________________
५
२०
[ ६।२०-२२
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायन्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥
६२०
२५
स्वार्थवार्तिके
कुतः पुनरुत्तरत्वम्' ?
अन्यतीर्थ्यानभ्यस्तत्वादुत्तरत्वम् |१| यतोऽन्यैस्तीर्थै रनभ्यस्तमनालीढं ततोऽस्योत्तरत्वम्, अभ्यन्तरमिति यावत् ।
अन्तःकरणव्यापारात् |२| प्रायश्चित्तादितपः अन्तःकरणव्यापारालम्बनं ततोऽस्याभ्य
बाह्यद्रव्यानपेक्षत्वाच्च । ३। न हि बाह्यद्रव्यमपेक्ष्य वर्तते प्रायश्चित्तादि, ततश्चास्याभ्यन्तरत्वमवसेयम् ।
तद्भेदप्रतिपत्त्यर्थमाह—
नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥
नवादीनां भेदशब्दोपसंहितानामन्यपदार्थे वृत्तिः ॥ १ । नवादीनां संख्यापदानां भेदशब्दोपसंहितानामन्यपदार्थे वृत्तिर्भवति-नव च चत्वारश्च दश च पञ्च च द्वौ च भेदा अस्य नवचतुदशपञ्चद्विभेदमिति ।
न्तरत्वम् ।
द्विशब्दस्य पूर्वनिपातप्रसङ्ग इति चेत्; न; पूर्वसूत्रापेक्षत्वात् |२| स्यादेतत्-द्विशब्दस्य १५ पूर्वनिपातः प्राप्नोति", "द्वन्द्वे सु:" [३८], “अल्पाच्तरम् ।" [१।३।१०० ] इति सूत्रप्रामाण्यात् “संख्यायाः अस्पीयस्याः” [ १।३।१०० वा०] इत्युपसंख्यानाश्चेति; तन्न; किं कारणम् ? पूर्वसूत्रापेक्षत्वात् । पूर्वसूत्रे विहितानां नवादिभिर्यथाक्रममभिसंबन्धः कथं स्यादिति ? नैतद्युक्तम्, न लक्षणेन पदकारा अनुवर्त्याः, पदकारैर्नाम लक्षणमनुवर्त्यमिति । न च प्रयोजनेन लक्षणमुल्लङ्घनीयम् ; दोषः राजदन्तादिषु पाठः करिष्यते, लक्ष्यानुविधानाल्लक्षणस्य |
नैप
प्राग्ध्यानादिति वचनं यथासंख्यप्रतिपत्त्यर्थम् ॥३॥ प्राग्ध्यानादित्युच्यते यथासंख्यप्रतिपत्तिः कथं स्यादिति, इतरथा हि वैपम्याद्यथासंख्यं न स्यात् ।
तत्राभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसंख्यस्य भेदाख्यविशेषप्रक्लृप्त्यर्थमिदमुच्यतेआलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारो
पस्थापनाः ॥ २२ ॥
किमर्थमिदमुच्यते ?
प्रमाददोषव्युदासभावप्रसादनैः शल्यानवस्थाव्यावृत्तिमर्यादाऽत्यागसंयमदाराधनादिसिद्धयर्थं प्रायश्चित्तम् |१| प्रमाददोपव्युदासः भावप्रसादो नैः शल्यम् अनवस्थावृत्तिः मर्यादाऽत्यागः संयमादा माराधनमित्येवमादीनां सिद्धयर्थं प्रायश्चित्तं नवविधं विधीयते । प्रायः साधुलोकः, प्रायस्य यस्मिन्कर्मणि चित्तं तत्प्रायश्चित्तम् । “प्रायाश्चित्तिचित्तयोः” [ ४ | ३ | ११७ ] इति ३० सुट् । अपराधो वा प्रायः, चित्तं शुद्धिः प्रायस्य चित्तं प्रायश्चित्तम्, अपराधविशुद्धिरित्यर्थः ।
तत्र गुरवे प्रमादनिवेदनं दशदोषवर्जितमालोचनम् |२| तेषु नवसु प्रायश्चित्तविकल्पेषु एकान्ते निषणा प्रसन्नमनसे विदितदेशकालस्य शिष्यस्य सविनयेनात्मप्रमाद निवेदनं दशभिर्दोषैर्विवर्जितमालोचनमित्याख्यायते । के पुनस्ते दश दोषा इति चेत् ? उच्यते
१ अधिकत्वमिति ध्वनिः - श्र० टि० । २-ति शाब्दान्न्यासात् द्वन्द्व सुरल्पा- मु० शुद्धिपत्रे । ३ कारणाश्रयात् श्र० टि० । ४- वत्यं न च मु०, ६०, ब०, ज०, श्र० । ५-दमूलपरि - ता०, श्र० ज० । ६- दविनिमु०, द०, ब०, ज० ।