________________
UT ]
नवमोऽध्यायः
६१६
अभिरूपतमे संप्रत्ययो भवति तथा सर्वस्य पुद्गलद्रव्यस्य रसवत्त्वात् प्रकृटुरसत्याग संप्रत्ययो भवति । कश्चिदाह
अनशनामोदर सपरित्यागानां वृत्तिपरिसंख्यानावरोधात् पृथगनिर्देशः । वृत्तिपरिसंख्यानमिदं सामान्यभिक्षाचरणे नियमकारित्वात् । अतः अनशनाव मोदर्य रसपरित्यागानां तेनैवावरुद्धत्वात् पृथङ् निर्देशोऽनर्थकः ।
तद्विकल्पनिर्देश इति चेत्; न; अनवस्थानात् |१०| अथ मतम् - तस्य वृत्तिपरिसंख्यानस्य विकल्पा निर्देष्टव्या इति पृथगुपदेशः कर्तव्य इति; तन्न; किं कारणम् ? अनवस्थानात्' ।
न वा, कायचेष्टा विषयगणनार्थत्वाद् वृत्तिपरिसंख्यानस्य । ११ । न वा एष दोषः किं कारणम् ? भिक्षाचरणे प्रवर्तमानः साधुः एतावत्क्षेत्र विषयां कायचेष्टां कुर्वीत कदाचिद्यथाशक्तीति विषयगणनार्थं वृत्ति परिसंख्यानं क्रियते, अंनशनमभ्यवहर्त्तव्यनिवृत्तिः, एवम् अवमोदर्य रसपरि- १० त्यागौ अभ्यवहर्तव्यैकदेशनिवृत्तिपराविति महान् भेदः ।
आबाधात्ययब्रह्मचर्यस्वाध्याय ध्यानादिप्रसिद्धयर्थं विविक्तशय्यासनम् |१२| शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्यासनं वेदितव्यम् । तत्किमर्थम् ? ' आबाधात्ययब्रह्मचर्य स्वाध्यायध्यानादिप्रसिद्धयर्थम् ।
कायपरिक्लेशः स्थानमौनातपनादिरनेकधा | १३ | नानाविधप्रतिमास्थानं वाचंयमत्वम् १५ आतापनम् वृक्षमूल [वासः] इत्येवमादिना शरीरपरिखेदः कायक्लेश इत्युच्यते । स किमर्थः ?
देहदुःख तितिक्षा सुखानभिष्वङ्गप्रवचनप्रभावनार्थम् | १४ | दुःखोपनिपाते सति तितिक्षार्थ विषयसुखे चानभिष्वङ्गार्थं प्रवचनप्रभावनाद्यर्थं च कायक्लेशानुष्ठानं क्रियते । इतरथा हि ध्यानप्रवेशकाले सुखोचितस्य द्वन्द्वोपनिपाते सति समाधानं न स्यात् ।
५
परीषहजातीयत्वात् पौनरुक्त्यमिति चेत्; न; स्वकृत क्लेशापेक्षत्वात् | १५ | स्यान्मतम् - अयं २० कायक्लेशः स्थानमौनादिः परीषहजातीयस्ततः पुनरुपदेशः पौनरुक्त्यं जनयतीति; तन्न; किं कारणम् ? स्वकृतकायक्लेशापेक्षत्वात् । बुद्धिपूर्वो हि कायक्लेश इत्युच्यते, यदृच्छयोपनिपाते परीषहः । दृष्टफलानपेक्षमित्येतत् सर्वत्रानुवर्त्तते । तत्तर्हि कर्तव्यम् -
• सम्यगित्यनुवृत्तेर्दृष्टफलनिवृत्तिः | १६ | “सम्यग्योगनिग्रहो गुप्तिः " [ ६३ ] इत्यतः सम्यग्ग्रहणमनुवर्त्तते, तेन दृष्टफलनिवृत्तिः कृता भवति सर्वत्र । बाह्यत्वमस्य कुतः ?
बाह्यद्रव्यापेक्षत्वाद् बाह्यत्वम् | १७ | बाह्यमशनादिद्रव्यमपेक्ष्य क्रियत इति बाह्यत्वमस्य प्राह्यम् ।
परप्रत्यक्षत्वात् । १८ । परेषां खल्वप्यनशनादि प्रत्यक्षं भवति, ततश्चास्य बाह्यत्वम् ।
तीर्थ्यगृहस्थ कार्यत्वाच्च ॥ १६॥ अनशनादि हि तीथ्यैर्गृहस्थैश्च क्रियते ततोऽप्यस्य बाह्यत्वम् । कथं ततदनशनादि तप इत्युच्यते ?
३०
कर्मनिर्वहनात्तपः | २० | यथाऽग्निः सचितं तृणादि दहति तथा कर्म मिथ्यादर्शनाद्यर्जितं निर्दहतीति तप इति निरुच्यते ।
देहेन्द्रियतापाद्वा |२१| अथवा देहस्येन्द्रियाणां च तापं करोतीत्यनशनादि [ अतः ] तप इत्युच्यते । तत्तापादिन्द्रियनिग्रहः सुकरो भवति ।
उक्तं बाह्यं तपः, अथाभ्यन्तरस्य के भेदा इति ? अत्रोच्यते
१ अनशनादीनीयम्प्येवेति नियमाभावादनवस्था - श्र० टि० । २ अनशनादीनां परस्परतः को भेद इत्यत आह- श्र० टि० । ३ जन्तुबाधा - श्र० टि० । ४ इति व्यपदिश्यते ता० ।
२५
२५
३५