालनियमेन कायोत्सर्गादिकरणं व्युत्सर्ग इत्युच्यते । तपोऽनशनादि । अनशनावमोदर्यवृत्तिपरिसंख्यानादि तपोऽवगन्तव्यम् ।
दिवसपक्षमासादिना प्रव्रज्याहापनं छेदः । चिरप्रव्रजितस्य दिवसमासादिविभागेन ३० प्रव्रज्याहापनं छेद इति प्रत्येतव्यम् ।
पक्षमासादिविभागेन दूरतः परिवर्जनं परिहारः ।। पक्षमासादिकालविभागेन संसर्गमन्तरेण दूरतः परिवर्जनं परिहार इत्यवध्रियते । - पुनर्दीक्षाप्रापणमुपस्थापना ।१०। महाव्रतानां मूलच्छेदं कृत्वा पुनर्दीक्षाप्रापणमुपस्थापनेत्याख्यायते।
विद्यायोगोपकरणग्रहणादिष प्रश्नविनयमन्तरेण प्रवृत्तिरेव दोष इति तस्य प्रायश्चित्तमालोचनमात्रम् । देशकालनियमेनावश्यं कर्त्तव्यमित्यास्थितानां योगानां धर्मकथादिव्याक्षेपहेतु
१ प्रसिद्धसति दोष-श्र० टि० । २ विरेचनकृतः-१० टि० । अतिक्तकाय-मु०, द०, ब०, ज० । भासमन्तात् विरक्तीकृतः विरेचनौपधिना निर्मलीकृतः इत्यर्थः। ३ गुरुदत्तप्रा-मु०, द०, ब०।